वादिना त्रिरभिहितस्यापि परिषदा विज्ञातार्थस्य वाक्यस्यार्थाप्रतिपत्तिरज्ञानम्
अज्ञानम्
प्रमाणलक्षणटीका
वादिना त्रिरभिहितस्यापि परिषदा विज्ञातार्थस्य वाक्यस्यार्थाप्रतिपत्तिरज्ञानम् । तच्चाज्ञानम् आविष्करणेन ज्ञातव्यम् । यथा ‘नास्यार्थो ज्ञायते मया’ इति । अनाविष्करणे तु अननुभाषणमेव ॥ १५ ॥
प्रमाणलक्षणटीकाभावदीपः
अविज्ञातार्थेऽनतिव्याप्तये परिषदा विज्ञातार्थस्येति ॥ आविष्कार-मेव दर्शयति ॥ यथेति ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘ज्ञातेऽपि वादिवाक्यार्थे प्राश्निकैस्तत्र चेत्पुनः ।
स्वाज्ञानमुद्भावयति तदाऽज्ञानेन निग्रहः’’
इति करिकाऽनुसारेणाज्ञानं लक्षयति ॥ वादिनेति ॥ वादिना सकृद्वा द्विवारं वा उक्ते सति तदर्थाप्रतीतेरदूषणत्वात् तत्रातिव्याप्तिपरिहाराय त्रिरभिहितस्य इत्युक्तम्। परिषदेत्यविज्ञातार्थव्यवच्छेदः ।
ननु तर्ह्यननुभाषणेऽतिव्याप्तिर् इत्यत आह ॥ तच्चाज्ञानमिति ॥ आवि-ष्करणप्रकारमेव दर्शयति ॥ यथेति ॥ तथा च लक्षणे अर्थाप्रतिपत्तिरित्यस्य अर्थाप्रतिपत्त्युद्भावनमित्यर्थो द्रष्टव्यः । अत एव कारिकायाम् ‘स्वाज्ञानमुद्भावयति’ इत्युक्तम् ॥ अनाविष्करणे त्विति ॥ स्वज्ञानस्येति शेषः ॥ १५ ॥
प्रमाणलक्षणटीकाविवरणम्
अथाज्ञानं लक्षयति ॥ वादिनेति ॥ तद्भानप्रकरमाह ॥ तच्चेति ॥ आविष्करणप्रकारमेवाह ॥ यथेति ॥