अनन्वितार्थवाचकपदाऽदिप्रयोगोऽपार्थकम्
अपार्थकम्
प्रमाणलक्षणटीका
अनन्वितार्थवाचकपदाऽदिप्रयोगोऽपार्थकम् । तत् त्रिविधम् ।
सर्वथाऽप्यसम्भवदन्वयं यथा ‘दश दाडिमानि षडपूपाः कुण्ड-मजाजिनम्’ इत्यादि । व्यवहितान्वयं यथा ‘ओदनं स्नातो ग्रामं सरसि गत्वाऽश्नाति’ इत्यादि । सम्भवत्सर्वान्वय-पक्षनिरासे सत्यसम्भवदन्वयं चेति ॥ ९ ॥
प्रमाणलक्षणटीकाभावदीपः
॥ ओदनमिति ॥ ‘सरसि स्त्रातो ग्रामं गत्वा ओदनमश्नाति’ इत्यर्थः ॥ सम्भवदिति ॥ आदौ परिस्फुरत्सर्वान्वयपक्षनिरासे पश्चाद् अयोग्यतया असम्भवदन्वयमित्यर्थः । यथा ‘जरद्रवः कम्बलपादुकाभ्याम्’ इत्यादि ॥ ९ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘पदजातं वाक्यजातमनन्वितमपार्थकम्’’
इति कारिकाऽनुसारेणापार्थकं लक्षयति ॥ अनन्वितार्थेति ॥ आदिपदेन वाक्य-प्रयोगसंग्रहः । अनन्वितेत्यनेनार्थान्तरव्यावृतिः । वाचकेति निरर्थकस्य ॥ ओदन-मित्यादि ॥ ‘सरसि स्नातो ग्रामं गत्वा ओदनमश्नाति’ इति व्यवधानेनान्वय एवास्ति । अव्यवहितान्वयस्तु बाधित इत्यर्थः । आदिपदेन
अम्बरमम्बुनि पत्रमरातिः पीतमहीशगणस्य ददाह ।
इत्यादिसंग्रहः ॥ सम्भवदिति ॥ आदौ परिस्फुरत्सर्वान्वयपक्षनिरासानन्तरम् अयोग्यताज्ञानेन अन्वयबोधजनकमित्यर्थः । तथा च अनाकाङ््क्षाऽनासत्त्य-योग्यताभिस् त्रैविध्यमित्याशयः ॥ ९ ॥
प्रमाणलक्षणटीकाविवरणम्
अपार्थकं लक्षयति ॥ अनन्वितेति ॥ अनन्वितश्चासौ अर्थश्च तस्य वाचकानि पदानि । आदिपदेन वाक्यं च । अत एवोदाहरणसमये वाक्य-मप्युदाहृतम् । तेषां प्रयोगोऽपार्थकमित्यर्थः ॥ सर्वथेति ॥ सर्वथाऽसंभववानन्वयो यस्येति बहुव्रीहिः । व्यवहितान्वय-मुदाहरति ॥ ओदनमिति ॥ अत्रोदनमित्यस्य नाव्यवहितेन स्नात्वेत्यनेनान्वयः । किंतु व्यविहितेनाश्रातीत्यनेन । एवमुत्तरत्रापि। तृतीयमुदाहरति ॥ संभवदिति ॥ संभवंतः ये सर्वेऽन्वयपक्षास् तन्निरासे सति असंभवदन्वयं चेति ॥ ९ ॥