विवक्षितक्रमविपर्यासोऽप्राप्तकालम्
अप्राप्तकालम्
प्रमाणलक्षणटीका
विवक्षितक्रमविपर्यासोऽप्राप्तकालम् । अयं वादजल्पयोः क्रमः । सभ्याऽदिसंग्रहपुरस्सरं कथानियमबन्धे कृतेवादिना प्रमाणमभिधायाऽभासोद्धारः कर्तव्यः । प्रति-वादिनाऽपि वादिसाधनमनूद्य दूषयित्वा स्वपक्षे प्रमाणमभि-धायाऽभासोद्धारः कर्तव्य इति ।
तत्र यदि वादी साधनमुक्त्वा कथानियमबन्धनमिच्छति तदाऽऽरम्भ्विपर्यासः । यदाऽऽभासोद्धारानन्तरं साधनं प्रयुङ्क्ते तदा वादांशविपर्यासः । प्रतिवादी च यदा स्वपक्षे साधनम-भिधाय परपक्षं दूषयति तदा वादविपर्यासः । धूमवत्वात् पर्वतोऽग्निमान् इत्याद्यवयवविपर्यासः । अग्निमान् पर्वत इत्याद्यवयवांशविपर्यासः । वितण्डायां तु प्रतिवादिनः स्वपक्ष-साधनाभावाद् वादविपर्यासाभाव इति ॥ १० ॥
प्रमाणलक्षणटीकाभावदीपः
॥ आभासोद्धार इति ॥ स च ‘नायमाभासस् तल्लक्षणहीनत्वात्’ इति सामान्न्यतः ‘नायमसिद्धस् तल्लक्षणहीनत्वात्’ इति विशेषतश्चेति द्वेधा भवति ॥ वादविपर्यासाभाव इति ॥ अन्यः सर्वोऽपि सम्भवतीति भावः ॥ १० ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
विवक्षितक्रमं वादवादांशावयवाऽदिकम् ।
विपर्यस्तं वदति चेत् प्राप्तैवाप्राप्तकालता ॥
इतिकारिकाऽनुसारेणाप्राप्तकालं लक्षयति ॥ विवक्षितक्रमेति ॥ सभ्याऽदिसंग्रहेति ॥ यद्यपि वादे न सभ्याऽदिसंग्रहोऽस्ति, तथाऽपि विद्यापरीक्षाऽर्थकवाद-कथाविशेषेऽस्त्येव सभ्याऽदिसंवरणम् । अतस्तदभिप्रायेणेदमित्यवगन्तव्यम् । यथोक्तमनुव्याख्याने
‘‘सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि ।
वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः’’ इति ॥
॥ वादांशेति ॥ साधनम् आभासोद्धारश्चेति वादांशौ तयोर्विपर्यास इत्यर्थः ॥ अवयवेति ॥ प्रतिज्ञाहेतुरूपावयवांशभूतयोः पदयोर् विपर्यास इत्यर्थः ॥ वादविपर्यासाभाव इति ॥ एतदभिप्रायेणैव पूर्वं ‘अयं हि वादजल्पक्रम इत्येवोक्त-मित्यवगन्तव्यम् ॥ १० ॥
प्रमाणलक्षणटीकाविवरणम्
अथाप्राप्तकालस्य लक्षणमाह ॥ विवक्षितेति ॥ विवक्षितो यः क्रमो वादक्रमः जल्पक्रमो वितंडक्रमश्च तस्य विपर्यासो नाम व्यत्यासः सोऽप्राप्तकालं नाम निग्रहस्थानमित्यर्थः । तत्र विवक्षितक्रमाज्ञाने तद्विपर्ययस्य ज्ञातमुशक्यत्वाद् विवक्षितक्रमो वक्तव्यः। तत्रापि वादजल्पप्रवृत्तिप्र्रकारोक्त्यैव वितंडप्रकारस्योक्त-प्रायत्वेन तमनुक्त्वा वादजल्पप्ररत्तिप्रकारमाह ॥ अयमिति ॥ वादविशेषोऽत्र ग्राह्यः। तस्यैव सभ्यसभापत्यादिवरणपूर्वकत्वान् नतु वादमात्रस्य।
नचैवं तयोर्भेदो न स्यादिति वाच्यम् । फलभेदेन भेदात् । सभ्यादीत्यत्रादिपदेन वादिप्रतिवादिवरणप्रमेयनियमभीषानियमावयवफलनियमसङ्ग्रहः । अत्र प्राश्निकैः प्रमेयं पृच्छेति नियुक्तेन प्रतिवादिनोक्तसाध्यसाधकं किमिति पृष्टेन वादिना स्वोक्तर्थे प्रमाणमभिधातव्यमिति कथालक्षणे आरम्भविपर्यास इति तस्य साधनात्पूर्वं कर्तव्यत्वात् तस्य पश्चात्करणे आरंभविपर्यास इति भावः। तत्र कथा चतुष्पादा । तत्र साधनोपन्यास आभासोद्धारश्च वादिनः प्रथमः पादः। प्रतिवादिनस्तदृूषणं द्वितीयः पादः । अथ तस्यैव स्वपक्षसाधनम् आभासोद्धारश्च तृतीयः पादः । सभापतेर्जयपराजयादिव्यवस्थापनं चतुर्थः पाद इति । तथाच पादविप-र्यास इत्युक्तिरुपपन्नेति बोध्यम् ।
॥ पादांशविपर्यास इति ॥ पादस्यांशौ पादांशौ तयोर्विपर्यासः साधनम् अभासोद्धारश्च पादस् तत्र साधनमादौ आभासोद्धारस्तु तदनंतरं विवक्षितः । आदावेवाभासोद्धारे पादांशे विपर्यास इत्यर्थः। अवयवविपर्यासमुदाहरति ॥ धूमवत्त्वादिति ॥ प्रतिज्ञायाः पूर्वं हेतोरनाकां-क्षितस्यादौ वचनेऽवयवविपर्यासः। अवयवांशविपर्यासमुदाहरति ॥ अग्निमानिति ॥ अत्रच सिद्धं धर्मिणमुद्धिश्य साध्यधर्माे विधीयत इति न्यायेन निराश्रयधर्मविधानायोगात् तस्यादौ वचनेऽव-यवांशायोर्विपर्यास इत्यर्थः ।
नन्वेवं वादजल्पप्रवृत्तिप्रकार एव वितंडप्रकारश्चेत्तर्हि वितंडायां पादादि-विपर्यासो दूषणं स्यात् । तत् कथमित्यत आह ॥ वितण्डायामिति ॥ तथाच तदतिरिक्तसर्वोऽप्यवयवविपर्यासो वितंडायामपि तिष्ठतीत्युक्तं भवति । अत्र प्रतिवादिन इत्यस्योभयत्रान्वयः प्रतिपादिनः साधनाभावः पादविपर्यासाभावश्चेति।