२५ तर्कपराहतिः

तर्कपराहतिश्च प्रागुदिताऽत्माश्रयाऽदिप्रसङ्गदुष्टत्वमिति

तर्कपराहतिः

प्रमाणलक्षणटीका

तर्कपराहतिश्च प्रागुदिताऽत्माश्रयाऽदिप्रसङ्गदुष्टत्वमिति ॥ २४ ॥

प्रमाणलक्षणटीकाभावदीपः

॥ प्रागुदितेति ॥ आत्माश्रयान्योन्याश्रयेत्यादिवाक्यव्याख्या-वसरे इति भावः ॥ २४ ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

ननु क्रमप्राप्तं तर्कपराहतिरूपं निग्रहस्थानं कस्माद्विविच्य न प्रदर्श्यत इत्यत आह ॥ तर्कपराहतिश्चेति ॥ प्रागिति ॥ आत्माश्रयान्योन्या-श्रयेत्यादिनेत्यर्थः । तथा च भगवत्पादैरेव विविच्य तस्याः प्रदर्शितत्वान् नास्माभिः प्रदर्श्यत इति भावः ॥ २४ ॥

प्रमाणलक्षणटीकाविवरणं

ननु तर्कपराहतिः कुतो नोक्तेत्यत आह ॥ तर्केति ॥ तथा च पूर्वमेवोक्तत्वान्नोच्यत इति भावः ।