अतन्निग्रहप्राप्तौ तन्निग्रहोद्भावनं निरनुयोज्यानुयोगः
निरनुयोज्यानुयोगः
प्रमाणलक्षणटीका
अतन्निग्रहप्राप्तौ तन्निग्रहोद्भावनं निरनुयोज्यानुयोगः । तच्चतुर्विधम् । छलं जातिर् हान्याद्याभासोऽप्राप्तकाले ग्रहणं चेति ।
छलजाती वक्ष्येते । हान्याद्याभासो द्विविधः । सर्वथा हान्याध्यभावप्राप्तौ तदुद्भावनम् अन्यप्राप्तावन्योद्भावनञ्चेति। तत्राऽद्येऽपि द्विविधः । सादृश्याऽदिना भ्रान्त्या, व्यामोहनाय वेति ।
द्वितीयो भ्रान्त्यैव । भ्रान्त्या यथा , अनेकविकल्प-स्फुरणेन विकल्पयतोऽनिष्टविकल्पत्यागे प्रतिज्ञाहानिरित्यादि। द्वितीयो यथा । प्रतिज्ञाहान्यादौ प्रतिज्ञाऽन्तराऽदि इत्यादि । तत्तदुद्भावनावसरमप्राप्य अतिक्रम्य वा तन्निग्रहस्थानोद्भावनम् अप्राप्तकाले ग्रहणम् । अनुक्तोच्यमानोक्तग्राह्यभेदात् त्रिविधो ह्युद्भावनकालः । तत्रोच्यमानग्राह्यमुत्तरम् उद्भावयतो निग्रह-स्थानम् इत्यादि ॥ २० ॥
प्रमाणलक्षणटीकाभावदीपः
॥ अतन्निग्रहेति ॥ अप्राप्तस्य पराजयहेतोरुद्भावनमित्यर्थः ॥ वक्ष्येते इति ॥ छलमसङ्गतम् इत्यादिवाक्यव्याख्याऽवसरे छलं, विरोधो मानस्ववाक्याभ्याम् इत्यादिविरोधभेदोक्तिप्रकरणे जातिश्च वक्ष्यत इत्यर्थः ।
तत्राद्यमुदाहरति ॥ भ्रान्त्या यथेति ॥ इत्यादीति ॥ गौः शृङ्गवती इत्यत्र गोपदस्यार्थान्तरभ्रान्त्या ‘प्रतिज्ञाविरोधः’ इत्यादिरादिपदार्थः ।
व्यामोहनाय वा इत्यस्यापि अनेकविकल्पेत्यादिरेवोदाहरणम् इत्युपेत्य अन्यप्राप्तौ इत्येतदेव द्वितीयकल्पं मत्वोदाहरति ॥ द्वितीयो यथेति ॥ हान्याध्याभासः ॥ अनुक्तेति ॥
॥ ग्राह्यपदं प्रत्येकमिति ॥ अज्ञानाननुभाषणादि अनुक्तग्राह्यम् ॥ अर्थान्तराप्राप्तकालाऽदिकमुच्यमानग्राह्यम् । न्यूनाधिक्यादि उक्तग्राह्यम् ॥ उत्तरमिति ॥ पश्चादित्यर्थः ॥ इत्यादीति ॥ उक्तग्राह्यस्योच्यमानकाल उद्भावनम् इत्यादिरादिपदार्थः ॥ २१ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘अतन्निग्रहसम्प्राप्तौ तन्निग्रहनिमित्ततः ।
निगृह्णतो निग्रहः स्यादचोद्यस्यानुयोगतः’’
इति कारिकाऽनुसारेण क्रमप्राप्तं निरनुयोज्यानुयोगं लक्षयति ॥ अतन्निग्रह-प्राप्ताविति ॥ सर्वता निग्रहस्थानाप्राप्तौ, निग्रहस्थानान्तरप्राप्तावप्युद्भा-व्यमाननिग्रहस्थानाप्राप्तौ चेत्यर्थः।
॥ छलजाती वक्ष्येते इति ॥ गृष्टिविवक्षया, जातिर्न मेये इत्यादिना ग्रन्थेनेत्यर्थः ॥ सादृश्याऽदिनेति ॥ सादृश्याऽदिजनितया भ्रान्त्येत्यर्थः ॥ द्वितीय इति ॥ अन्यप्राप्तावन्योद्भावनमित्यर्थः ।
। भ्रान्त्यैवेति ॥ अन्यप्राप्तावन्योद्भावने भ्रान्तिरेव निमित्तम्, न तु व्यामोहोऽपीत्यर्थः ॥ भ्रान्त्या यथेति ॥ सर्वथा हान्याद्यप्राप्तौ सादृश्याऽदिजनित-भ्रान्त्या तदुद्भावनं यथेत्यर्थः । व्यामोहनाय तदुद्भावनस्यापीदमेवोदाहरणम् परव्यामोहनार्थमेव हान्याद्यप्राप्तावपि तदुद्भावनसम्भवात् । अतः पृथङ्नोदाहृतम्।
॥ द्वितीयो यथेति ॥ भ्रान्तिमात्रानिमित्तकमन्यप्राप्तावन्योद्भावनमित्यर्थः । अप्राप्तकाले ग्रहणं लक्षयति ॥ तत्तदुद्भावनेति ॥ निग्रहोद्भावनकालमित्यर्थः ॥ अप्राप्येति ॥ तदुद्भावनकालप्राप्त्यभावेऽपीत्यर्थः ॥ अतिक्रम्येति ॥ उद्भावनावसरमतिक्रम्येत्यर्थः । उद्भावनकालं दर्शयति ॥ अनुक्तेति ॥ हि इति
उक्तग्राह्याः केचिदन्येऽनुक्तग्राह्यास्तथा परे ।
उच्यमानदशाग्राह्या इति कालस्त्रिधा मतः ॥
इति परकीयप्रसिद्धिं द्योतयति । उद्भावनावसरमतिक्रम्योद्भावनप्रकारं दर्शयति ॥ तत्रोच्यमानग्राह्यमिति ॥ उच्यमानदशोद्भावनीयमपशब्दादिकमित्यर्थः ।
॥ इत्यादीति ॥ उच्यमानग्राह्यमुक्तेः पूर्वमुद्भावयतो निग्रहस्थानम् इत्यादि ज्ञातव्यमित्यर्थः ॥ २० ॥
प्रमाणलक्षणटीकाविवरणं
निरनुयोज्यानुयोगं लक्षयति ॥ अतन्निग्रहेति ॥ नन्वादावुद्दिष्टे छलजाती कुतो नोच्यत इत्यत आह ॥ छलजातीति ॥ गृष्टिविवक्षयेत्यादिना ॥ मेये मानापेक्षेत्यादिना छलजाती वक्ष्येते इत्यर्थः ॥ तत्राद्य इति ॥ हान्याद्यप्राप्तौ तदुद्भावनरूपः हान्याद्याभासो द्विविध इत्यर्थः। के ते द्वे विधे इत्यत आह ॥ सादृश्यादिनेति ॥ सादृशयादिना भ्रांत्येत्यर्थः । परव्यामोहनाय चेत्यपरः ।
तत्राद्यवद् द्वितीयोऽपि किं द्विविधः ? नेत्याह ॥ द्वितीय इति ॥ द्वितीयो ऽन्यनिग्रहप्राप्तौ अन्योद्भावनरूपो हान्याद्याभासभ्रान्त्यैव । तत्र भ्रांतिरेव निमित्तम्। न तु व्यामोहोपीत्यर्थः । तत्राद्यमुदाहरति तत्राद्य इति द्वितीयपक्षापेक्षया द्विविधस्य आप्याद्यत्वाद् आद्य इत्युक्तिरुपपन्नेति ध्येयम् ।
यथा खलु परेणानुमाने कृते स्वनिष्टपक्षं परित्यज्येष्टपक्षग्रहणे हानिरुद्भाविता । तत्र हि सादृश्यमेव निमित्तं प्रतिज्ञाहानौ अनिष्टपरित्यागे च पक्षपरित्याग-सादृश्यत्वात् । तत्र च हानिप्राप्त्यभावेऽपि तदुद्भावनात् । हान्याद्याभासः पर-व्यामोहायोक्तस्याप्येतदेवोदाहरणम् । परव्यामोहनार्थमेव हान्याद्यभावेऽपि तदुद्भवनसम्भवात् ।
अन्यप्राप्तौ अन्योद्भावनरूपं हान्याद्यभासरूपं द्वितीयमुदाहरति ॥ द्वितीय इति ॥ अप्राप्तकाले ग्रहणमाह ॥ तत्तदिति ॥ स्यादिदं निग्रहस्थानं तदा यद्येतेषामुद्भवनकालो नियतः स्यादित्यतः सत्यमित्याह ॥ अनुक्तेति ॥ उक्ताग्राह्या अनुक्ताग्राह्या उच्यमानग्राह्या इति निग्रहोद्भावनकालस् त्रिविध इत्यर्थः । तत्रोक्तग्राह्यमज्ञानादि, अनुक्तग्राह्यमप्रतिहान्यादि उच्यमानग्राह्यम् अपशब्दर्थान्तरता इति विवेकः । तत्रोच्यमानग्राह्यम् उक्तेः पूर्वम् उक्त्यनन्तरं वा यद्युद्भावितं तदा प्राप्तकाले ग्रहणमिति ज्ञातव्यमित्याह॥ तत्रेति ॥