०६ हेत्वन्तरम्

दोषपरिजिहीर्षया निर्दिष्टसाधकांशे अधिकप्रक्षेपो हेत्वन्तरम्

हेत्वन्तरम्

प्रमाणलक्षणटीका

दोषपरिजिहीर्षया निर्दिष्टसाधकांशे अधिकप्रक्षेपो हेत्वन्तरम् ।

हेतुर् उदाहरणे प्रयोजकभाग उपनय इति साधकांशः । तद् द्विविधं साधनदूषणनिष्ठभेदात् । सर्वं स्वरूपतो विशेषतश्चेतिद्वेधा ।

तत्राऽद्यं यथा,हेत्वाद्यप्रयोगे न्यूनत्वोद्भावने तदुपादानम् ।

द्वितीयमपि दोषप्रतीकाराप्रतीकाराभ्यां दोषसदसद्भावाभ्यां च द्वेधा ।

तत्र साधने हेतौ सद्दोषपरिहारहेतुर्यथा ‘शब्दोऽनित्य ऐन्द्रियकत्वात्’ इत्यत्रानैकान्तिकत्वेन दूषिते सामान्यवत्वे सतीति ।

उदाहरणे प्रयोजकभागे यथा ‘ऐन्द्रियकः सोऽनित्यः’ इत्यत्र न्यूनत्वेऽभिहिते पूर्ववद् विशेषणम् ।

उपनये यथा ‘तथा चायमैन्द्रियकः’ इत्युक्ते पूर्ववद् विशेषणम्।

दूषणे हेतौ यथा ‘नायं साध्यसाधकः सपक्षे सत्वात्’ इत्यत्र व्यभिचारेण प्रत्युक्ते ‘विपक्षवृत्तित्वे सति’ इत्यादि ।

सद्दोषाप्रतीकारो यथा ‘शब्दोऽनित्य ऐन्द्रियकत्वात्’ इत्यत्र अनैकान्तिकत्वोद्भावने ‘प्रमेयत्वे सति’ इत्यादि ।

असद्दोषप्रतीकारो यथा ‘पर्वतोऽग्निमान् धूमवत्वात्’ इत्यत्र महानसे व्यभिचार इत्युक्ते ‘तदन्यत्वे सति’ इत्यादि ।

असद्दोषाप्रतीकारो यथा तत्रैव ‘प्रमेयत्वे सति’ इत्यादि ।

अत्र हेत्वाभासाऽदिसम्भवेऽपि तस्य साध्यत्वात् सिद्धं हेत्वन्तरमेवोद्भाव्यमिति ॥ ५ ॥

प्रमाणलक्षणटीकाभावदीपः

विशेषतो विशेषणत इत्यर्थः ॥ हेत्वादीति ॥ आदिपदेन उदाहरणे प्रयोजकभाग उपनयश्च ग्राह्यः ॥ द्वितीयमिति ॥ साधने दूषणे च विशेषणतो हेतुप्रक्षेपरूपमित्यर्थः ।

॥ द्वेधेति ॥ सद्दोषपरिहारहेतुस् तदहेतुश्च, असद्दोषपरिहारहेतुस् तदहेतुश्च इति पक्षे हेतुविशेषणप्रक्षेपश्चतुर्धा । दृष्टान्ते उपनयेप्येवमिति द्वादशधा इत्युक्तं भवति । प्रमेयत्वे सतीत्यादीत्यादिपदस्य उदाहरणोपनययोरेवं ज्ञेयमित्यर्थः ॥ हेत्वाभासाऽदीति ॥ असिद्ध्यादिहेत्वाभाससम्भवेऽपीत्यर्थः । आदिपदेन कथान्तरत्वासङ्गतत्वन्यूनत्वाऽदिग्रहः ॥ साध्यत्वादिति ॥ हेत्वन्तरोद्भावनादिति भावः ॥ ५ ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘हेत्वन्तरं साधकांशे दूषिते तद्विशेषणम्’’

इति कारिकाऽनुसारेण हेत्वन्तरं लक्षयति ॥ दोषेति ॥ प्रतिज्ञाऽन्तरव्यावृत्तये साधकांश इत्युक्तम् । कः साधकांशः ? इत्यत आह ॥ हेतुरिति ॥ प्रयोजकभाग इति ॥ ‘यो यो धूमवान्’ इत्ययमंश इत्यर्थः ।

॥ साधनेति ॥ साधनानुमानगतप्रयोजकांशगतं हेत्वन्तरमेकमित्यर्थः ॥ दूषणेति ॥ परप्रतिक्षेपरूपानुमानगतप्रयोजकांशनिष्ठं हेत्वन्तरं द्वितीयमित्यर्थः । सर्वं द्विविधमपि हेत्वन्तरम् । आद्यं स्वरूपतो हेत्वन्तरम् । द्वितीयं विशेषतो हेत्वन्तरम् । प्रतीकारः परिहारः ।

॥ दोषसदसद्भावाभ्यां च द्वेधेति ॥ एवं सति सद्दोषपरिहारहेतुस् तदहेतुश्च असद्दोषपरिहारहेतुस् तदहेतुश्च इत्येवं चतुर्विध इत्यर्थः । साधने साधनानुमाने । हेतौ हेतुरूपे साधकांशे । सद्दोषपरिहारेतुर् अधिकप्रक्षेप इति शेषः ।

॥ अनैकान्तिकत्वेनेति ॥ सामान्ये इति शेषः ॥ सामान्यवत्वे सतीति ॥ सामान्यवत्वे सत्यैन्द्रियकत्वस्य पूर्वहेत्वपेक्षया विशेषहेत्वन्तरमेव, विशेषणभेदन विशिष्टभेदसद्भावादिति भावः । दूषणे परप्रतिक्षेपरूपानुमाने । हेतौ हेतुरूपे साधकांशे ॥ व्यभिचारेणेति ॥ धूमानुमान इत्यर्थः ॥ तत्रैवेति ॥ धूमानुमान एव महानसे व्यभिचारपरिहारायेत्यर्थः ।

ननु सद्दोषाप्रतीकारस्थले ‘शब्दोऽनित्य ऐन्द्रियकत्वात्’ इत्यत्र सामान्ये अनैकान्तिकत्वद्भावने ‘प्रमेयत्वे सति’ इति विशेषणं दीयते । तत्र हेत्वन्तरं कस्माद् उद्भावनीयम् ? सामान्ये पुनरनैकान्त्येन व्यर्थविशेषणासिद्ध्यादिरूपहेत्वा-भासस्यापि सम्भवेन तस्याप्युद्भावनसम्भवाद् इत्यत आह ॥ अत्रेति ॥ सद्दोषाप्रतीकारस्थल इत्यर्थः ।

॥ तस्य साध्यत्वादिति ॥ ‘प्रमेयत्वे सति’ इति हेत्वन्तरस्य कृतत्वादेव हि अनैकान्त्याऽदिरूपहेत्वाभासप्राप्तिः , नान्यथा । अतो हेत्वन्तररूपनिग्रहस्थानेन हेत्वाभासस्य साध्यत्वात् हेत्वन्तरस्य च सिद्धत्वेन पुरःस्फूर्तिकत्वात् तदेवोद्भाव्यमित्यर्थः ॥ ५ ॥

प्रमाणलक्षणटीकाविवरणम्

अथ हेत्वंतरं लक्षयति ॥ दोषेति ॥ अन्यत् पूर्ववत् । ननु सद्दोषाप्रतीकारस्थले शब्दो नित्यो ऐन्द्रियकत्वादित्यत्र सामान्येनैकान्तिकत्वोद्भावने प्रमेयत्वे सतीति विशेषणं दीयते तत्र हेत्वन्तरं कस्मादुद्भावनीयम् । सामान्ये पुनरनैकान्त्यस्य व्यर्थविशेषणसिद्ध्र्यादिरूपहेत्वाभासस्यापि सम्भवेन तस्याप्युद्भावसम्भवादित्यत आह ॥ अत्रेति ॥ सद्दोषाप्रतीकारस्थल इत्यर्थः ।

॥ तस्य साध्यत्वादिति ॥ प्रमेयत्वे सतीति हेत्वन्तरस्य कृतत्वादेव ह्यनैकान्त्यादिरूपहेत्वाभासप्राप्तिर् नान्यथा, हेत्वन्तररूपनिग्रहस्थानेन हेत्वाभासस्य साध्यत्वात्। हेत्वन्तरं च सिद्धत्वेन पुरस्फूर्तिकत्वात् तदेवोद्भाव्यमित्यर्थः ॥ ५ ॥