०८ निरर्थकम्

अबोधकशब्दप्रयोगो निरर्थकम्

निरर्थकम्

प्रमाणलक्षणटीका

अबोधकशब्दप्रयोगो निरर्थकम् । तच्च बहुप्रकारम् ।

कचटतपेत्यादिमातृकापाठमात्रं लिङ्गविभक्तिवर्णविपर्यासः कृत्तद्धितसमासाऽख्यातविपर्यासः भाषाऽन्तरसङ्करश्चेत्यादि ।

कथञ्चिज् ज्ञापकत्वात् कथमेतन्निग्रहस्थानमिति चेन्मैवम्। नहि कथञ्चिज्ज्ञापकत्वं शब्दधर्मः प्रकरणाऽदिनैव तत्र ज्ञानोदयात् । भाषाऽन्तरसङ्करोऽपि समसमयत्वाभावे निग्रह-स्थानम्। अन्यथा ज्ञानसङ्गूहनार्थं स्वभाषया प्रत्यवतिष्ठमानं प्रति तदनभिज्ञस्योत्तराभावप्रसङ्ादिति ॥ ७ ॥

प्रमाणलक्षणटीकाभावदीपः

लिङ्गेति ॥ विपर्यासपदं प्रत्येकमन्वेति ॥ कथञ्चिदिति ॥ ‘घटं तिष्ठति’ इत्याद्युक्तावपि अर्थबोधदर्शनाद् इति भावः । तत्र जायमानो बोधो न शब्दजन्य इत्याह ॥ प्रकरणाऽदिनेति ॥ ‘घट’ इत्यादिरनुमितः शब्दआदिपदार्थः॥ समसमयत्वेति ॥ वादिप्रतिवादिनोर्द्वयोरपि समसङ्केतत्वाभाव इत्यर्थः। अन्यतरस्य भाषापरिज्ञानाभाव इति यावत् ॥ अन्यथेति ॥ तस्य पराजयहेतुत्वाभाव इत्यर्थः।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘अवाचकप्रयोगे स्यान्निरर्थकसमुद्भवः’’

इति कारिकाऽनुसारेण निरर्थकं लक्षयति ॥ अबोधकशब्देति ॥ मातृकापाठेति ॥ अक्षरपाठेत्यर्थः ॥कथञ्चिदिति ॥ तत्वाप्रतिपत्तिलिङ्गत्वरूपनिग्रहस्थानलक्षणा-भावादित्यर्थः ॥ न हीति ॥ किं तु ? सम्याज्ञापकत्वमेव । तत्तु कचटतपेतिमातृका-पाठलिङ्गविपर्यासाऽदिभिर्न भवत्येवेति तत्वाप्रतिपत्तिलिङ्गत्वाद् युक्तं निग्रह-स्थानत्वमिति भावः । ननु कथञ्चिज्ज्ञापकत्वस्य शब्दधर्मत्वाभावे कथञ्चिज्ज्ञानमपि तत्र कथं भवति ? इत्यत आह ॥ प्रकरणाऽदिनैवेति ॥ न तु शब्देनेत्यर्थः ।

ननु भाषान्तरसङ्करस्य निग्रहस्थानत्वे वादिप्रतिवादिनोः परस्परं भाषाऽभि-ज्ञयोर्यत्र ‘स्वस्वभाषयैव कथनीयम्’ इति समयबन्धेन कथाप्रवृत्तिस्तत्रापि निग्रहस्थानं स्याद् इत्यत आह ॥ भाषाऽन्तरसङ्करोऽपीति ॥ समसमयः ‘स्वस्वभाषयैव कथनीयम्’ इति सङ्केतबन्धः । समसमयत्वदशायां तु न निग्रहस्थानत्वमिति भावः।

॥ अन्यथेति ॥ समसमयत्वाभावदशायामपि निग्रहस्थानत्वानङ्गीकार इत्यर्थः। समसमयत्वाभावदशायामिति शेषः । तदनभिज्ञस्य । तदीयभाषानभिज्ञस्य प्रतिवादिनः ॥ उत्तराभावप्रसङ्गादिति ॥ तदनमिज्ञः ‘त्वया भाषाऽन्तर-सङ्करकरणान् मम तदज्ञानात् तव निरर्थकं नाम निग्रहस्थानम्’ इति उत्तरं वदति । तन्न स्याद् इत्यर्थः । तथा च समसमयत्वाभावे निग्रहस्थानं भवत्येवेति भावः ॥ ७।

प्रमाणलक्षणटीकाविवरणं

निरर्थकं लक्षयति ॥ अबोधकेति ॥ ननु भाषांतरसङ्करस्य कथं निग्रहस्थानत्वमित्यत आह ॥ भाषेति ॥ समसंकेतभाव इत्यर्थः । निग्रह-स्थानत्वाभावे दूषणमाह ॥ अन्यथेति ॥ समसंकेतत्वाभावेऽपि निग्रह-स्थानत्वानङ्गीकार इत्यर्थः ।

अयमाशयः – शब्दप्रयोगो हि परस्यार्थज्ञानार्थं क्रियते । अन्यप्रयोजनाभावात्। तथाच स्वभाषया प्रत्यवस्थाने परस्य तद्भानाभावेन शब्दप्रयोजनाभावेन तत्प्रयोगस्य वैय्यर्थ्यं स्यादिति भावः ।