मानसप्रत्यक्षजा स्मृतिः
तार्किकमतेन स्मृतिप्रामाण्याक्षेपः
प्रमाणलक्षणटीका
ननु स्मृतिः केवलप्रमाणं न वा । आद्ये केवलस्य उत्पत्ति मतोऽनुप्रमाणजन्यत्वं वाच्यम् । अतःतद्धेतोः संस्कारस्य प्रामाण्यमङ्गीकार्यम् । ततश्च नोक्तविभागो युक्तः ।
नहि संस्कारो यादृच्छिकसंवादी । येनाप्रमाणमपि केवलस्य हेतुः स्यात् । चक्षुरादिसाम्यात् ।
नचासावुक्तेऽन्तर्भवति । अनिन्द्रियसन्निकर्षरूपत्वात् । अज्ञातस्यैव करणत्वान् नानुमानागमयोः । द्वितीये केवलप्रमाणलक्षणस्यातिव्याप्तिः । स्मृतेरपि यथार्थज्ञानत्वाद् इत्यत आह
प्रमाणलक्षणम्
***मानसप्रत्यक्षजा स्मृतिः ***
तार्किकोक्ताक्षेपनिरसनम्
भवत्येव स्मृतिः केवलप्रमाणम् । न तैवं संस्कारस्य पृथक्प्रामाण्याभ्युपगमप्रसङ्गः । स्मृतेर्मानसप्रत्यक्षत्वा-भ्युपगमात् । द्विविधं हि ज्ञानं मनो जनयति । तत्तदिन्द्रियाधिष्ठा-तृत्वेन तत्तदिन्द्रियविषयम्, स्वातन्त्र्येण स्मरणं चेति । संस्कारस्तु प्रत्यासत्तिमात्रम् । न तावता प्रत्यक्षजन्यत्वाभावः प्रत्यभिज्ञावदेवेति । न च वाच्यमतीतेन मनसः सन्निकर्षायोगेन अप्रत्यक्षजन्यत्वं स्मृतेरिति । अतीतादिविषययोगिप्रमायामपि तथात्वापातादिति ।
प्रमाणलक्षणटीकाभावदीपः
॥ उक्तविभाग इति ॥ अनुप्रमाणं त्रिविधम् इत्युक्तविभाग इत्यर्थः ॥ यादृच्छिकसंवादीति ॥ वह्निमति धूलीपटले धूमभ्रम इवेति भावः
॥ केवलस्येति ॥ केवलप्रमाणस्य स्मृतेरित्यर्थः । कदाचिद् अयथार्थस्मृतेरपि हेतुत्वाद् अप्रमाणम् इत्यत आह ॥ चक्षुरादीति ॥ दोषापवादाद् अन्यथाज्ञान-जननेऽपि प्रामाण्यानपायादिति भावः ।
॥ न चासाविति ॥ संस्कार इत्यर्थः ॥ अनुमानागमयोरिति ॥ अन्तर्भवतीत्यनुकर्षः ॥ द्वितीय इति ॥ प्रमाणं न इति पक्षे । तत्तदर्थविषयमिति ॥ ज्ञानं जनयतीत्यनुकर्षः ॥ स्वातन्त्र्येणेति ॥ इन्द्रियान्तरद्वारं विनेत्यर्थः ॥ न तावतेति ॥ संस्कारसहकारितामात्रेणेत्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
यथार्थज्ञानसाधनमनुप्रमाणम्, यथार्थज्ञानं केवलम् इत्युक्तानुप्रमाणकेवलप्रमाण लक्षणयोः संस्कारे स्मृतौ च अतिव्याप्तिं दातुं तार्किकः शङ्कते ॥ नन्वित्यादिना ॥ ईश्वरज्ञानव्यावर्त्यर्थमुक्तम् उत्पतिमत इति ।
॥ उक्तविभाग इति ॥ अनुप्रमाणं त्रिविधम् इत्युक्तविभाग इत्यर्थः । ननु यथा यादृच्छिकसंवादिलिङ्गविभ्रमस्य अप्रमाणस्यापि यथार्थज्ञानजनकत्वं दृष्टं तथा संस्कारस्यापि यादृच्छिकसंवादित्वात् स्वयमप्रमाणस्यापि यथार्थज्ञानजनकत्वं किं न स्यात् ? इत्त्याशङ्क्य निषेधति ॥ न हीति ॥
कुतो न यादृच्छिकसंवादी ? इत्यत आह ॥ चक्षुरादीति ॥ अन्यथा चक्षुरादीनामपि यादृच्छिकसंवादित्वापत्या अप्रामाण्यापत्तेः । न च वाच्यं केवलस्य चक्षुरादेः प्रामाण्यं नास्त्येव । किं तु ? अर्थसंनिकृष्टस्य मनोधिष्ठितस्यैव। न हि तादृशे चक्षुरादिके सति कदाचिद् यथार्थज्ञानानुपपत्तिरस्ति । अतो न तत्साम्यम् इति । तर्हि प्रकृतेऽपि न केवलस्य संस्कारस्य स्मृतिकारणत्वम् । किं तु ? समुद्बुद्धस्यैव । न हि तादृशे संस्कारे सति कदाचित् स्मृत्यनुत्पत्तिरस्ति इत्याशयः।
ननु तर्हि प्रत्यक्षाऽदित्रयान्यतमान्तर्भावोऽस्तु इत्याशङ्क्य निषेधति ॥ न चासाविति ॥ असौ संस्कारः । तत्र प्रत्यक्षानन्तर्भावे हेतुमाह ॥ अनिन्द्रियेति ॥ इन्द्रियसंनिकर्षरूपत्वाभावादित्यर्थः ।
अनुमानागमयोरनन्तर्भावे हेतुमाह ॥ अज्ञातस्यैवेति ॥ तयोर्ज्ञातकरणत्वाद् इति भावः ॥ द्वितीय इति ॥ स्मृतेः केवलप्रमाणत्वाभावाङ्गीकार इत्यर्थः ॥ अतिव्याप्तिरिति ॥ स्मृताविति शेषः । कुतः ? इत्यतः केवलप्रमाणलक्षणसद्भावाद् इत्याह ॥ स्मृतेरपीति ॥
तर्हि संस्कारेऽतिव्याप्तिर् इत्याशङ्क्य परिहरति ॥ न चैवमिति ॥ ननु मनसो बाह्येन्द्रियाधिष्ठानेनैव बाह्यार्थज्ञानजनकत्वात् कथं तदनधिष्ठानेन मनसः स्मृतिजनकत्वम् ? इत्यत आह ॥ द्विविधं हीति ॥ स्वातन्त्र्येणेति ॥ बहिरिन्द्रियनैरपेक्ष्येणेत्यर्थः । तदनधिष्ठानेन इति यावत् । न तु सहकार्यन्तरानपेक्षेण इत्यर्थः । उत्तरग्रन्थविरोधापत्तेः । एवं च अनेन स्मृतिरूपयथार्थज्ञानस्य असाधारणफलस्य सत्त्वाद् अनुप्रमाणविशेषेन्द्रियरूपता मनस उपपद्यत इत्यपि सूचितम् भवति इति द्रष्टव्यम् । नन्वेवं मनस एव स्मृतिजनकत्वे संस्कारस्य कथं तज्जनकत्वोक्तिः ? इत्यत आह ॥ संस्कारस्त्विति ॥ प्रत्यासत्तिमात्रमिति ॥ योगीन्द्रियाणां योगजधर्म इव मनसस् तदर्थसंनिकर्षस्थानीय एवेत्यर्थः । तथा च मनस एव तत्करणत्वेन संस्कारस्य व्यापारमात्रतया करणत्वानङ्गीकाराद् यथार्थज्ञानसाधनत्वरूपानुप्रमाणलक्षणस्य न संस्कारेऽतिव्याप्तिरिति भावः ।
ननु यथाकथञ्चित् संस्कारस्यापि कारणत्वाङ्गीकारात् तस्य च प्रत्यक्षत्वाभावात् तज्जन्यायाः स्मृतेः प्रत्यक्षत्वं नास्ति इत्याशङ्क्य परिहरति ॥ न च तावतेति ॥ संस्कारजन्यत्वमात्रेण इत्यर्थः ॥ प्रत्यक्षजन्यत्वाभाव इति ॥ मानसप्रत्यक्षजन्यत्वाभाव इत्यर्थः ॥ प्रत्यभिज्ञावदेवेति ॥ यथा ‘सोऽयम्’ इति प्रत्यभिज्ञायाः संस्कारजन्यत्वेऽपि प्रत्यक्षजत्वाभावो नास्ति । चक्षुषा प्रत्यभिज्ञा-प्रत्यक्षे जननीये संस्कारस्य सहकारिमात्रत्वात् , एवं मनसा स्मृतौ जननीयायां संस्कारस्यापि तथात्वाद् युक्तं प्रत्यक्षजत्वं स्मृतेर् इत्यर्थः ।
ननु स्मृतेः कथं मानसप्रत्यक्षजत्वम् । स्मृतौ हि ‘सः’ इति अतीतत्वं भासते। न च अतीतेनार्थेन मनसः संनिकर्षोऽस्ति । न च संस्काररूपः संनिकर्षोऽस्ति इति वाच्यम् । संयोगादीनां षण्णामेव संनिकर्षत्वेन प्रसिद्धत्वात् संस्कारस्य च तद्रूपत्वाभावेन संनिकर्षत्वस्यैवाभावात् । प्रसिद्धश्च षड्विधः संनिकर्षः प्रकृते नास्ति इति प्रत्यक्षजन्यत्वाभावं स्मृतेराशङ्क्य निषेधति ॥ न च वाच्यमिति ॥ संनिकर्षायोगेनेति ॥ प्रसिद्धषडि्वधसंनिकर्षायोगेन इत्यर्थः । कुतो न च वाच्यम् ? इति चेद् उच्यते , यदुक्तम् अतीतेन सह मनसः प्रसिद्धषडि्वधसंनिकर्षाभावात् स्मृतेः प्रत्यक्षजन्यत्वं नास्ति इति । तदयुक्तम् । तथात्वे योगीश्वराणां जायमानाया अतीताऽदिविषयिणी प्रात्यक्षिकप्रमा तस्या अपि प्रत्यक्षजन्यत्वं न स्यात् । अतीतादिना साकं योगिप्रत्यक्षस्यापि प्रसिद्धषड्विधसंनिकर्षायोगात् । यदि च अतीतादिना सह योगिप्रत्यक्षस्य प्रसिद्धषडि्व्धसंनिकर्षाभावेऽपि योगजधर्मस्यैव प्रत्यासत्तित्वाङ्गीकाराद् युक्तम् अतीताऽदिप्रमाया योगिप्रत्यक्षजत्वम् इति ब्रूषे तर्हि वयमपि वदामो मनसा स्मृतौ जननीयायाम् अतीतेन प्रसिद्धषडि्व्धसंनिकर्षा-योगेऽपि संस्कारस्यैव प्रत्यासत्तित्वं सम्भवति इति युक्तं स्मृतेरपि मानसप्रत्यक्ष-जत्वम् इति । न च संस्कारस्य प्रत्यासत्तित्वम् अप्रामाणिकम् इति वाच्यम् । योगजधर्मेऽपि मानसप्रत्यक्षजत्वम् इति । योगजधर्मेऽपि साम्यात् । अलौकिक-प्रत्यासत्तित्वस्य संस्कारेऽपि समानत्वाद् इत्याशयेन आह ॥ अतीतादीति ॥
प्रमाणलक्षणटीकाविवरणम्
॥ नैय्यायिकः शंकते ॥ नन्विति ॥ ईश्वरज्ञानादेः केवलप्रमाणस्य अनुप्रमाणजन्यत्वाभावाद् व्यभिचार इत्यत उक्तम् उत्पत्तिमदिति ॥ उक्तेति ॥ अनुप्रमाणं त्रिविधमित्युक्तविभागानुपपत्तिः संस्कारस्याप्यनुप्रमाण-त्वाद् इति भावः। ननु यादृच्छिकसंवादिलिंगविभ्रमादेरपि तथात्वं स्यादित्यत आह ॥ न हीति ॥
अयमाशयः लिंगविभ्रमस्य दोषसहकृतस्यैव ज्ञानजन्यत्वान्नानुप्रमाणत्वं तदभावे लिंगविभ्रमस्यैवासंभवात् । न चैवं संस्कारस्य दोषसहकृतस्या-यथार्थस्मृतिजनकत्वेऽपि दोषासहकृतस्य नियमेन यथार्थस्मृतिजनकत्वात् । अन्यथा चक्षुरादेरप्यनुप्रमाणत्वं न स्यादिति ॥ चक्षुरादीति ॥ यथा चक्षुरादिकं दोषसहकृतम् अयथार्थज्ञानजनकमपि दोषासहकृतं यथार्थज्ञानमेव जनयति ॥ तथा संस्कारेऽपीति ॥ साम्यञ्च तेन रूपेणेति बोध्यम् ।
॥ न चोक्तेष्विति ॥ अन्तर्भावः किं प्रत्यक्षे किं वाऽनुमानागमयोः ॥ नाद्य इत्याह अनिंद्रियेति ॥ निर्दोषपार्थिवेंद्रियसन्निकर्षस्यैव प्रत्यक्षत्वादित्यर्थः
द्वितीयं दूषयति ॥ अज्ञातस्येति ॥ अनुमानादेर्ज्ञातकरणत्वादित्यर्थः ॥ द्वितीये केवलप्रमाणत्वाभाव इत्यर्थः । ननु मनसो बाह्येन्द्रियाधिष्ठानेनैव बहिरर्थज्ञानजनकत्वाद् बाह्येन्द्रियानधिष्ठाने मनसः स्मृतिजनकत्वं न संभवतीत्यत आह द्विविधमिति ॥ स्वातंत्र्येणेति ॥ बहिरिन्द्रियानधिष्ठानेनेत्यर्थः । न तु सह कार्यन्तरानपेक्षेणेत्यर्थः । संस्कारस्तु सहकारिमात्रमित्युत्तरग्रन्थविरोधापातात् ।
नन्वेवं मनस एव स्मृतिजनकत्वे संस्कारस्य कथं स्मृतिजनकत्वमित्यत आह ॥ संस्कारस्त्विाति ॥ मात्रशब्दं प्रयुंजानेनैवं सूचितं संस्कारः करणमिति । नन्वेवं संस्कारस्यापि कारणत्वे तस्या प्रत्यक्षत्वात् स्मृतेः प्रत्यक्षजन्यत्वं न स्यादिति शङ्कते ॥ न चेति ॥ प्रत्यभिज्ञावदेवेति ॥ यथा हि प्रत्यभिज्ञायाः संस्कारजन्यत्वेऽपि प्रत्यक्षत्वं तथा स्मृतेरपि संस्कारजन्यत्वेऽपि प्रत्यक्षत्वम् अन्यथा प्रत्यभिज्ञानस्यापि प्रत्यक्षजन्यत्वापातादिति भावः ।
गूढाभिसंधिः शङ्कते ॥ न चेति ॥ आशयस्तु न स्मृतेः प्रत्यक्षजन्यत्वं प्रत्यक्षस्य सन्निकृष्टस्यैव तज्जनकत्वेन मनसश्च तेन सह उक्तषडि्वधसंबंधाभावात् ॥ अन्यथाऽतिप्रसङ्गादिति । गूढाभिसंधिरेव परिहरति अतीतादीति ॥ अयमाशयः ॥ तथात्वे अतीतादिविषययोः प्रत्यक्षप्रमाया अपि प्रत्यक्षजन्यत्वं न स्यात् । अतीतादिनोक्तषडि्वधे सन्निकर्षासंभवान् न चोक्तषडि्वधसन्निकर्षाभावेऽपि प्रत्यक्षजन्यत्वमुक्तम् । तस्य योगजधर्मस्यैव भिन्नस्य प्रत्यासत्तित्वाङ्गीकारादिति वाच्यम् । तथात्वे प्रकृतेऽपि तत्तुल्यम् । उक्तषडि्वधसन्निकर्षाऽभावे विरसस्यैव प्रत्यासत्तित्वसंभवात् । न च स तत्र गणितःयोगजधंर्मेऽपि तुल्यत्वाद् इति ।