केनचिद् व्याजेन कथाविच्छेदो विक्षेपः
विक्षेपः
प्रमाणलक्षणटीका
केनचिद् व्याजेन कथाविच्छेदो विक्षेपः । यथा ‘अद्य मे महत् प्रयोजनमस्ति । तस्मिन्नवसिते वक्ष्यामि’ इति ॥ १७ ॥
प्रमाणलक्षणटीकाभावदीपः
॥ अवसित इति ॥ समाप्त इत्यर्थः ॥ १७ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘कथामभ्युपगम्यैव तद्विच्छेदाय कस्यचित् ।
व्याजस्य वचनं प्राहुर्विक्षेपं नाम निग्रहम्’’
इतिकारिकाऽनुसारुेण विक्षेपं लक्षयति ॥ केनचिदिति ॥
व्याजेन व्याजवचनेन । अत्र कथामुपक्रम्येति वक्तव्यम् । अन्यथा कथोप-क्रमाभावकालीने व्याजवचनेऽतिप्रसक्तेर् इति ध्येयम् । अत एवोक्तम् पद्धतौ, ‘यथा कथामारभ्याह, अद्य मे महत्’ इत्यादि । उक्तं च कारिकायां ‘कथामभ्युपगम्यैव’ इति । अवसिते अवसानम् प्राप्ते ॥ १७ ॥
प्रमाणलक्षणटीकाविवरणं
विक्षेपः स्पृष्टः ।