अन्वितोपयुक्तापुनरुक्तकृतकार्यप्रयोगोऽधिकम्
अधिकम्
प्रमाणलक्षणटीका
अन्वितोपयुक्तापुनरुक्तकृतकार्यप्रयोगोऽधिकम् । तत् पञ्चविधम् । हेतूदाहरणोपनयदूषणानुवादाधिकभेदेन ।
प्रतिज्ञानिगमनयोराधिक्यम् एकार्थत्वे पुनरुक्तं, अन्यार्थत्वे प्रकृतसङ्गतावर्थान्तरं, असङ्गतावपार्थकम् ।
द्विविधं चैतद् विशेषतः सामान्यतश्च । तत्राऽद्यं यथा ‘धूमवत्वादालोकविशेषवत्वादिति , धूमवत्वादेः’ इति वा ।
द्वितीयं यथा ‘यथा महानसः पाकस्थानमिति, यथा महानसाऽदिः’ इति वा ।
तृतीयं यथा ‘तथा चायं धूमवानालोकविशेषवानिति, धूमाऽदिमान्’ इति वा ।
चतुर्थं यथा ‘अनैकान्तिको हेतुः कालातीतश्चेति, अनैकान्तिकाऽदिः’ इति वा ।
पंचमं तु अदूष्यभागस्य स्ववचनेनानुवाद आदिशब्देन वेति ॥ १२ ॥
प्रमाणलक्षणटीकाभावदीपः
अपार्थके अर्थान्तरे पुनरुक्ते अकृतकार्ये चानतिव्याप्तये क्रमाद् विशेषणानि । ननु प्रतिज्ञायामाधिक्यं निगमने चाऽधिक्यं कुतो न गणितम् ? इत्यत आह ॥ प्रतिज्ञेति ॥ एकार्थत्व इति ॥ प्रागुक्तस्य पश्चादुक्तस्य चेत्यर्थः । यथा ‘पर्वतोऽग्निमान् पर्वतोऽग्निमान्’ इति । प्रतिज्ञायामिव निगमनेऽपि एवमुक्ताविति ध्येयम् ।
॥ अन्यार्थत्व इति ॥ प्रतिज्ञायामुक्तान् निगमने उक्तस्यान्यार्थत्वे अर्थान्तरत्वम् । यथा ‘तस्माद् आर्द्रेन्धनप्रभवाग्निमान्’ इत्युक्तावर्थान्तरम् , ‘तस्माद् अग्निमान् पाषाणवांश्च’ इत्युक्तौ अपार्थकम् इत्यर्थः ॥ आदिशब्देन वेति ॥ दूष्यं सर्वं स्ववचनेनानूद्य पश्चात् ‘इत्यादि’ इति कथनमित्यर्थः ॥ १२ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘अन्वितस्योपयुक्तस्य पुनरुक्तेतरस्य च ।
कृतकार्यकरस्योक्तिरधिकं तत्प्रचक्षते’’
इति कारिकाऽनुसारेणाधिकं लक्षयति ॥ अन्वितेति ॥ अत्रापार्थकार्थान्तर-पुनरुक्तसदुक्तिपरिहाराय क्रमेण विशेषणानि द्रष्टव्यानि । हेतूदाहरणेत्यादौ द्वन्द्वान्ते श्रूयमाणाऽधिक्यपदस्य प्रत्येकं सम्बन्धो द्रष्टव्यः ।
ननु प्रतिज्ञाधिक्यं निगमनाऽधिक्यं चात्र कुतो न गृहीतम् ? इति चेद् अत्र प्रष्टव्यम् , यत्र प्रतिज्ञाऽऽधिक्यं निगमनाऽधिक्यं वोच्यते तत्र ‘पर्वतोऽग्निमान्, पर्वतोऽग्निमान्’ इत्येवं प्रतिज्ञायोः ‘तस्मादग्निमानेव, तस्मादग्निमानेव , इत्येवं निगमनयोश्च एकार्थत्वं विवक्षितम् ? उत भिन्नार्थत्वम् ? । द्वितीयेऽपि तत् किं किञ्चित् प्रकृतसङ्गतम् ? उत सर्वथा प्रकृतासङ्गतम् ? इति विकल्पान् हृदि निधाय आद्य आह ॥ प्रतिज्ञेत्यादि ॥
द्वितीये आद्य आह ॥ अन्यार्थत्व इति ॥ प्रकृतसङ्गताविति ॥ ‘शब्दोऽनित्यः प्रमेयत्वाद् इति हेतुर् हेतुशब्दश्च हिनोतेर्धातोः’ इत्यादिवत् किञ्चित् प्रकृतसङ्गतावित्यर्थः ।
द्वितीये द्वितीय आह ॥ असङ्गताविति ॥ सर्वथा प्रकृतासङ्गतौ । ‘कुण्डम् अजाजिनं दश दाडिमानि’ इत्यादिवद् अपार्थकमित्यर्थः । एतत् हेत्वाधिक्यम् ।
पञ्चविधमपि यथाक्रमं विधाद्वयेन प्रत्येकमुदाहरति ॥ तत्राऽद्यं यथेत्यादिना ॥ विशेषतः कण्ठतः , वाचकशब्देनोपादानमिति यावत् । सामान्यत सामान्याकारेण आदिपदेनेति यावत् । आद्यं हेत्वाधिक्यम् आलोकेति विशेषतो हेत्वाधिक्यं निदर्शितम् । आलोकसामान्यस्य वह्नचननुमापकत्वाद् विशेषपदम् । ध्मवत्वाऽदेरिति सामान्यतो हेत्वाधिक्यं निदर्शितम् । एवमुत्तरत्रापि द्रष्टव्यम् ॥ १२ ॥
प्रमाणलक्षणटीकाविवरणम्
अथाधिकं लक्षयति ॥ अन्वितेति ॥ ननु हेत्वाधिक्यादिवत् प्रतिज्ञाधिक्यं निगमनाधिक्यं च कुतो नाधिकत्वेन गण्यत इत्यत आह ॥ प्रतिज्ञाविनिगमनयोरिति ॥ प्रतिज्ञाधिक्यं निगमनाधिक्यं चाधिकमिति वदन् प्रष्टव्यः किं प्रतिज्ञानिगमनयोरेकार्थत्वेऽधिकत्वं किं वा भिन्नार्थत्वे । आद्ये अनित्यः शब्दः विनाशी ध्वनिरितिवदर्थपुनरुक्तत्वं स्यान्नाधिकत्वमित्याह कार्थत्व इति ॥ प्रतीतार्थस्य पुनः स्ववचनेन प्रयोजनं विनाभिधानं पुनरुक्तमिति तल्लक्षणाक्रान्त-त्वादिति भावः ।
द्वितीयेऽपि प्रष्टव्यं किं भिन्नार्थमपि किं प्रकृतोपयोगिसंबंधशून्यं वात्यंतम-नन्वितं वा ? आद्यं दूषयति ॥ अन्यार्थत्व इति । प्रकृतानुपयुक्तान्वितोक्तिरर्थान्तर-मिति तल्लक्षणाक्रान्तत्वात् । संगतेत्यस्यान्वितेत्यर्थः । द्वितीये तु दश दाडिमानि षडपूपा इत्यादिवदपार्थकमेव स्यात् । नत्वाधिक्यमित्यत आह असंगताविति ॥ अनन्वितेत्यर्थः । अनन्वितार्थवाचकपदप्रयोगोऽपार्थकमिति तल्लक्षणाक्रांतत्वा-दिति भावः ।
अथेदं द्वेधा विभजते ॥ द्विविधमिति ॥ एतदित्यनेन पूर्वोक्तस्य पंचविधस्य अधिकस्य परामर्शः ॥ तत्राद्यमिति ॥ विशेषतो हेत्वाधिक्यमित्यर्थः । सामान्यतो हेत्वाधिक्यमुदाहरति ॥ धूमवत्त्वादेरिति ॥ द्वितीयमिति ॥ विशेषत उदाहरणा-धिकमित्यर्थः । सामान्यतोऽधिकमुदाहरति ॥ यथेति ॥ तृतीयं विशेषत उपनयाधिक्यम् । चतुर्थं विशेषतो दूषणाधिक्यम् । पंचमं विशेषतोऽनुवादाधिक्यमिति ज्ञेयम् । तस्मिन् लक्ष्णेऽन्वितत्वादिविशेषणेऽर्थान्तरापार्थकपुनरुक्तानां व्यवच्छेद इति ध्येयम् ॥ १२॥