अनिष्टभ्रमेणेष्टाऽपादनं मतानुज्ञा
मतानुज्ञा
प्रमाणलक्षणटीका
अनिष्टभ्रमेणेष्टाऽपादनं मतानुज्ञा । यथा केनचित् स्वस्य चोरत्वमभ्युपेत्य ‘त्वं चोरः पुरुषत्वात्’ इत्युक्ते ‘तर्हि तवापि चोरत्वप्रसङ्ग’ इति । न ह्यनेनात्मनश्चोरत्वं परिहृतम् । नाप्ययं प्रसङ्ग इष्टापत्तिरूपत्वाद् इति ॥ १८ ॥
प्रमाणलक्षणटीकाभावदीपः
तस्य निग्रहस्थानत्वं साधयति ॥ नहीत्यादिना ॥ प्रसङ्ग इति ॥ तर्करूपप्रसङ्ग इत्यर्थः ॥ १८ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘अनिष्टभ्रमतोऽन्येषामिष्टमापादयेद्यदि ।
मतानुज्ञेति तस्य स्यान्निग्रहस्थानमुत्कटम्’’
इतिकारिकाऽनुसारेण मतानुज्ञां लक्षयति ॥ अनिष्टभ्रमेणेति ॥ इष्टस्यापादना-योगेनासम्भवः स्याद् अत उक्तम् अनिष्टभ्रमेणेति । तत एव पुरुषत्वहेतुबलादेव । अस्येष्टापादानत्वोपपादनायैव स्वस्य चोरत्वमभ्युपगम्य इत्युक्तम् । पुरुषत्वहेतोः स्वात्मनि व्यभिचारपरिहारायैतदुक्तम् इत्यप्याहुः । नन्वप्रतिपत्यादिहेतुत्वाभावात् कथमिदं निग्रहस्थानम् ? इत्यत आह ॥ न ह्यनेनेति ॥ तवापि चोरत्वप्रसङ्ग इत्यापादनेनेत्यर्थः । तथा च स्वस्य चोरत्वेऽपरिहृतेऽपि परिहृतमिति विरुद्धार्थ-प्रतिपत्तिरूपविप्रतिपत्तिसूचकत्वान्निग्रहस्थानं भवत्येवेति भावः ।
प्रकारान्तरेण विप्रतिपत्तिहेतुत्वमुपपादयति ॥ नापीति ॥ प्रसङ्ग आपादनम् । समीचीन इति शेषः । कुतो न ? इत्यत आह ॥ इष्टापत्तीति ॥ ‘तर्कोऽनिष्टप्रसङ्गः स्यात्’ इत्युक्तत्वेनात्र तदभावादित्यर्थः । तथा चानिष्टभ्रमरूपविप्रतिपत्तिसूचकत्वा-च्चेदं निग्रहस्थानम् इति भावः ॥ १८ ॥
प्रमाणलक्षणटीकाविवरणम्
मतानुज्ञालक्षणमाह ॥ अनिष्टेति ॥ वस्तुतो वादिन इष्टो ऽनिष्टत्वभ्रमेण वादिनस्तस्यापादनं मतानुज्ञेत्यर्थः ॥ नाप्ययमिति ॥ कुतोनेत्यत आह ॥ इष्टापत्तीति ॥ परं प्रति हि अनिष्टमेवापादनीयं नत्विष्टम् । अनिष्टप्रसञ्जनं तर्क इत्युक्तेरिति ॥ १८ ॥