०३ तार्किकाभिमतः प्रत्यक्षकरणविभागः

निर्विकल्पकसविकल्पकभेदाद् द्विविधं प्रत्यक्षमित्येके

तार्किकाभिमतः प्रत्यक्षकरणविभागः

प्रमाणलक्षणटीका

निर्विकल्पकसविकल्पकभेदाद् द्विविधं प्रत्यक्षमित्येके । यद् द्रव्यगुणाऽदिस्वरूपमात्रावगाहि न तु तद्विशेषणविशेष्य-भावविषयं तन् निर्विकल्पकम् ।

यथा ‘यत्किञ्चिदेतत्’ इति, ज्ञानसाधनम्, प्राथमिकम्। सञ्ज्ञागुणकर्मजातिविशिष्टार्थविषयं सविकल्पकम् । यथा ‘शुक्लो ब्राह्मणो गच्छति’ इति । द्वितीयम् इति ।