०२ साक्षिप्रामाण्यम्

द्विविधमिन्द्रियम् । प्रमातृस्वरूपं तदतिरिक्तञ्चेति

साक्षिप्रामाण्यम्

प्रमाणलक्षणटीका

द्विविधमिन्द्रियम् । प्रमातृस्वरूपं तदतिरिक्तञ्चेति । तत्र स्वरूपेन्द्रियं साक्षीत्युच्यते । स च ज्ञानरूपः । तस्य आत्मस्वरूपत्वं तद्धर्माश्च सुखाऽदयो बहिश्चाकाशकाला-दयोऽपि विषयाः । सुखाऽदीनां भिन्नेन्द्रियविषयत्वे कदाचिदपरोक्षभ्रमविषयताऽपातात् । अनन्यथात्वनियमः साक्षिण एव हि धर्मः न त्वन्यस्य । न च कालाऽदेरसाक्षि-विषयत्वम् । रूपाऽद्यभावेन चक्षुराद्यविषयत्वात् । मनसो बहिरस्वातन्त्र्याभ्युपगमात् । अननुसंहितव्याप्तीनामपि प्रतीतेर् नानुमानात् तज्ज्ञानम् । जातिबधिराणामप्युपलम्भेन नाऽगमविषयताऽपीति ।

प्रमाणलक्षणटीकाभावदीपः

॥ यदुक्तमिति ॥ अनुप्रमाणन्त्रिविधम् इत्यारभ्य लिङ्गविशेष इत्यन्तेन ग्रन्थजातेन इति योज्यम् । आत्मस्वरूपत्वघटनाय आह ॥ ज्ञानरूप इति ॥ यद्वा वक्ष्यमाणनैयायिकलक्षणस्य साक्षिणि अव्याप्तिघटनाय आह ॥ ज्ञानरूप इति ॥ इन्द्रियमात्रत्वे तदयोगात् । तद्धर्माः स्वरूपाऽनन्दपरिमाणाविद्या-ऽदयः ॥ सुखाऽदय इति ॥ मनोधर्माः । मनश्च ग्राह्यम् । आकाशोऽव्याकृतः । आदिपदेन प्राच्यादिदिग्विशेषाः क्षणलवाऽदिकालविशेषास् तयोर् अनन्तपरिमाणं ज्ञानप्रामाण्याप्रामाण्ये इत्येतद् गृह्यते । ॥ भिन्नेन्द्रियेति ॥ स्वरूपातिरिक्त-प्राकृतेन्द्रियेत्यर्थः ॥साक्षिण एव हि धर्म इति ॥ तथा च अनन्यथात्वनियमान्यथा-नुपपत्त्या सुखाऽदिबुद्धेः साक्षिरूपत्वसिद्धेर् इति भावः । परिशेषतः कालाऽदेः साक्षिविषयत्वं साधयति ॥ न चेति ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

सुखदुःखाऽदय इत्यत्र आदिपदेन ज्ञानेच्छाप्रयत्नद्वेषभयकृपा-विद्याऽदीनाम् एतदभावानाम् अज्ञानाऽदीनाम् आत्मस्वरूपस्य मनसश्च ग्रहणम् । कालाऽदय इत्यत्र आदिपदेन द्व्यणुकपरमाणुप्रकृत्यादीनां ग्रहणम् ।

ननु सुखाऽदीनां प्रमातृस्वरूपभूतसाक्षिरूपेन्द्रियतो भिन्नेन्द्रियविषयत्वं किं न स्यात् ? इत्यत आह ॥ सुखाऽदीनामिति ॥ भिन्नेन्द्रियेति ॥ प्रमातृस्वरूपभिन्नेन्द्रियेत्यर्थः ।

॥ भ्रमविषयतेति ॥ भिन्नेन्द्रियाणां कदाचिद् दोषयुक्तानां भ्रमजनकत्व-स्यापि दर्शनाद् इति भावः ॥ आपातादिति ॥ तथात्वे परीक्षानवस्थाया दुष्परिहरत्वापत्तेरिति भावः । यथोक्तम् अनुव्याख्याने

‘‘न परीक्षाऽनवस्था स्यात् साक्षिसिद्धे त्वसंशयात्’’ इति ।

साक्षिविषयत्वे तु नायं दोष इत्याह ॥ अनन्यथात्वनियम इति ॥ अर्थाव्यभिचारित्वनियम इत्यर्थः ॥ साक्षिण एव हीति ॥

‘‘साक्षी निर्दोष एवैकः सदाऽङ्गीकार्य एव नः’’

इत्यादिप्रसिद्धिर् हिशब्देन दर्शितेति ज्ञातव्यम् । बहिः कालाऽदीनां साक्षिविषयत्वम् उक्तम् । तदुपपादयितुम् आशङ्कते ॥ न चेति ॥ असाक्षिविषयत्वमिति ॥ साक्षीतरप्रत्यक्षाऽदिप्रमाणविषयत्वमित्यर्थः । कुतो न ? इति चेत् , साक्षीतरप्रमाणं कालाऽदिग्राहकं प्रत्यक्षं वा स्यात् ? उत अनुमानम् ? यद्वा आगमः ? आद्येऽपि तत् प्रत्यक्षं चक्षुरादिरूपं बाह्यं विवक्षितम् ? उत अन्तरिन्द्रियरूपं मनो वा? नाऽद्य इत्याह ॥ रूपादीति ॥ आदिपदेन उद्भूतस्पर्शाऽद्यभावान् न स्पार्शनत्वम् इत्यादि द्रष्टव्यम् । न द्वितीय इत्याह ॥ मनस इति ॥ बहिरस्वातन्त्र्येति ॥ चक्षुराद्यधिष्ठानेनैव बहिः पदार्थविषयकज्ञानजनकत्वेन तज्ज्ञानजनने स्वातन्त्र्या-भावाद् इत्यर्थः।

ननु ‘परमाणुम् अहं जानामि’ इतिवत् प्रमाणान्तरोपनीतस्य कालाऽदेर् मानसप्रत्यक्षत्वम्् युक्तम् इति चेन्न । तत्र परमाणूपनायकस्य ‘ त्रसरेणुः सावयवावयवारब्धः जन्यमहत्त्वाधिकरणत्वात् । द्व्यणुकं स्वापेक्षया स्वल्पपरि-माणद्रव्यारब्धं कार्यद्रव्यत्वाद् घटवत्’ इत्याद्यनुमानस्य सत्त्वाद् अत्र तदभावाद् इति भावः ।

ननु अस्तु तर्हि तृतीयः पक्षः । तथा हि, कालस्य ‘परापरव्यतिकरयौग-पद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गः’ इति परोक्तरीत्या दिग्विपरीतपरत्वापरत्वाऽदि-षट्प्रत्ययानुमेयत्वोपपत्तेः । आकाशस्यापि ‘शब्दो ऽष्टद्रव्यातिरिक्तद्रव्याश्रितो ऽष्टद्रव्यानाश्रितत्वे सति गुणत्वात्’ इत्यनुमानवेद्यत्वोपपत्तेः । प्रकृतेरपि

भेदानां परिमाणात् समन्वयात् शक्तिः प्रवृत्तेश्च ।

कार्यकारणविभागाद् अविभागाद्वैश्वरूप्यस्य ॥

इति साङ्ख्योक्तरीत्या कार्यकारणविभागाद्यनुमानवेद्यत्वोपपत्तेर् इत्यत आह ॥ अननुसंहितव्याप्तीनामिति ॥ व्याप्त्याद्यनुसन्धानरहितानामपि मूर्खाणाम् ‘इदानीमागतोऽस्मि, सर्वत्रास्त्यवकाशः’ इत्यादिप््रातीतेरित्यर्थः ।

अननुभूतव्याप्तिकस्य पुंसोऽनुभूयमाने धर्मिणि व्याप्यधर्मस्य अनुभवात् प्रागनुभूतां व्याप्तिं स्मृतवतो व्याप्यस्य हेतोः पक्षे अनुसन्धानं ह्यनुमानम् । न ह्येतावती अनुमानसामग्री मूर्खाणामस्तीति भावः ।

ननु अस्तु तर्हि ‘कालश्च नित्यःप्रकृतिश्च नित्या , अनादिर्वाअयमाकाशः , प्राणः श्रद्धाऽकाशः’ इत्याद्यागमात् कालाऽदीनां सिद्धिर् इति चतुर्थः पक्ष इत्यत आह ॥ जातिबधिराणामपीति ॥ एतेन अनुमानायद्युपनीतस्य कालादेर् मानसप्रत्यक्षेणैव भानमस्तु इत्यपि परास्तं ज्ञातव्यम् ॥

प्रमाणलक्षणटीकाविवरणम्

प्रत्यक्षविभागस्य प्रत्यक्षलक्षणान्तरमेव वक्तव्यत्वात्तमनुक्त्वा उपपत्तिदोषान्तरनिरूपणमसंगतमित्यत आह ॥ सिंहेति ॥ न चात्र साक्षिषडिंद्रिय-भेदेनेति सर्वेषामपि निर्देशापत्तेः । अथ सामान्योऽयं निर्देशः । तथात्वे सप्तेन्द्रिय-भेदेनेति वक्तव्यत्वाद् उभयथाऽपि साक्षिषडिंद्रियभेदेनेत्युक्तमित्यतोऽस्य तदपेक्षया महावैलक्षण्यसत्वाद्युक्तमित्याह ॥ द्विविधमिति ॥

न चैवमपि स्वरूपेन्द्रियतदतिरिक्तभेदेनेत्येव वक्तव्यं साक्षिषडिंद्रिय-भेदेनेत्ययुक्तमेवेत्यत आह ॥ तत्रेति ॥ तत्र साक्षिणश् चक्षुरादिवज् ज्ञानकारणत्व-मात्रं मन्तव्यमित्याह ॥ स चेति ॥ चशब्दो भिन्नक्रमः संज्ञानस्वरूपश्च न केवलं चक्षुरादिवज् ज्ञानकारणमात्रम् अपि तु ज्ञानरूपश्चेति तदर्थः ।

ननु तथाऽपि न साक्षिण इंद्रियत्वं तद्धि चक्षुरादिवदसाधारणविषयान्यथा-नुपपत्या स्यात् । न चास्य असाधारणविषयोऽस्ति । तत्कथमिंद्रियत्वमित्यत आह तस्येति । तद्धर्मा इत्युक्तऽपि यदा सुरवादय इति पृथगुपादत्ते तेन तेषामात्मधर्मत्वं वदतां नैय्यायिकादीनां मतं निरस्तं भवति । तेषामात्मधर्मत्वे प्रमाणाभवात् ।

न चैवं मनोधर्मत्वेऽपि तदभावः । कामःसंकल्प इत्यादेर् एतत्सर्वं मन एवेति। तन्न प्रमाणत्वात् । तद्धर्मपदेन च कर्तुत्वभोक्तृत्वादेर्ग्रहणम् । आकशोऽव्याकृताकाशः । यः परैर् दिक्त्वेनाभ्युपगत आदिपदेन अव्द्यिादिसंग्रहः । आकाशादीनां बाध्यस्थत्वोक्त्या सुखादीनामन्तरत्वमुक्तं भवति । कुतस्तेषां साक्षिविषयत्वम् अन्य-विषयत्वस्यापि संभवादित्यत आह । सुखादीनामन्यविषयत्वे तावद्बाधकमाह ॥ सुखादीनामिति ॥ भिन्नेन्द्रियविषयत्वे प्रमातृस्वरूपभिन्नेन्द्रियविषयत्व इत्यर्थः।

नन्वेवं कदाचिद् भ्रमविषयत्वापातेनाऽन्येंद्रियविषयत्वाभावे साक्षिविषयत्व-मपि न स्यात् । तथापि भ्रमविषयत्वापातादित्यतः पूर्वं भिन्नेंद्रियविषयत्व इत्यदिना सूचितां युक्तिमाह ॥ अन्यथात्वेति ॥ एवं सुखादेरन्यविषयत्वे बाधकमुक्त्वाऽ-काशादेरन्यविषयत्वं वदन् प्रष्टव्यः किं बाह्येंद्रियग्राह्यत्वं वा अंतरिंद्रियग्राह्यत्वं वाऽनुमानग्राह्यत्वं वा आगमग्राह्यत्वं वा ? नाद्य इत्याह ॥ रूपाद्यभावेनेति ॥ उपलक्षणमेतत् । उद्भूतस्पर्शाभावेन चेत्यपि द्रष्टव्व्यम् ।

इदमुक्तं भवति । बाह्येन्द्रियविषयत्वे ऽपि न तावच्चक्षुरिंद्रिविषयत्वम् । महत्वसमानाधिकरणोद्भूतरूपवत्वस्य द्रव्यचाक्षुषत्वे प्रयोजकत्वेन प्रकृते चाकाशादेर्नीरूपत्वेन तद्विषयत्वसंभवात् । नापि स्पर्शेन्द्रियविषयत्वम् । उद्भूतस्पर्शवत्वस्य द्रव्यस्पर्शवत्वे प्रयोजकत्वेन तद्विषयत्वसंभवात् । नापि श्रोत्रादिविषयत्वं तेषां शब्दादिगुणमात्रग्राहकत्वादिति ।

अस्तु तर्हि द्वितीय इत्यत आह ॥ मनस इति ॥ न च त्रसरेणुः सावयवारब्धः जन्यमहत्वाधिकरणत्वादित्यनुमानेनोपनीतस्य परमाणुमहं जानामीति चाक्षुषे भानवत् । अव्याकृताकाशादेरपि अनुमानोपनीतस्य मानसे ज्ञाने भानं भवत्विति वाच्यम् । तत्रोपनायकप्रमाणसद्भावेन मानसे ज्ञाने भानसंभवेऽपि अत्र तदभावेन भानासंभवात् कुतस्तदभाव इत्यत आह ॥ अननुसंहितेति ॥ यद्वा तृतीयं निरा-करोति अननुसंहितेति । व्याप्तिज्ञानरूपसहकार्यभावेऽपीत्यर्थश् चतुर्थं निराकरोति जातिबधिराणामिति ।

इदमुक्तं भवति । नागमोऽज्ञातःकरणम् अतिप्रसंगात् । किं तु ज्ञात एव । तथा च येन ज्ञातस् तस्यैव तद्बोधो भवतीति वक्तव्यम् । न च प्रकृते तथाऽस्ति जातिबधिराणामप्युपलंभात् । न चोपलंभो सिद्धः हस्तप्रसारणाद्यनुपपत्तेस्तद्भाना-भावेऽपि तत्सत्वे कुमध्येपि मध्येऽपि हस्तौ निक्षिप्येतेति ॥