त्रिवारमुक्तेऽपि परिषत्प्रतिवादिभ्यामविज्ञातार्थबोधक-पदप्रयोगोऽविज्ञातार्थकम्
अविज्ञातार्थकम्
प्रमाणलक्षणटीका
त्रिवारमुक्तेऽपि परिषत्प्रतिवादिभ्यामविज्ञातार्थबोधक-पदप्रयोगोऽविज्ञातार्थकम् । तच्चतुर्विधम् ।
स्वतन्त्रमात्रसिद्धम्, रूढिमनपेक्ष्य केवलयोगेन प्रवृत्तम्, निर्णायकाभावेन संशयाऽक्रान्तम्, अतिद्रुतोच्चारितं चेति ।
आद्यं यथा ‘स्फ्यकपालपुरोडाशाऽदि’ मीमांसकानाम् ।
द्वितीयं यथा ‘कश्यपतनयाधृतिहेतुरयं त्रिणयनतनयासन-समाननामधेययुक्तः’ इत्यादि ।
तृतीयं यथा ‘श्वेतो धावति’ इत्यादि ।
तत्राऽद्यं परस्परसिद्धान्ताभिज्ञताशौण्डीर्याभिमानेन उपादीयेतापि । उत्तरं तु नोपादेयमेव । ज्ञापनार्थत्वात् शब्दस्य। अनवधानाऽदिशङ्कानिरासाय पुनर्वचनं प्राश्निकैरपेक्ष्यते । त्रिरिति नियमश्च । ततः परमज्ञानस्य वचनदोषहेतुत्वनिश्चयात्। न हि प्राश्निकापेक्षयोच्यमाने तेषामनवधानं सम्भवति । नापि परिषदविदुषी, येनादोषमपि न जानीयादिति ॥ ८ ॥
प्रमाणलक्षणटीकाभावदीपः
॥ मीमांसकानामिति ॥ स्वतन्त्रमात्रसिद्धमित्यन्वेति ॥ कश्यपतनयेति ॥ भूमिधारणहेतुः पर्वतोऽयमित्यर्थः । त्रिणयतनयः षण्मुखस् तदासनं मयूरशब्दितः शिखी तत्समाननामधेयोऽग्निस् तद्युक्त इत्यर्थः
॥ श्वेत इति ॥ शुक्लो वेगेन गच्छति, श्वा इतो धावति शुद्धं करोति इत्यनेकार्थप्रतीतेः । शौण्डीर्यम् महिमा ॥ उपादीयेतापीति ॥ तादृशप्रयोगो न दोषावह इत्यर्थः । प्राश्निकानामनवधानाद् अस्त्वज्ञानम्, परिषदोऽज्ञत्वाद् अस्त्वज्ञानम् इत्यत आह ॥ न हीति ॥ ८ ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘त्रिभङ्ग्यतरमुक्तेऽपि प्राश्निकैः प्रतिवादिना
वाक्यमज्ञायमानार्थमविज्ञातार्थमुच्यते’’
इति कारिकाऽनुसारेणाविज्ञातार्थं लक्षयति ॥ त्रिवारमुक्तेऽपीति ॥ वादिनेति शेषः । परिषदः प्राश्निकाः ‘परिषत्प्रतिवादिभ्यामविज्ञातार्थम्’ इति सूत्रस्थ-परिषच्छब्दस्य ‘त्रिभङ्ग्यन्तरमुक्तेऽपि प्राश्निकैः प्रतिवादिना’ इति तार्किकरक्षायां प्राश्निकपरतया व्याख्यातत्वाद् इत्यवगन्तव्यम् ।
॥ अविज्ञातार्थबोधकेति ॥ अविज्ञायमानार्थबोधकपदप्रयोग इत्यर्थः । इदमुपलक्षणम् । अन्वितेत्यपि द्रष्टव्यम् । ताभ्यां च विशेषणाभ्यां क्रमेण निरर्थकापार्थकोभयव्यावृत्तिः ।
॥ स्वतन्त्रमात्रसिद्धमिति ॥ स्फ्यकपालेत्यादि ॥ खङ्गाकारः खादिरो यज्ञाऽयुधविशेषः स्फ्यशब्देनोच्यते । कपालं खर्परखण्डः । अश्वशाफमात्रः पिष्टमयो हविर्विशेषः पुरोडाशः । आदिपदेन दशापवित्रद्रोणकलशाऽदेः संग्रहः
॥ कश्यपतनयेत्यादि ॥ ‘पर्वतोऽग्निमान्’ इति वक्तव्ये कश्यपतनयेत्यादि प्रयुज्यते । इदं तु रूढिमनपेक्ष्य केवलयोगेन प्रवृत्तम् । तथा हि, कश्यपतनया भूः । ‘क्षोणी ज्या काश्यपी क्षितिः’ इत्यमरः । तस्या या धृतिर्धारणा । तद्धेतुस् तत्कर्ता भूधरः । त्रिनयनो महारुद्रः । तस्य तनयः षण्मुखः । तदासनं मयूरः । तस्य समानं साधारणं शिखीति नामधेयं यस्य वह्नेः । ‘शिखिनौ वह्निबर्हिणौ’ इति कोशात् । तेन युक्त इत्यर्थः । इत्यादीत्यादिपदेन ‘तद्ध्वजवत्वात्’ इत्यस्य संग्रहः ।
तथा
‘‘गोगजवाहनभोजनभक्षादुद्भवपक्षविपक्षजशत्रोः ।
वाहनवैरिकृतासनजुष्टा पातु शिवा वो जगत्त्रयजुष्टा’’
इत्यादेः संग्रहः । गवा वृषभेन गच्छतीति गोगो रुद्रः । तज्जः षण्मुखः । तस्य वाहनं मयूरः । तस्य भोाजनं सर्पः । तस्य भक्षो भक्ष्यम् आहारो वायुः । तस्मादुद्भवो हनुमान् । तस्य पक्षो रामः । तस्य विपक्षोविरोधी रावणः । तज्ज इन्द्रजित् । तस्य शत्रोरिन्द्रस्य । यद् वाहनं गजः । तद्वैरी सिंहः । तत्कृतं यदासनं सिंहासनम् । तत्र जुष्टा धातूनामनेकार्थत्वात् स्थितेति यावत् । जगत्त्त्रयेण जुष्टा सेविता । शिवा पार्वती । वः पातु इति तदर्थो द्रष्टव्यः ।
॥श्वेत इति ॥ श्वित्री शोधनं करोति, श्वा इतो धावति इत्यादिनानार्थ-प्रतीतेरित्यर्थः । शौण्ड्यं चातुर्यम् । तथा चोभयानुमत्यभावे निग्रहस्थानत्वम् , उभयानुमतौ सत्यां न निग्नहस्थानत्वम् इति भावः ।
नन्वाद्यवद् उत्तरेषां त्रयाणामपि किमनियतं निग्रहस्थानम् ? इत्याशङ्क्याऽह ॥ उत्तरं त्विति ॥ उत्तरत्रिकमित्यर्थः । कुतः ? इत्यत आह ॥ ज्ञापनार्थत्वादिति ॥ तथा च तदभावे अविज्ञातार्थबोधकत्वप्राप्त्या निग्रहस्थानत्वमेवेति भावः ।
ननूत्तरत्रिकस्य सर्वथा अनुपादेयत्वे किं त्रिवारवचननियमेन ? त्रिवार-मुक्तेऽपि प्राश्निकाऽदेरबोधे अविज्ञातार्थत्वमस्तु । अतो लक्षणे त्रिवारमुक्तेऽपीति विशेषणं व्यर्थमित्यत आह ॥ अनवधानाऽदीति ॥ स्वेषामिति शेषः । अनवधानम् मनोव्यासङ्गः । एकवारोक्त्या अबोधस्य वक्तृदोषानिश्चामकत्वाद् इति भावः ।
तर्हि चतुर्वारमप्यभिधानं किं न स्यात् ? इत्यत आह त्रिरितीति ॥ नियमश्चा-पेक्ष्यत इति सम्बन्धः । ततः किम् ? इत्यत आह ॥ ततःपरमिति ॥ त्रिवारोक्त्य-नन्तरमपीत्यर्थः ॥ वचनदोषहेतुत्वेति ॥ वादिप्रयुक्तवचनदोषहेतुकत्वनिश्चयाद् इत्यर्थः । ननु त्रिवारोक्त्यनन्तरमपि प्राश्निकानामनवधानं किं न स्यात् ? अतस्त्रिवाराद् अधिकमपि वक्तव्यमेवेत्यत आह ॥ न हीति ॥ प्राश्निकापेक्षयेति ॥ प्राश्निकान् अभिमुखीकृत्येत्यर्थः ।
ननु वादिवचनमदुष्टमेव । तथाऽपि प्राश्निकानामज्ञानित्वेन वादिना त्रिवारमुक्तेऽपि तदज्ञानास्य कथं वादिदोषविनिश्चायकत्वम् ? इत्यत आह ॥ नापीति ॥ प्राश्निकोऽज्ञानी न हीत्यर्थः ।
॥ अदोषमपीति ॥ भूयो भूयः सम्यगुक्तमपीत्यर्थः । तथात्वे प्राश्निकत्वमेव न स्यादिति भावः । यथोक्तमनुव्याख्याने स्युः सभ्याः सर्ववेदिनः ॥ प्राश्निकाश्च इति । तथा च अनवधानाऽदिशङ्कानिवारणाय त्रिरिति नियमस्य प्राश्निकैरपेक्षणात् सकृदुक्ताविज्ञातार्थव्यावृत्यर्थं त्रिवारमुक्तेऽपीत्युक्तमिति विशेषणकृत्यमनेनोक्तं भवतीति ज्ञातव्यम् ॥ ८ ॥
प्रमाणलक्षणटीकाविवरणम्
अविज्ञातार्थं लक्षयति ॥ त्रिवारमिति ॥ वादिनेति शेषः । वादिना त्रिवारमुक्तेऽपि परिषदा प्रतिवादिना चाविज्ञातो योऽर्थस्तस्य बोधकानि यानि पदानि तेषां प्रयोगेऽविज्ञातार्थमित्यर्थः ॥ स्वतन्त्रेति ॥ स्वस्य तंत्रं सिद्धांतस् तन्मात्रे सिद्धमित्यर्थः ॥ निर्णायकाभावेनेति ॥ प्रकरणरूपाणीति शेषः ।
आद्यमुदाहरति ॥ स्फर्य इति ॥ स्वड्गाकारः खादिरो आयुधविशेषस्य कपालं खर्परखंडः । पुरोडाश अश्वशफमात्रः पिष्टमयो हविर्विशेषः । आदिपदेन दशपवित्रद्रोणकलशादीनां सङ्ग्रहः । इदं मीमांसकसिद्धांतमात्रसिद्धमिति भावः। उपलक्षणं चैतद् बौद्धमते पंचस्कंधादिकमपि स्वतंत्रमात्रसिद्धमित्यपि द्रष्टव्यम्।
द्वितीयमुदाहरति ॥ द्वितीय इति ॥ कश्यपतनया पृथिवी तस्या धृतिर्धारणं तस्य हेतुभूधरः पक्षस् त्रिनयनो महादेवस् तस्य तनयः षण्मुखस् तस्यासनं मयूरस् तेन समानं नामधेयं शिखीति । तद्युक्त इत्यर्थः ॥ श्चेत इति ॥ अत्रापि प्रकरणा-दिरूपनिर्णायकाभावे श्वेतो धावतीति वा श्चेतः कुष्ठः धावतीति वाऽर्थो न ज्ञायत इत्यर्थः । तत्र स्वतंत्रमात्रसिद्धस्याद्यस्य प्रभेदस्य निग्रहस्थानत्वमनियतमित्याह ॥ अत्रेति ॥ शौण्डीर्यं नाम चातुर्यम् ।
नन्वेवमाद्यवदुत्तरयोरपि किमनियतं निग्रहस्थानत्वं ? नेत्याह ॥ उत्तरं त्विति ॥ तत्र हेतुमाह ॥ ज्ञापनेति ॥ ननु सर्वथा तस्यानुपादयत्वे किं त्रिवारवचनेन ? एकवारं वचने उक्ते अविज्ञातार्थं कुतो नोद्भाव्यत इत्यत आह अनवधानादिति ॥ प्रश्निकैः स्वदोषशङ्कानिरासार्थं पुनर्वचनमपेक्ष्यत इत्यर्थः । आदिपदमबोध-विपरीतबोधयोर्ग्राहकम् । एवं चेत् किं त्रिवाराभिधाननियमेन चतुर्वारमपि किं न स्यादित्यत आह ॥ त्रिरिति ॥ नियमश्चेति ॥ प्राश्निकैरिति ॥ अपेक्षत इति शेषः। कुत इत्यतस्तावन्मात्रेण परिषदः स्वदोषशङ्कानिरासादित्याह ॥ ततः परमिति ॥ ननु त्रिवारमुक्तेऽपि परिषदोऽनवधानादेव तदवनबोधः किं न स्यादित्यत आह ॥ नहीति ॥ ननु परिषदो ऽज्ञानित्वात्तदनवबोध इत्यत आह ॥ नापीति ॥ ८