स्मृतिः केवलप्रमाणमेव न भवति
प्राभाकरमतेन स्मृतिप्रामाण्याक्षेपः
प्रमाणलक्षणटीका
स्मृतिः केवलप्रमाणमेव न भवति । गृहितमात्र-ग्राहित्वात् । अनुवादवत् । अतः कथं प्रत्यक्षप्रमाणजन्यत्वम्? इत्यत आह
स्मृत्यनुवादयोर्नाप्रामाण्यम्
प्रमाणलक्षणटीकाभावदीपः
अनुवादग्रहणं दृष्टान्तार्थम् इतिभावेनोक्तम् अनुवादवद् इति ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
प्राभाकरः शङ्कते । स्मृतिरिति ॥ न भवतीति ॥ अनधिगतार्थगन्तृत्वरूपप्रमाणलक्षणाभावाद् इति भावः । कुतः ? इत्यतस् तदुप-पादयति ॥ गृहीतमात्रेति ॥ पूर्वानुभवविषयीकृतार्थावगाहित्वाद् इत्यर्थः । अनुवाद-वत् प्रमाणान्तरसिद्धार्थानुवादवाक्यवत् ।
प्रमाणलक्षणटीकाविवरणम्
एवं निरस्ते नैय्यायिके प्राभाकरः शांकते स्मृतिरिति॥ अनधि-गततथाभूतार्थगंतृप्रमाणमिति तल्लक्षणं तच्च न स्मृताविति ॥ इदमनुमानमनेनोक्तं भवति ॥ स्मृतिर्न प्रमाणं गृहीतमात्रग्राहित्वादनुवादवदिति ।