०७ अर्थान्तरम्

प्रकृतानुपयुक्तान्वितोक्तिरर्थान्तरम्

अर्थान्तरम्

प्रमाणलक्षणटीका

प्रकृतानुपयुक्तान्वितोक्तिरर्थान्तरम् । तच्चतुर्विधम् । स्वपरोभयानुभयमतरीतिभेदात् ।

तत्र स्वमतेन नैयायिकस्य मीमांसकं प्रति यथा ‘शब्दोऽनित्यः स चाऽकाशविशेषगुणः’ इति ।

परमतेन यथा ‘द्रव्यं’ इत्यादि ।

उभयमतेन यथा ‘श्रोत्रग्राह्योऽसौ’ इत्यादि ।

अनुभयमतेन यथा ‘गन्धाऽदिभिः समानाऽश्रयोऽसौ’ इत्यादि।

अत्र न्यूनाऽदिसंभवेऽपि तस्योक्तग्राह्यत्वादस्य चोच्यमान-ग्राह्यत्वेन प्रथमप्राप्तत्वाद् इदमेवोद्भाव्यमिति ॥ ६ ॥

प्रमाणलक्षणटीकाभावदीपः

साधूत्तरेऽनतिव्याप्तये प्रकृतानुपयुक्तेत्युक्तिः । अन्वितोक्ति-रूपाधिकनिग्रहस्थानेऽनतिव्याप्तये वा तदुक्तिः । तादृशलौकिकवाक्येऽनति-व्याप्तयेऽन्वितेति । ‘द्रव्यं शब्दः’ इत्यादौ ‘शब्दोऽनित्यः’ इति प्रतिज्ञाऽनुवृत्तिर्ज्ञेया। ॥ न्यूनाऽदीति ॥ कृतकत्वाऽदिहेत्वाद्यनुपन्यासे न्यूनता । तदुपन्यासे च आकाशगुणत्वाऽदिना व्याप्यत्वाभाव इति दोषान्तरसम्भवेऽपीत्यर्थः । यद्वा आधिक्यम् आदिपदार्थः ॥ उक्तेति ॥ वक्तव्यस्य सर्वस्योक्तिसमाप्त्यनन्तरं ग्राह्यत्वाद् अस्य उक्तिसमय एव ग्राह्यत्वाद् इत्यर्थः ॥ ६ ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘प्रकृतानुपयुक्तोक्तिरर्थान्तरमिति स्थितिः’’

इति कारिकाऽनुसारेणार्थान्तरं लक्षयति ॥ प्रकृतेति ॥ आधिक्ये अतिव्याप्तिपरिहाराय प्रकृतानुपयुक्तेति विशेषणम् । अपार्थकव्यावृत्तये अन्वितेति विशेषणं द्रष्टव्यम् । कुण्डम् अजाजिनम् इत्यादिवद् अनन्वितं न भवतीत्यर्थः ।

॥ स्वपरेति ॥ स्वमतरीतिः परमतरीतिर् उभयमतरीतिर् अनुभयमतरीतिश्चेेति भेदाद् इत्यर्थः । द्रव्यं श्रोत्रेत्यादौ ‘शब्दोऽनित्यः’ इत्यनुवर्तते ॥ गन्धाऽदिभिरिति ॥ आकाशे गन्धरसाऽदीनां वादिप्रतिवादिभ्यामनङ्गीकारेण शब्दे तत्सामानाधि-करण्याभावाद् इति भावः ।

ननु ‘शब्दोऽनित्यः, स चाऽकाशविशेषगुणः’ इत्यादौ हेत्वाद्यनभिधानेन न्यूनताऽऽदेरपि सम्भवात् तस्यैवोद्भाव्यत्वोपपत्तौ किम् अर्थाऽन्तरेण ? इत्यत आह ॥ अत्रेति ॥ अर्थाऽन्तरोदाहरणस्थल इत्यर्थः । तस्य न्यूनताऽदेः ॥ उक्तग्राह्यत्वादिति ॥ उक्ते सति उक्त्यनन्तरमिति यवत् । ग्राह्यत्वाद् उद्भाव्यत्वाद् इत्यर्थः ॥ अस्य चेति ॥ अर्थान्तरस्य चेत्यर्थः ॥ उच्यमानग्राह्यत्वेनेति ॥ उच्यमानदशोद्भाव्यत्वाद् इत्यर्थः । यथाऽऽहुः

‘‘उक्तग्राह्याः केचिदन्येऽनुक्तग्राह्यास्तथा परे ।

उच्यमानदशाग्राह्या इति कालस्त्रिधा मतः’’ इति ।

प्रथमप्राप्तत्वात् पुरःस्फूर्तिकत्वात् ॥ ६ ॥

प्रमाणलक्षणटीकाविवरणम्

अर्थान्तरं लक्षयति ॥ प्रकृतानुपयुक्तेति ॥ प्रकृतेऽनुपयुक्तान्वितस्य उक्तिरर्थांतरमिति ॥ स्वेति ॥ स्वमतरीतिः, परमतरीतिः, उभयमतरीतिः, अनुभयमतरीतिश्चेति भेदादित्यर्थः ।

॥ शब्द इति ॥ शब्दस्याऽकाशगुणत्वं हि तार्किकमतरीतिसिद्धमिति भावः । गन्धादिभिरिति गंधादिभिः समानाश्रयत्वस्य वादिप्रतिवादिभ्यामनङ्गीकारादिति भावः ।

ननु संभावतोऽप्यर्थांतरस्य कथम् उद्भाव्यत्वं ? न्यूनादेः संभवादित्यत आह ॥ अत्रेति ॥ पुरस्फूर्तिकत्वादिदमेवोद्भाव्यं, अन्यथा प्राप्तावसरस्यानुद्भावने पर्यनुयोज्योपेक्षेणं नाम निग्रहस्थानं स्यादिति भावः ॥ ६ ॥