०१ प्रत्यक्षकरणविभागः

प्रत्यक्षं सप्तविधं साक्षिषडिन्द्रियभेदेन

प्रत्यक्षकरणविभागः

प्रमाणलक्षणटीका

यदुक्तं त्रीण्येव प्रमाणानीति तदयुक्तम् । साक्षिणः पृथक्प्रमाणत्वाद् इत्यतस्तस्य प्रत्यक्षान्तर्भावज्ञापनार्थं सिंहावलोकनन्यायेन तद्विभागमाह

प्रमाणलक्षणम्

***प्रत्यक्षं सप्तविधम् ***

साप्तविध्यं कथम् ? इत्यत आह

***साक्षिषडिन्द्रियभेदेन ***