प्रमाणबाधितविषयः कालात्ययापदिष्टः
कालत्ययापदिष्टः
प्रमाणलक्षणटीका
प्रमाणबाधितविषयः कालात्ययापदिष्टः । सोऽप्यनेक-विधः।
तत्र प्रत्यक्षबाधितो यथा ‘अग्निरनुष्णः पदार्थत्वात्’ इति ।
प्रत्यक्षबाधितैकदेशो यथा ‘जलानलौशी पदार्थत्वात्’ इति।
अनुमानबाधितो यथा ‘देवदत्तश्चक्षूरहितः पुरुषत्वात्’ इति।
अनुमानबाधितैकदेशो यथा ‘देवदत्तश्चक्षुर्विषाणरहितः पुरुषत्वात्’ इति ।
आगमबाधितो यथा ‘सुरा ब्राह्मणेन पेया द्रवद्रव्यत्वाद् इति।
आगमबाधितैकदेशो यथा ‘सुरासोमौ ब्राह्मणेन पेयौ द्रवद्रव्यत्वात्’ इति ॥ २२५ ॥
प्रमाणलक्षणटीकाभावदीपः
॥ चक्षूरहित इति ॥ चक्षुष्मत्त्वस्य रूपादिज्ञानरूपकार्यलिङ्गानुमानसिद्धत्वाद् इति भावः ॥ ब्राह्मणेन पेयेति ॥ ‘न सुरां पिबेत्’ इत्यागमेन तन्निषेधात्’ इति भावः ॥ २२५ ॥
(श्री. टि)अथ कालात्ययापदिष्टंं लक्षयति ॥ प्रमाणबाधितविषय इति ॥ प्रमाणबाधितसाध्यक इत्यर्थः ॥ अनुमानबाधित इति ॥ विमतश्चक्षुष्मान् रूपज्ञत्वात्’इत्यनुमानबाधित इत्यर्थः ॥ आगमबाधित इति ॥ ‘न सुरां पिबेत्’ इत्याद्यागमबाधित इत्यर्थः ॥ २२५ ॥
प्रमाणलक्षणटीकाविवरणं
कालातीतस्य लक्षणमाह ॥ प्रमाणेति ॥ विषयः साध्यलक्षणः ॥ अनुमानवाधित इति ॥ विमतश्चक्षुष्मान् रूपजत्वादित्यनुमानबाधितः ।
॥ आगमेति ॥ न सुरां पिबेदित्यागमबाधित इत्यर्थः । त्रिरूपत्वं पक्षधर्मत्वं सपक्षे सत्वं विपक्षाव्द्यावृत्तिरिति रूपत्रयोपेत इत्यर्थः ॥ २२५ ॥