न हि गृहीतग्राहित्वेन स्मृतेरनुवादस्य चाप्रामाण्यं वाच्यम्
प्राभाकरोक्ताक्षेपनिरासः
प्रमाणलक्षणटीका
न हि गृहीतग्राहित्वेन स्मृतेरनुवादस्य चाप्रामाण्यं वाच्यम् । तथा सति प्रत्यक्षाऽदिसिद्धार्थानुवादकस्य ‘अग्निर्हिमस्य भेषजम्’ इत्यादेरप्रामाण्यप्रसङ्गात् । अतो गृहीतग्राहित्वेऽपि स्मृतेरनुवादवत् प्रामाण्यमेव यथार्थत्वाद् इति ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
॥ प्रत्यक्षादीति ॥ अग्नेर्हिमनिवारकत्वरूपहिमभेषजत्वस्य स्पार्शनप्रत्यक्षसिद्धत्वाद् इत्यर्थः ।
प्रमाणलक्षणटीकाविवरणं
गृहितगा्रहित्वम् अप्रामाण्येन हेतुरिति भावेन सिद्धांत्याह । नेति॥ तस्य तत्र हेतुत्वे बाधकमाह ॥ तथा सतीति ॥ वेदादेरिति वदता नैय्ययिकीयस्य धारावाहिकज्ञानादेरप्रामाण्यप्रसङ्गादिति परिहारस्यायुक्तत्वं सूचयति । तस्य अप्रामाण्यस्यैव संभवात् । न च वेदेऽपि तत्समं तथात्वे बोधत्वापत्तेरिति भावः।