२२ अपसिद्धान्तः

यत्किञ्चिच्छास्त्रसिद्धान्तमभ्युपेत्य तद्विरुद्धाङ्गी-कारोऽपसिद्धान्तः

अपसिद्धान्तः

प्रमाणलक्षणटीका

यत्किञ्चिच्छास्त्रसिद्धान्तमभ्युपेत्य तद्विरुद्धाङ्गी-कारोऽपसिद्धान्तः ।

प्रामाणिकतया अङ्कीकृतोऽर्थः सिद्धान्तः । स चतुर्विधः । सर्व-तन्त्रप्रतितन्त्राधिकरणाभ्युपगमसिद्धान्तभेदात्। सर्वशास्त्रा-विरुद्धोऽर्थः सर्वतन्त्रसिद्धान्तः । यथा प्रत्यक्षं प्रमाणमिति ॥

स्वशास्त्रमात्रसिद्धोऽर्थः प्रतितन्त्रसिद्धान्तः । यथा नैयायिका-नामीश्वरप्रामाण्यम् । च्कस्य सिद्धावानुपङ्गिको योऽर्थः सोऽधि-करणसिद्धान्तः । यथा ईश्वरस्य र्स्वकर्तृत्वसिद्धौ सार्वज्ञ्यम् ।

शास्त्रान्तरे परीक्षितः स्वशास्त्रे चानिषिद्धोऽभ्युपगमसिद्धान्तः। यथा मनस इन्द्रियत्वम् । अपसिद्धान्तोऽप्यतश्चतुर्विधः । यथा इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते इति प्रतितन्त्रसिद्धान्त-मभ्युपगतवतो मीमांसकस्य सर्गप्रलयाभ्युपगम इत्यादि । न चायं प्रमाणविरोधः । उभयोस्तदाचार्याेक्तौ प्रामाण्यासंमतेः। तत्रैव प्रमाणविरोधप्रसरात् । मूलप्रमाणे च सन्देहादिति ।२१।

प्रमाणलक्षणटीकाभावदीपः

अतश्चतुर्विध इति ॥ प्रतियोगिनः सिद्दान्तस्य चातुर्विध्यादित्यर्थः। सर्वतन्त्रसिद्धान्तविरुद्धो ऽपसिद्धान्तो ऽसम्भवी इति तमनुदाहृत्य द्वितीयाद्येवो-दाहरति ॥ इदानीमिवेति ॥

॥ इत्यादीति ॥ ईश्वरस्य कर्तृत्वसिद्ध्या सार्वज्ञ्यसिद्धिरित्यधिकरण-सिद्धान्तमभ्युपगतवतो नैयायिकस्यासार्वज्ञ्याभ्युपगमः मनस इन्द्रियत्वम् इत्यभ्युप-गमसिद्धान्तमाश्रितस्यानिन्द्रियत्वाभ्युपगम इति आदिपदेन ग्राह्यम् ॥ उभयोरिति ॥ वादिप्रतिवादिनोरित्यर्थः ॥ २१ ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘सिद्धान्तमेकमालम्ब्य तद्विरुद्धपरिग्रहे ।

अपसिद्धान्ततः सिद्ध निग्रहस्थानमक्षतम्’’

इतिकारिकानुसारेणापसिद्धान्तं लक्षयति ॥ यत्किञ्चिदिति ॥ ननु कः सिद्धान्तो यद्विरुद्धाङ्गीकारोऽपसिद्धान्तः ? इत्यत आह ॥ प्रामाणिकतयेत्यादि ॥ यथाहुः

‘‘अभ्युपेतैः प्रमाणैः स्यादाभिमानिकसिद्धिभिः ।

सिद्धान्तः सर्वतन्त्राऽदिभेदात्स च चतुर्विधः’’ इति ॥

‘‘सर्वशास्त्राविरुद्धोऽर्थः स्वतन्त्रेऽधिकृतश्च यः ।

स सर्वतन्त्रसिद्धान्तो यथा मानेन मेयधीः’’

इतिकारिकां मनसि निधायाऽह ॥ सर्वशास्त्रेत्यादि ॥

‘‘स्वतन्त्र एव सिद्धार्थः परतन्त्रैर्निवारितः ।

प्रतितन्त्रो यथा न्याये सर्वज्ञस्य प्रमाणता’’

इति कारिकानुसारेणाऽह । स्वशास्त्रमात्रेति ॥

‘‘अनुमेयस्य सिध्द्यर्थो योऽनुषङ्गेण सिध्यति ।

स स्यादाधारसिद्धान्तो जगत्कर्ता यथेश्वरः’’

इतिकारिकां हृदि निधायाऽह ॥ एकस्य सिद्धाविति ॥ सार्वज्ञ्यमिति ॥ सार्वज्ञ्यस्य सर्वकर्तृत्वान्तर्गतत्वादित्यर्थः ।

‘‘साधितः परतन्त्रे यः स्वतन्त्रे च समाश्रितः ।

स ह्यभ्युपगमो न्याये मनसोऽनुमतिर्यथा’’

इतिकारिकामनुसृत्याऽह ॥ शास्त्रान्तर इति ॥

ननु सिद्धान्तस्य चातुर्विध्येऽपसिद्धान्तस्य किमायातम् ? इत्यत आह ॥ अपसिद्धान्तोऽपीति ॥ अत इति ॥ प्रतियोगिभूतस्य चतुर्विधत्वात्तद्विरुद्धोऽप-सिध्दान्तोऽपि चतुर्विध इत्यर्थः ।

उपलक्षणतया प्रतितन्त्रापसिद्धान्तमुदाहरति ॥ यथेदानीमिवेत्यादि ॥ सर्वत्रेति ॥ भूतभविष्यत्कालयोरित्यर्थः ॥ दृष्टान्नाधिकमिति ॥ तथा च सर्गप्रलयौ न स्त इति भावः ।

॥ इत्यादीति ॥ ‘प्रत्यक्षं न प्रमाणम्’ इत्यभ्युपगमः सर्वतन्त्रापसिद्धान्तः, ईश्वरस्य सर्वकर्तृत्ववादिमते तदसार्वज्ञ्याङ्गीकारो ऽधिकरणापसिद्धान्तः, नैयायिकस्य मनसोऽनिन्द्रियत्वाभ्युपगमोऽभ्युपगमापसिद्धान्त इति द्रष्टव्यम् । ननु सर्गप्रलयाभ्युपगमवतो मीमांसकस्य नापसिद्धान्तरूपनिग्रहस्थानं वक्तव्यम् । किं तु ? इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते । इति सर्गप्रलयाभावप्रतिपादकाचार्य-वचनरूपप्रमाणविरोध एवेत्याशङ्क्य निराकरोति ॥ न चायमिति ॥ कुतो न च ? इत्यत आह ॥ उभयोरिति ॥ वादिप्रतिवादिनोरित्यर्थः ।

अत्र यद्यपि वादिनो मीमांसकस्य स्वाचार्योक्तौ प्रामाण्यनिश्चयोऽस्त्येव । अत उभयोरसंमतेर् इत्येतदयुक्तम् । तथापि न प्रतिवादिनोऽस्ति । अतो व्यासज्यवृत्तिप्रतियोगिकाभावाभिप्रायेणेदम् । ‘एकसत्त्वे द्वयमिह नास्ति’ इति प्रतीतिदर्शनादिति ध्येयम् । तदाचार्योक्तौ मीमांसकाचार्योक्तौ ।

ननु प्रतिवादिनः कुतो मीमांसकाचार्योक्तौ प्रामाण्यासंमतिः ? इत्यत आह ॥ तत्रैवेति ॥ ‘दृष्टान्नाधिकमिष्यते’ इतिसर्गाद्यभावप्रतिपादकाचार्योक्तावेव सर्गादिप्रतिपादकप्रमाणविरोधप्रसरेण प्रमाणविरुद्धायां तदाचार्योक्तौ प्रतिवादिनः स्वस्य प्रामाण्यासंमत्या प्रमाणविरोधस्य प्रतिवादिनोद्भावयितुमशक्यत्वादप-सिद्धान्त एवोद्भाव्य इत्यर्थः ।

ननु न मीमांसकाचार्योक्तौ प्रमाणविरोधः प्रसरति । तस्याः प्रमाणमूलकत्वा-दिति चेतत्राह ॥ मूलप्रमाणे चेति ॥ सर्गाद्यभावप्रतिपादकाचार्यवचनमूलभूत-प्रमाणस्वरूपमेवादौ सन्दिग्धम् । सत्त्वे वा तस्य प्रामाण्यं सन्दिग्धम् । सर्गादिप्रति-पादकप्रमाणप्रतिरुद्धत्वादित्यर्थः । सन्देहादित्येतत् सर्गादिप्रतिपादकप्रमाण-प्राबल्यानिर्धारणदशायामेव । निश्चिते तु प्राबल्ये तद्बाधाद् अप्रामाण्यनिश्चय एवेति द्रष्टव्यम् । यथाऽऽहुः ‘न हि प्रतिपक्षो यावज्जीवं प्रतिपक्ष’ इति ।

केचित् , ननु माऽस्तूभयोः प्रामाण्यनिश्चयस् तथापि प्रमाणविरोधः किं नोद्भाव्यते ? इत्यत आह ॥ तत्रैवेति ॥ यत्रोभयोस्तदाचार्योक्तौ प्रामाण्यनिश्चय-स्तत्रैवेत्यर्थः । ननु तथाप्याचार्यवाक्यमूलभूतप्रमाणविरोध एवोद्भाव्यः , न त्वपसिद्धान्त इत्यत आह ॥ मूलप्रमाण इति ॥ इत्याहुः ॥ २१ ॥

प्रमाणलक्षणटीकाविवरणम्

अपसिद्धान्तलक्षणमाह ॥ यत्किञ्चिदिति ॥ सर्वकर्तृत्व-सिद्धाविति ॥ ईश्वरस्य सर्वकर्तृत्वसिद्धौ कर्तुत्वस्य तदुपादानापरोक्षज्ञानचिकीर्षा-कृतिमत्त्वरूपत्वात् सर्वज्ञसिद्धिरिति ॥ अपसिद्धान्त इति ॥ अतः सिद्धान्तस्य पूर्वोक्तरीत्या चतुर्विधत्वात् तद्विद्धोऽपसिद्धान्तोऽपि चतुर्विधइत्यर्थः ॥

तमेवोदाहरति ॥ यथेति ॥ इदानीमस्मिन् वर्तमानकाल इव सर्वत्र कालान्तरे दृष्टादधिकं दृश्यमानादतिरिक्तं सृष्टिप्रलयात्मकं वस्तुमेष्यते न मन्यत इत्यर्थः ।

ननु मीमांसकमतमभ्युपगतवतोऽपि प्रलयांगीकारेऽपसिद्धान्तो नोद्भाव्यः, किं तु प्रमाणविरोध एवेत्याशयेन शंकते ॥ नचायमिति ॥ उभयोरिति ॥ यद्यपि वादिनस् तदुक्तौ प्रामाण्यनिश्चयो वर्तते तथाऽपि नोभयोर् मास्तु, उभयोः प्रामाण्यनिश्चयः, तथापि प्रमाणविरोधः किं नोद्भाव्य इत्यत आह ॥ तत्रैवेति ॥ यत्रोभयोस्तदाचार्योक्तौ प्रामाण्यनिश्चयस्तत्रैवेत्यर्थः । ननु तदाचार्यवाक्यमूलभूत-प्रमाणविरोध एवोद्भाव्यः नत्वपसिद्धान्त इत्यत आह ॥ मूलेति ॥ २१ ॥