०१ असिद्धः

तत्र व्याप्तस्य पक्षधर्मत्वप्रतीतिः सिद्धिः । तद्रहितोऽसिद्धः

हेत्वाभासाः

प्रमाणलक्षणटीका

हेतोरुक्तरूपेषु पक्षव्यापकत्वादिषु कैश्चिद्युक्ताः केनचिद् रहिता हेत्वाभासाः । ते चासिद्धविरुद्धानैकान्तिका-नध्यवसितकालात्ययापदिष्टप्रकरणसमसत्प्रतिपक्षाः ।

असिद्धः

तत्र व्याप्तस्य पक्षधर्मत्वप्रतीतिः सिद्धिः । तद्रहितोऽसिद्धः। स चतुर्विधः । व्याप्तपक्षतद्धर्मत्वैतत्प्रतीतिराहित्यभेदात् ।

तत्र व्याप्यत्वासिद्धो द्वेधा । स्वरूपतो वैयर्थ्येन चेति । तत्राद्यो यथा ‘यत् सत् तत् क्षणिकं यथा घटः’ इति । व्यर्थ-विशेषणासिद्धो यथा ‘शब्दोऽनित्यः सामान्यवत्वे सति कृतक-त्वात् ,इति । व्यर्थविशेष्यासिद्धो यथा ‘कृतकत्वे सति सामान्य वत्वात्’ इति । आश्रयासिद्धो द्वेधा । धर्मिणः साध्यत्वस्य चाभावात् ।

तत्राऽद्यो यथा ‘प्रधानं नित्यम् अकार्यत्वात्’ इति । आश्रयैक-देशासिद्धो यथा ‘प्रधानपुरुषौ नित्यौ आकार्यत्वात्’ इति । द्वितीयो यथा ‘परमाणवो नित्या अकार्यत्वात्’ इति । पक्षधर्मत्वासिद्धः पञ्चविधः । तत्र स्वरूपासिद्धो यथा ‘शब्दोऽ-नित्यश्चाक्षुषत्वात्’ इति । व्यधिकरणासिद्धो यथा ‘घटस्य कृतकत्वात्’ इति । विशेषणासिद्धो यथा ‘चाक्षुषत्वे सति सामान्यवत्वात्’ इति । विशेष्यासिद्धो यथा ‘सामान्यवत्वे सति चाक्षुषत्वात्’ इति । भागासिद्धो यथा ‘प्रयत्नानैन्तरीय-कत्वात्’ इति ।

प्रमाणलक्षणटीकाभावदीपः

॥ पक्षव्यापकत्वादिष्विति ॥ पक्षव्यापकत्वसपक्षवृत्तित्वादिषु पञ्चरूपेष्वित्यर्थः । प्राचीनरीत्या निर्दिशति ॥ असिद्धेति ॥ व्याप्तेति ॥ त्वप्रत्ययो राहित्यपदं च प्रत्येकमन्वेति ॥ तद्धर्मत्वेति ॥ पक्षधर्मत्वेत्यर्थः ॥ तत्प्रतीतीति ॥ पक्षधर्मत्वप्रतीतीत्यर्थः ॥ वैयर्थ्येन चेति ॥ विशेषणविशेष्ययोरिति योज्यम् ॥ यत्सदिति ॥ तत्र व्याप्तिग्राहकप्रमाणाभावादिति भावः । पक्षत्वराहित्यरूपं द्वेधा विकल्पयति ॥ आश्रयेति ॥ धर्मिण इति ॥ अभावादित्यन्वयः ।

॥ साध्यत्वस्य चेति ॥ सिषाधयिषितधर्मवतया सिद्धत्वहेतुना साध्यत्वस्या-भावेनेत्यर्थः ॥ प्रधानमिति ॥ न्यायमते तस्याभावादिति भावः ॥परमाणवो नित्या इति ॥ न्यायमते नित्यत्वस्य सिद्धत्वाभावादिति भावः । लाघवायैकैक-निर्देशपूर्वमुदाहरणान्येव दर्शयति ॥ स्वरूपासिद्धो यथेत्यादिना ॥ शब्दोऽनित्य इति प्रतिज्ञा सर्वत्रान्वेति ॥ प्रयत्नेति ॥ मीमाम्सकं प्रत्युक्ते शब्दोऽनित्यः प्रयत्नानन्त-रमुत्पद्यमानत्वरूपप्रयत्नानन्तरीयकत्वस्य ध्वनिषु सत्त्वेऽपि वर्णेष्वभावादित्यर्थः।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘हेतोः केनापि रूपेण रहिताः कैश्चिदन्विताः । हेत्वाभासाः’’ इतिकारिकानुसारेण क्रमप्राप्तान् हेत्वाभासान् लक्षयति ॥ हेतोरुक्तरूपेष्विति ॥ पक्षव्यापकत्वादिषु इत्यत्र आदिपदेन सपक्षसत्वविपक्षव्यावृत्त्य-बाधितविषयत्वासत्प्रतिपक्षत्वानां ग्रहणम् । घटादावतिव्याप्तिवारणायाऽद्यं विशेषणम् । सद्धेतुव्यावृत्त्यै द्वितीयमिति बोध्यम् ।

तत्रादौ सिद्धलक्षणकथनपुरः सरमसिद्धिं लक्षयति ॥ तत्नेत्यादिना ॥ तद्रहित इति ॥ व्याप्तस्य पक्षधर्मत्वप्रतीत्यभाववानित्यर्थः । अयं च विशिष्टाभावः क्वचिद्व्याप्त्यभावेन क्वचित् पक्षाभावेन क्वापि हेत्वभावेन क्वचित्प्रतीत्यभावेन चतुुर्विधेऽपि लक्ष्येऽनुगत इति ध्येयम् ॥ एतदिति ॥ व्याप्त्यादीत्यर्थः । यथाऽऽहुर्

व्याप्तस्य पक्षधर्मत्वप्रतीतिः सिद्धिरुच्यते ।

असिद्धिस्तदभावे स्याद्धेतोः सा च चतुर्विधा ॥

व्याप्तेः पक्षस्य हेतोश्च तज्ज्ज्ञानस्याप्यभावतः । इति ।

॥ वैयर्थ्येन चेति ॥ विशेषणस्य विशेष्यस्य वैयर्थ्येन व्याप्यत्वासिद्धिरित्यर्थः ॥ यत्सत्तत्क्षणिकमिति ॥ अत्र व्याप्तिग्राहकप्रमाणाभावेन सत्त्वहेतौ स्वरूपत एव क्षणिकत्वनिरूपितव्याप्त्यभावात् स्वरूपतो व्याप्यत्वासिद्धिरित्यर्थः

॥ शब्दोऽनित्य इत्यादि ॥ ननु सामान्यवत्वे सति कृतकत्वे अनित्यत्वनिरूपितव्याप्तिसद्भावात् कथं व्यर्थविशेषणस्य व्याप्यत्वासिद्धत्वम् ? इति चेत् । उच्यते, अत्र हि कृतके धर्मिणि कृतकत्वसामान्यवत्वे सति कृतकत्वरूपधर्मद्वयसमावेशे लघुभूतकृत्वरूपधर्मावच्छेदेनैव अनित्यत्वव्याप्ति-ज्ञानसम्भवाद् गुरुभूतस्य सामान्यवत्वे सति कृतकत्वस्य अनावश्यकत्वेन व्यर्थविशेषणस्य व्याप्यत्वासिद्धत्वम् । यथा नीलधूमवत्वम् । कुत एतत् ? एकस्मिन्धर्मिणि लघुगुरुधर्मद्वयसमावेशे लघुना व्याप्त्यवच्छेदे गुरोरनावश्यकत्वमिति व्यर्थविशेषणताबीजसद्भावादिति मन्तव्यम् । एवमेव व्यर्थविशेष्यासिद्धस्यापि व्याप्यत्वासिद्धत्वं द्रष्टव्यम् ॥

धर्मिणोऽभावादित्यन्वयः ॥ साध्यत्वस्य चेति ॥ साध्यस्य सिद्धत्वेन आश्रायस्य साध्यत्वस्य साधयितुं योग्यत्वस्याभावादित्यर्थः । सिद्धसाधनादा-श्रयासिद्धिरिति भावः । यथाऽऽहुः ,

आश्रयासिद्धता हेतोः सिद्धधर्मस्य साधने ।

पक्षो हि संश्रयस्तस्य स च साध्यान्वितो यतः ॥ इति ।

॥ प्रधानमिति ॥ साङ्ख्येन तार्किकादीन् प्रत्येवं साधिते सति तैराश्रयासिद्धिरुद्भाव्यते । तन्मते प्रधानस्वरूपस्यैवाभावादिति भावः।

॥ द्वितीयो यथेति ॥ साध्यत्वाभावादाश्रयासिद्धो यथेत्यर्थः ॥ नित्या इति ॥ परमाणुनित्यतायास्तार्किकमते सिद्धत्वादिति भावः।

॥ घटस्येति ॥ न हि घटीयं कृतकत्वं शब्देऽस्ति । अतोव्यधिकरणस्य असिद्धत्वं युक्तमिति भावः । चाक्षुषत्वे सतीत्यादिहेतुत्रयेऽपि ‘शब्दोऽनित्यः’ इति प्रतिज्ञानुवृत्तिर्द्रष्टव्या । विशेषणासिद्धिस्थले विशेष्यस्य पक्षे सत्त्वेऽपि विशेषणाभावेन तद्विशिष्टस्यापि हेतोरभावो द्रष्टव्यः । एवं विशेष्यासिद्धिस्थलेऽपि विशेषणसद्भावेऽपि विशेष्यस्याभावाद्विशिष्टहेतोरप्यभावो मन्तव्यः ॥ प्रयत्नेति ॥ प्रयत्नानन्तर-जन्यत्वादित्यर्थः । ध्वनिवर्णात्मकशब्दद्वयस्यापि पक्षत्वेन वर्णात्मकशब्दे मीमांसकरीत्या हेतोरभावाद्भागासिद्धत्वमिति भावः ॥

प्रमाणलक्षणटीकाविवरणम्

अथ हेत्वाभासः ॥ तत्रेति ॥ विवक्षितेषु रूपेषु यस्य हेतोर् यावन्ति रूपाणि विवक्षितानि पक्षव्यापकत्वादीनि तेषु मध्ये कैश्चिदित्यर्थः ।

असिद्धं विभजते ॥ व्याप्तीति ॥ व्याप्यत्वासिद्धः, पक्षासिद्धः, पक्षधर्मतासिद्धः, व्याप्तिप्रमित्यसिद्धः, पक्षप्रमित्यसिद्धः, पक्षधर्मत्वप्रमित्यसिद्ध इति चतुर्विधः ॥ प्रधानमिति ॥ अत्र प्रधानस्यैवाभेदोऽश्रयासिद्धः ॥ अकार्यत्वादिति । अत्राविप्रतिपत्ताविति शेषः । विप्रतिपत्तौ साध्यत्वसत्त्वादिति बोध्यम् ॥ चाक्षुषत्वादिति ॥ शन्दस्य श्रावणत्वेन चाक्षुषत्वाभावादित्यर्थः ।

॥ स्वरूपासिद्धत्वम् ॥ व्यधिकरणासिद्ध इति ॥ ननु व्यधिकरणासिद्धस्य कथं दूषणत्वम् ? अन्यथा कृत्तिकोदयेन रोहिण्युदयासत्त्यनुमानं न स्यात् । अत एवोक्तमनुव्याख्याने । ‘‘आश्रयव्याश्रयसिद्धी साध्यासिद्धिश्व दूषणम्’’ इति । केषांचिन्न च ते दोषा इतीति चेत् । मैवम् । अभिप्रायानवगमात् । व्यप्त्यभावे व्यधि-करणस्य असिद्धस्य दूषणत्वांगीकारात् । कृत्तिकोदयस्य च तेन सह व्याप्तिसत्त्वात् । न व्यधिकरणस्य दूषणत्वम् । अत एवोक्तमनुव्याख्याने । व्याप्तौ सत्यामिति प्रयत्नानन्तर्यकत्वादिति । जन्यप्रयत्नोत्पाद्यत्वादित्यर्थः । तेन ध्वन्यात्मकशब्दोऽपि ईश्वरस्य प्रयत्नसत्त्वान्न भागासिद्धत्वमस्येति परास्तं भवति ।