१४ पुनरुक्तम्

प्रतीतार्थस्य पुनः स्ववचनेन प्रयोजनेन विना अभि-धानं पुनरुक्तम्

पुनरुक्तम्

प्रमाणलक्षणटीका

प्रतीतार्थस्य पुनः स्ववचनेन प्रयोजनेन विना अभि-धानं पुनरुक्तम् । तत् त्रिविधम् । अर्थतः शब्दतोप्याक्षेपतश्चेति।

तत्राऽद्यं यथा ‘पर्वतोऽग्निमान् गिरिर्वह्निमान्’ इति । द्वितीयं यथा ‘पर्वतोऽग्निमान् पर्वतोऽग्निमान्’ इति । तृतीयं यथा ‘जीवंश्चैत्रो गृहे नास्ति इत्युक्त्वा ‘बहिरस्ति’ इति ॥ १३ ॥

प्रमाणलक्षणटीकाभावदीपः

निरर्थके अज्ञाने वा अनतिव्याप्तये प्रतीतार्थस्येति । स्ववचनेन अभिधानमित्यन्वयः ॥ १३ ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘शब्दादाक्षेपतो वाऽपि प्रतीतस्यैव कीर्तनम् ।

प्रयोजनं विनाभूतं पुनरुक्तमिति स्थितिः’’

इति कारिकाऽनुसारेण पुनरुक्तं लक्षयति ॥ प्रतीतार्थस्येति ॥ स्ववचनेन प्रतीतार्थस्य स्ववचनेन प्रतीतार्थस्य स्ववचनेनाभिधानमिति सम्बन्धः । निगमन-व्यावृत्त्यर्थं प्रयोजनं विना इत्युक्तम् । निगमनस्य तु सर्वस्यापिवुद्ध्यारोहः प्रयोजन-मित्यर्थः ॥ १३ ॥

प्रमाणलक्षणटीकाविवरणम्

अथ पुनरुक्तं लक्षयति ॥ प्रतीतेति ॥ प्रतीतार्थस्य पुनः वचनेनाभिधानं पुनरुक्तमित्युक्ते निगमने पक्षस्य वचनं पुनरुक्तं स्यादतः प्रयोजनं विनेत्युक्तम् ॥ अर्थत इति ॥ अर्थतः पुनरुक्तं शब्दतः पुनरुक्तम् आक्षेपतः पुनरुक्तं चेति त्रिविधमित्यर्थः ।