१५ अननुभाषणम्

वादिनोक्तस्य प्राश्निकैर्विज्ञातार्थस्य..

अननुभाषणम्

प्रमाणलक्षणटीका

वादिनोक्तस्य प्राश्निकैर्विज्ञातार्थस्य वादिना परिषदा वा पुनरनूद्य दत्तस्योच्चारणयोग्यस्य स्वाज्ञानमनाविष्कुर्वता कथामविच्छिन्दता यद् अप्रत्युच्चारणं तद् अननुभाषणम् ।

तत् पञ्चविधम् । यत्तदित्याद्यनुवादः दुष्यैकदेशानुवादो ऽन्यथाऽनुवादः केवलं दूषणोक्तिस् तूष्णीम्भावे दूषणाऽद्य-प्रतीतेः, दूषणमात्राभिधाने निराश्रयदूषणस्यादूषकत्वात् , अन्यथाऽनु वादे व्यधिकरणत्वात् , दूष्यैकदेशानुवादे विशिष्टा-दूषणात्, यत्तदित्याद्यनुवादे अननुवादाविशेषात् ।

न च दूषणस्वरूपयोग्यतया दूष्यविशेषसिद्धिः । सन्दिग्धत्वाऽदिना सर्वस्यापि दूष्यत्वात् । योग्यमेवायं ब्रवीतीति नियमाभावात् । न च पञ्चममज्ञानमप्रतिभा वा । ज्ञातार्थस्य स्फुरदुत्तरस्यापि सभाक्षोभाऽदिना तूष्णम्भावोपपत्तेः। तथा चाननुभाषणमेव निर्णीतं, नान्यदिति ॥ १४ ॥

प्रमाणलक्षणटीकाभावदीपः

अविज्ञातार्थेऽनतिव्याप्तये प्राश्निकैर्विज्ञातार्थस्येति । अज्ञानेऽनतिव्याप्तये स्वाज्ञानमित्यादि । विक्षेपेऽनतिव्याप्तये कथामित्यादि । पञ्चानामपि पराजयशब्दितनिग्रहस्थानत्वं प्रतिज्ञापूर्वं व्युत्क्रमेण साधयति ॥ सर्वं चैतदिति ॥ दूषणाऽदीत्यादिपदेन तदर्थज्ञानाऽदिग्रहः ।

॥ सन्दिग्धत्वेति ॥ कस्येदं दूषणमिति सन्देहः । न त्वदुक्तस्येदं दूषणं किं तु अन्यस्य, इति विपर्ययः । एकदेशदूषणं वा सर्वस्येदं दूषणं वा, इति वा सन्देहाऽदिना सर्वस्यापि दूष्यत्वाद् इत्यर्थः । ननु सर्वस्याननुवादेऽपि दूषणं सर्वस्य वक्तैव इत्यत आह ॥ योग्यमेवायं ब्रवीतीति ॥ प्रतिवादीत्यर्थः ।

यद्वा ‘योग्यमेव दूषणं वा अयोग्यं वा’ इति सन्दिग्धत्वम् , ‘अयोग्यमेव’ इति विपरीतत्वं ताभ्यामित्यर्थः । कुत एवं संदेहाऽदिः ? इत्यत आह योग्यमेवेति ॥ १४ ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘ज्ञातार्थं प्राश्निकैर्वाक्यं त्रिरुक्तं नानुभाषते ।

योऽनुद्भाव्य स्वमज्ञानं तस्यैवाननुभाषणम्’’

इति कारिकाऽनुसारेणाननुभाषणं लक्षयति ॥ वादिनोक्तस्येति ॥ प्राश्निकैरित्यनेनाविज्ञातार्थव्यवच्छेदः । परिषदा प्राश्निकेन वादिनेति परिषदेति उच्चारणेति च दोषत्वोपपादनाय स्वरूपकथनं , न व्यावर्तकम् । स्वाज्ञानमना-विष्कुर्वता इत्यनेन अज्ञानव्यवच्छेदः । तत्राज्ञानाविष्करणस्य वक्ष्यमाणत्वात् । कथामविच्छिन्दता इत्यनेन विक्षेपव्यवच्छेद इति ज्ञातव्यम् । अविच्छिन्दता प्रतिवादिना इति शेषः ।

॥ तत्पञ्चविधमिति ॥ यत्तदित्याद्यनुवादाऽदिचतुर्णाम् अप्रत्युच्चारणप्रति-निधित्वाद् अननुभाषणत्वमेवेति ज्ञातव्यम् ॥ सर्वञ्चैतदिति ॥ पञ्चविधमप्यननु-भाषणमित्यर्थः । प्रत्त्युतरादानस्य चतुर्षु समत्वाद् अननुभाषणत्वम् । अप्रत्युच्चारणं हि योग्योत्तरदानाभाव एव ।

कुतः ? इत्यतो निग्रहस्थानसामान्यलक्षणयोगाद् इत्यभिप्रेत्य व्युत्क्रमेणोप-पादयति ॥ तूष्णीम्भाव इत्यादिना ॥ दूषणाऽद्यप्रतीतेरिति ॥ तथा च तूष्णीम्भावस्य अप्रतिपत्तिज्ञापकत्वान् निग्रहस्थानत्वमित्यर्थः । अदूषकत्वात् परपक्षदूषणासमर्थत्वाद् इत्यर्थः । तथा च दूषणासमर्थे दूषणसामर्थ्यप्रतिपत्तिरूप-विप्रतिपत्तिसूचकत्वाद् दूषणमात्रस्य निग्रहस्थानत्वमित्याशयः ।

॥ अन्यथाऽनुवाद इति ॥ व्यधिकरणस्यादूषणत्वेन अदूषणे दूषणत्व-बुद्धिरूपविप्रतिपत्तिसूचकत्वान् निग्रहस्थानत्वमित्यर्थः ॥ विशिष्टादूषणादिति ॥ ‘शब्दोऽनित्यो गुणत्वे सत्यैन्द्रियकत्वात्’ इति विशिष्टे हेतौ वादिनोक्तेऽपि ‘ऐन्द्रियकत्वात्’ इति हेतुरयुक्तः सामान्ये व्यभिचाराद् इति यदा प्रतिवादी ब्र्ते तदा गुणत्वविशिष्टहेतोरदूषणेऽपि एकदेशदूषणेनविशिष्टोऽपि दूषितो भवतीति विरुद्धार्थज्ञानरूपविप्रतिपत्तिसूचकत्वान् निग्रहस्थानत्वमेवेत्यर्थः ।

॥ अननुवादाविशेषादिति ॥ तूष्णीम्भावाविशेषाद् इत्यर्थः । तथा च दूष्यविशेषसिद्ध्यर्थमनुवादस्यावश्यकत्वेन यत् तद् इत्यादिसामान्यानुवादस्य ननुवादाविशेषेण तूष्णीम्भावरूपतया अप्रतिपत्तिज्ञापकत्वान् निग्रहस्थानत्व-मेवेत्याशयः । दूष्यविशेषसिद्ध्यर्थमनुवादस्यावश्यकत्वमिति यद् उक्तं तन्न । यत् तद् इत्याद्यनुवादं कृत्वा तमकृत्वा वा व्यभिचाराख्यदोषोद्भावने तद्द्षणस्वरूप-योग्यत्वेन हेतुरेव दूष्यतया आयास्यति इत्याशङ्क्य निषेधति ॥ न चेति ॥

॥ सन्दिग्धत्वाऽदिनेति ॥ वाद्युक्तप्रतिज्ञाहेतुदृष्टान्तरूपादौ विश्वासाभावेन सन्दिग्धतया सर्वस्यापि दूष्यत्वेन प्रतिवादिना ‘व्यभिचारः , इत्युक्तेऽपि ‘किमयं व्यभिचारेण प्रतिज्ञां दूषयति हेत्वादिकं वा’ इति सन्देह एव वादिनो भविष्यतीति न दूषणस्वरूपयोग्यत्वेन हेतोरेव सिद्धिरित्यनुवाद आवश्यक इति भावः ।

ननु न ह्येवं प्रतिवादी मूर्खो येन व्यभिचाराख्यदोषेण प्रतिज्ञां दूषयेत् । तस्माद् अनुवादाभावेऽपि तद्योग्यत्वेन हेतुरेवाऽयास्यतीति तदर्थं नानुवाद आवश्यक इत्यत आह ॥ योग्यमेवेति ॥ प्रमाणाबाधितमेवेत्यर्थः । तथा च प्रतिवादिन्याप्तत्व-निश्चयाभावेन प्रमादाऽदेरपि सम्भावात् ‘व्यभिचाराऽख्यदोषेण हेतुमेव दूषयति, न प्रतिज्ञाम्’ इति नियमाभावेन पुनः सन्देह एव वादिनः स्याद् इति तत्परिहाराय अनुवादस्यावश्यकत्वात् , यत् तद् इत्यनुवादे तूष्णीम्भावसाम्येन अप्रतिपत्ति-सूचकत्वान् निग्रहस्थानत्वमेवेति भावः ।

पञ्चमं तूषणीम्भावः । तथा च अननुभाषणान्तर्भाव इत्याशयः । ज्ञातार्थस्येति अज्ञानव्यवच्छेदः । स्फुरदुत्तरस्यापीत्यनेन अप्रतिभाया इति ज्ञातव्यम् । सभाक्षोभो नाम सभां दृष्ट्वा बुद्धेः क्षुब्धतेत्यवधेयम् । क्षोभः कम्प इत्यप्याहुः । उपसंहारति ॥ तथा चेति ॥ पञ्चममिति वर्तते । एवेत्यनन्तरमितीति शेषः ॥ नान्यदिति ॥ अज्ञानम् अप्रतिभा वा न भवतीत्यर्थः ॥ १४ ॥

प्रमाणलक्षणटीकाविवरणम्

अननुभाषणं लक्षयति ॥ वादिनेति ॥ कथामविच्छिंदतेत्यतः परं प्रति वादिनेति शेषः । किमस्य संर्वांशे निग्रहस्थानत्वं किं कस्मिन्नंशे उपादेयत्वमपीति जिज्ञासायामाह ॥ सर्वमिति ॥ तत्कथमित्यतः व्युत्क्रमेणोप-पादयति तूष्णीम्भाव इति ॥ दुषणाद्याश्रयोपादानस्याङ्गत्वाप्रतीतेेरिति यावत् । तथाच तूष्णीम्भावस्याप्रतिपत्तेर्लिङ्गत्वान्निग्रहस्थानत्वमित्युक्तं भवति ।

॥ दूषणमात्रेति ॥ अस्य च विप्रतिपत्तिलिंगत्वान्निग्रहस्थानत्वम् । तथाहि निराश्रयस्य दूषणस्यादूषणत्वेन साधनासामर्थ्योपपादनेनादूषणे दूषणत्वबुद्ध्या विप्रतिपत्तिसूचकत्वादिति ॥ व्यधिकरणत्वादिति ॥ व्यधिकरणस्यादूषणत्वेन अदूषणे दूषणत्वबुद्धिरूपविप्रतिपत्तिसूचकत्वान्निग्रहस्थानत्वमित्यर्थः ।

॥ दूषणैकदेशेति ॥ यथाशब्दो अनित्यगुणत्वे सति ऐन्द्रियकत्वादिविशिष्टे हेतौ वादिनोक्ते तु सामान्यादावेकदेशस्य व्याभचारं प्रतिवादी ब्रूते, तदा विशिष्टादूषणे दूषणत्वबुद्ध्या विप्रतिपत्तेरित्यर्थः । यत्तदिति तूष्णींभावाविशेषाद् यत् त्वयोक्तं तदसिद्धमित्यादौ सर्वनाम्ना दूष्योपादानेऽपि पक्षहेत्वादीनां मध्ये कस्योपादानमिति संदेहेन दूष्यविशेषोपादानस्य विद्यमानतुल्यत्वादिति भावः । नन्वनैकांतिकत्वादि-दूषणविशेषपर्यालोचनया हेत्वादिदूष्यविशेषनिश्चय इत्याशंक्य परिहरति ॥ नचेति ॥ कुतो नेत्यत आह ॥ सन्धिग्धत्वादिनेति ॥ पक्षादिसर्वसाधारणदूषणाभिधाने दूष्यविशेषावधारणसिद्धेरित्यर्थः । सर्वसाधारणदूषणेऽपि हेतुरेव दूष्यत्वेनास्य विवक्षित इति कथकविश्चासा-दवसेयमित्याशंक्याह ॥ योग्यमेवेति ॥ प्रतिवादिनि वादिन आप्तत्वानिश्चयात् प्रमादस्यापि संभवाच्चेति भावः ।

नचास्य न पृथक्निग्रहस्थानत्वं, तूष्णीम्भावे अज्ञानाप्रतिभयोरपि संभवा-दित्यत आह ॥ न चेति ॥ कुतो नेत्यत आह ॥ ज्ञानार्थस्येति ॥ तथाच नाज्ञानप्रतिक्षयोरवकाश इति भावः । उपसंहरति ॥ तथाचेति ॥