समबलतयाऽभिमतप्रमाणविरुद्धः सत्प्रतिपक्षः
सत्प्रतिपक्षः
प्रमाणलक्षणटीका
समबलतयाऽभिमतप्रमाणविरुद्धः सत्प्रतिपक्षः ।
तत्र प्रत्यक्षविरुद्धो यथा ‘विमतः शङ्खः शुक्लः शङ्खत्वात्’ इत्यत्र प्रत्यक्षात् ‘पीतः किं न स्यात्’ इति ।
अनुमानविरुद्धो यथा ‘आकाशं नित्यम् अमूर्तद्रव्यत्वात्’ इत्यत्र ‘आकाशमनित्यम्अस्मदादिबाह्येन्द्रियग्राह्यगुणा-श्रयत्वात्’ इत्यनुमानाद् अनित्यमपि किं न स्याद् इति ।
आगमविरुद्वो यथा ‘प्रधानं न स्वतन्त्रं जडत्वात्’ इत्यत्र कापिलागमात् ‘स्वतन्त्रमपि किं न स्यात्’ इति ॥ २२७ ॥
प्रमाणलक्षणटीकाभावदीपः
॥ प्रत्यक्षात् पीतोऽपि किं न स्यात् ? इति ॥ कस्यचित्पीतनयनस्य शङ्खेऽपि तथा प्रतीतेर्भावेन प्रत्यक्षाद् इत्युक्तम् । तस्यशङ्खत्व-शुक्लप्रतीतिसमबलत्वाभावेऽपि आभिमानिकं तदस्तीति भावः । एवमग्रेऽपि ॥ २२७ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
अथ सत्प्रतिपक्षं लक्षयति ॥ समबलतयेति ॥ प्रकरणसम-सत्प्रतिपक्षयोर्भेदश्च तेनैव हेतुना साध्याभावसाधनं चेत् प्रकरणसमः हेत्वन्तरेण चेत् सत्प्रतिपक्ष इत्यग्रिमग्रन्थ एव स्पष्टः ॥ २२७ ॥
प्रमाणलक्षणटीकाविवरणं
ननु कथमस्य स्वपरपक्षयो रूपत्रयोपेतत्वं मिथ्यात्वसाधकत्वे विपक्षभूतस्य ब्रह्मणः सत्यत्वसाधने सपक्षत्वात् सपक्षस्य शुक्तिरजतादेर् विपक्षत्वात् । तथाच ब्रह्म दृश्यम् अदृश्यं शुक्तिरजतं दृश्यम् अदृश्यं चेति स्यात् तच्च न संभवति । एकस्युभयरूपत्वासंभवाद् इत्यत आह ॥ उभयत्रेति ॥
इति हेत्वाभासः ॥ २२७ ॥