स्वपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः
प्रकरणसमः
प्रमाणलक्षणटीका
स्वपरपक्षसिद्धावपि त्रिरूपो हेतुः प्रकरणसमः । यथा ‘विमतं मिथ्या दृश्यत्वात्’ इति । सत्यत्वेऽप्यस्य प्रयोक्तुं शक्यत्वात् । उभयत्र त्रैरूप्यञ्च वादिप्रतिवादिनोराभि-मानिकमिति नासम्भवः ॥ २२६ ॥
प्रमाणलक्षणटीकाभावदीपः
ननु कथमेकस्य स्वपरपक्षसिद्धौ त्रैरूप्यं सम्भवेत् ? मिथ्यात्वपक्षे सपक्षभूते शुक्तिरूप्ये हेतोः सत्वेन भाव्यत्वात् , सत्यत्वपक्षे च शुक्तिरूप्यस्य विपक्षत्वेन ततो व्यावृत्या भाव्यत्वात्’ इत्यत आह ॥ उभयत्रेति ॥ शुक्तिरूप्ये हेतोः सत्त्वमिति मिथ्यावादिनोऽभिमानः सत्त्ववादिनो नेत्यभिमान इति नासम्भव इत्यर्थः । अन्यथा सत्प्रतिपक्षेऽपि स्वपरपक्षयोर्व्याप्तिमत्त्वं हेतोरसम्भवि स्यात्’ इति भावः ॥ २२६ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
अथ प्रकरणसमं लक्षयति ॥ स्वपरपक्षेति ॥ त्रिरूप इति ॥ पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद् व्यावृत्तिरिति रूपत्रयोपेतमित्यर्थः।
॥ विमतं मिथ्येति ॥ दृश्यत्वहेतोः पक्षे सत्त्वान् मिथ्याभूते शुक्तिरूप्ये सत्त्वाद् विपक्षाद् ब्रह्मणो व्यावृत्तत्वाच्च मायिमते त्रैरूप्यं द्रष्टव्यम् । तथा ‘विमतं सत्यं दृश्यत्वात्’ इति प्रयोगेऽपि दृश्यत्वहेतोः पक्षे सत्त्वात् सपक्षे ब्रह्मणि सत्त्वाद् विपक्षाच्छुक्तिरूप्याद्यावृत्तत्त्वाच्च तत्त्ववादिमते त्रैरूप्यं द्रष्टव्यम् ।
ननु दृश्यत्वहेतोः कथम् उभयत्र त्रैरूप्यम् ? एकस्मिन् ब्रह्मणि दृश्यत्व-हेतोरभावभावयोर् एकस्मिन्नेव रूप्ये दृश्यत्वतदभावयोश्च विरुद्धत्वेन लक्षणस्य असम्भवापत्तेर् इत्यत आह ॥ उभयत्रेति ॥ स्वपरपक्षयोरित्यर्थः ॥ २२६ ॥