०३ अनैकान्तिकः

पक्षत्रयवृत्तिरनैकान्तिकः । सोऽपि बहुविधः

अनैकान्तिकः

प्रमाणलक्षणटीका

***पक्षत्रयवृत्तिरनैकान्तिकः । सोऽपि बहुविधः । ***

तत्र पक्षत्रयव्यापको यथा । शब्दोऽनित्यः प्रमेयत्वात्’ इति । पक्षव्यापकः सपक्षविपक्षैकदेशवृत्तिर्यथा ‘प्रत्यक्षत्वात्’ इति। पक्षसपक्षव्यापको विपक्षैकदेशवृत्तिर्यथा ‘अयं गौर्विषाणित्वात्’ इति । पक्षविपक्षव्यापकः सपक्षैकदेशवृत्तिर्यथा ‘नायं गौ-र्विषाणित्वात्’ इति । पक्षत्रयैकदेशवृत्तिर्यथा ‘पृथिवी नित्या प्रत्यक्षत्वात्’ इति । पक्षसपक्षैकदेशवृत्तिर्विपक्षव्यापको यथा ‘आत्ममनसी द्रव्ये अमूर्तत्वात्’ इति । पक्षविपक्षैकदेशवृत्तिः सपक्षव्यापको यथा ‘आत्ममनसी न द्रव्ये अमूर्तत्वात्’ इति। सपक्षविपक्षव्यापकः पक्षैकदेशवृत्तिर्यथा आकाशात्ममनांसि द्रव्याणि क्षणिकविशेषगुणरहितत्वात्’ इति ॥ २२३ ॥

प्रमाणलक्षणटीकाभावदीपः

॥ पक्षत्रयेति ॥ पक्षसपक्षविपक्षेष्वित्यर्थः ॥ प्रत्यक्षत्वादिति ॥ शब्दानित्यत्वे साध्ये सपक्षेष्वनित्येषु विपक्षेषु नित्येषु च सर्वत्र प्रत्यक्षत्वस्याभावाद् इति भावः । अयमिति पिण्डविशेषनिर्देशः । गोत्वावच्छिन्ने सर्वत्र पक्षे सपक्षे सत्त्वाद् गोत्वहीने महिषादौ सत्त्वेपि अश्वादावभावाद् इति भावः।

॥ अयं न गौरिति ॥ महिषस्य गोत्वे साध्ये पक्षे विपक्षे गोत्वावच्छिन्ने च सर्वत्र विषाणित्वस्य सत्त्वात् सपक्षे गोत्वहीने सर्वत्रासत्त्वाद् इति भावः ॥ प्रत्यक्षत्वादिति ॥ तस्य नित्येष्वनित्येषु च सर्वत्राभावाद् इति भावः ॥ अमूर्तत्वादिति ॥ तस्य पक्षैकदेशे मनसि सपक्षैकदेशे भूतचतुष्टये चाभावाद् द्रव्यत्वहीने विपक्षे गुणकर्मादौ सर्वत्रा भावाद् इति भावः ॥ क्षणिकविशेषेति ॥ अस्य हेतोः पक्षैकदेशे मनसि भावेऽप्यात्माकाशयोरभावाद् अद्रव्ये गुणकर्मादौ सर्वत्राभावाद् विपक्षे द्रव्ये च सर्वत्राभावाद् इति भावः । अत एव तादृशागुणवतो-रात्माकाशयोर्द्वयोरपि पक्षकोटिप्रवेशः कुतः ॥ २२३ ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

अथानैकान्तिकं लक्षयति ॥ पक्षत्रयवृत्तिरिति ॥ पक्षाऽदित्रयवृत्तिरित्यर्थः ॥ प्रमेयत्वादिति ॥ अस्य हेतोः पक्षाऽदित्रयव्यापकत्वं केवलान्वयित्वात् स्फुटमेव ।

॥ प्रत्यक्षत्वादिति ॥ अत्र ‘शब्दोऽनित्यः’ इति प्रतिज्ञाऽनुवृत्तिर्द्रष्टव्या । अयं च हेतुः पक्षव्यापकः । अनित्यत्ववति घटादौ सत्त्वेऽपि धर्मादावभावात् सपक्षैकदेशवृत्तिः । अनित्यत्वाभाववति सामान्ये सत्त्वेऽपि परमाण्वादावभावाद् विपक्षैकदेशवृत्तिश्चेति ज्ञातव्यम् । अयं पुरोवृत्तिः .गौर् गोरूपपदार्थः ॥ विषाणि-त्वादिति ॥ अयं च हेतुः पक्षव्यापकः । गोत्वाभववति महिषादौ सत्त्वेऽपि घटादावभावाद्विपक्षैकदेशवृत्तिरित्यर्थः ॥ नायं गौर्विषाणित्वादिति ॥ अयं च हेतुः पक्षव्यापकः । गोत्वाभाववति महिषादौ सत्त्वेऽपि अश्व•वभावात् सपक्षैक-देशवृत्तिः ।

॥ प्रत्यक्षत्वादिति ॥ अयं च हेतुः कार्यरूपपृथिव्यां सत्त्वेऽपि परमाणुरूपायामभावात् पक्षैकदेशवृत्तिः । तथा नित्यत्ववति सामान्ये सत्त्वेऽपि गगनादावभावात् सपक्षैकदेशवृत्तिःनित्यत्वाभाववति घटादौ सत्त्वेऽपि धर्मादावभावाद्विपक्षैकदेशवृत्तिश्चेत्यर्थः ।

॥ अमूर्तत्वादिति ॥ इयत्तावच्छिन्नपरिमाणशून्यत्वादित्यर्थः । अयं च हेतुरात्मनि सत्त्वेऽपि मनस्यभावात् पक्षैकदेशवृत्तिः । द्रव्ये गगनादौ सत्त्वेऽपि घटादावभावात् सपक्षैकदेशवृत्तिः । द्रव्यभिन्ने वस्तुनि गुणस्यैवाभावेन निरुक्तहेतोः सत्त्वाद्विपक्षव्यापकः ॥ अमूर्तत्वादिति ॥ उक्तरीत्या पक्षैकदेशावृत्तिरयं हेतुर्द्रव्यत्वाभावशून्ये गगने सत्त्वेऽपि घटादावभावाद् विपक्षैकदेशवृत्तिः । द्रव्यत्वा-भाववति सर्वत्र सत्त्वात् सपक्षव्यापकश्चेत्यर्थः

॥ क्षणिकेति ॥ अयं हेतुः पृथिव्यादिद्रव्यषद्कवृत्तित्वात् सपक्षव्यापकः । तथा द्रव्यभिन्ने गुणादौ गुणस्यैवाभावेनोक्तहेतोः सत्त्वाद् विपक्षव्यापकः । तथा अस्य हेतोर्मनसि सत्त्वेऽपि शब्दबुद्धिरूपक्षणिकविशेषगुणवतोराकाशात्मनोरभावात् पक्षैकदेशवृत्तिरित्यर्थः ॥ २२३ ॥

प्रमाणलक्षणटीकाविवरणं

साधारणानैकान्तिकलक्षणमाह ॥ पक्षत्रयवृत्तीति ॥ पक्षवृत्तिः सपक्षवृत्तिश्चेत्यर्थः । प्रमेयत्वं त्रितयव्यापकम् । प्रत्यक्षत्वं सपक्षवृत्ति न भवति । सामान्यादौ सत्वेऽपि गगनादावभावात् । एवमेव विपक्षसपक्षैकदेशवृत्तित्वं बोध्यम्। विषाणित्वादिति विषाणित्वं पक्षीभूते गवि वर्तते, गोत्वाभाववत् । महिष्या-दिसकलवृत्तित्वाभावाद्विपक्षैकदेशवृत्तिगोत्ववद् गवान्तरे व्यापकत्वात् । सपक्ष-व्यापकत्वं चेत्यर्थः

॥ न गौरिति ॥ गोत्वभावे साध्ये तद्वन्महिष्यादिसकलसपक्ष-व्यापकत्वाभावात् । सपक्षेकदेशवृत्तित्वं गोत्ववद् गोव्यक्तिमात्रे विद्यमानत्वा-द्विपक्षव्यापकत्वम्॥ पृथिवीनित्येति ॥ घटादिरूप पृथिव्या प्रत्यक्षत्वेऽपि परमाणुरूपायास्तदभावात्पक्षैकदेशवृत्तित्वम् । नित्यत्ववत् सामान्यादौ प्रत्यक्षत्वसत्वेपि तद्वद् गगनानाद्यवृत्तित्वात् सपक्षैकदेशवृत्तित्वम् । नित्यत्वरूपसाध्यभावान्नित्यत्ववज्जलादौ सर्वत्र प्रत्यक्षत्वाद् विपक्षैकदेशवृत्तित्वं बोध्यम् ॥ मूर्तवदिति ॥ मूर्तत्वस्य घटादौ सत्वेऽपि गगनादौ तदभावात् सपक्षैकदेशवृत्तित्वम् । द्रव्यत्वाभाववद् गुणादिमात्रवृत्तित्वाद्विपक्षव्यापकत्वम् ।

॥ क्षणिकेति ॥ तद्धि न गुणादिवृत्तीति ॥ सकलसपक्षवृत्ति मनसि सत्वेपि अत्मन्यभावात् पक्षकदेशवृत्ति सकलपक्षवृत्तित्वाभावाद्विपक्षैकदेश-वृत्तीत्यर्थः ॥ २२३ ॥