०४ प्रतिज्ञाविरोधः

एकवाक्ये अवान्तरवाक्यानां पदानां च मिथो व्याघातः प्रतिज्ञाविरोधः

प्रतिज्ञाविरोधः

प्रमाणलक्षणटीका

एकवाक्ये अवान्तरवाक्यानां पदानां च मिथो व्याघातः प्रतिज्ञाविरोधः । स च बहुप्रकारः ।

तत्र प्रतिज्ञायां धर्मिपदयोर्यथा ‘श्रोतृत्वे सति बधिरः’ इति ।

साध्यपदयोर्यथा ‘विमतो बधिरत्वे सति श्रोता’ इति ।

धर्मिसाध्यपदयोश्चतुर्विधः । तत्र धर्मविधानाद्यथा ‘मूको वक्ता’ इति ।

तन्निषेधाद्यथा ‘प्रमेयं न प्रमाणसापेक्षम्’ इति । धर्मिविधानाद् यथा ‘अतीतमस्ति’ इति । तन्निषेधाध्यथा‘वर्तमानं नास्ति इति । हेतुपदयोर्यथा ‘मूकत्वे सति वक्तृत्वात्’ इति । उदाहरणे साधनपदयोर्हेतुपदवत् । साध्यपदयोः प्रतिज्ञायामिव। परस्परं तु प्रतिज्ञाहेतुविरोधवत् । दृष्टान्तधर्मिणि साध्यधर्मिवत् । साध्य-धर्मिपदयोः प्रतिज्ञायामिव चतुर्विधः । उपनयपदयोर्हेतुपदवत्। निगमने प्रतिज्ञावत् । हेत्वंशेन विरोधः प्रतिज्ञाहेतुविरोधवत्।

प्रमाणलक्षणटीकाभावदीपः

भिन्नभिन्नवाक्येषु अस्ति नास्ति इत्यादिषु अनतिव्याप्त्यर्थ-मुक्तम् एकवाक्य इति । अव्याप्तिनिरासायावान्तरवाक्यानां पदानां च ग्रहणम् ॥ श्रोतृत्वे सति बधिर इति ॥ धर्मिनिर्देशोऽयम् । ‘चेतनो भवितुमर्हति ज्ञानित्वात्’ इति साध्याऽदिकमूह्यम् ॥ प्रमेयमिति ॥ प्रमाणविषय इत्यर्थः

॥ हेतुपदवदिति ॥ ‘यो मूकत्वे सति वक्ता स चेतनः यथा मैत्रः’ इत्येवमित्यर्थः ॥ प्रतिज्ञायामिवेति ॥ ‘यश्चेतनः स बधिरत्वे सति श्रोता’ इत्येवमित्यर्थः ॥ परस्परं त्विति ॥ साध्यहेत्वोरित्यर्थः ‘यद् गुणव्यतिरिक्तं ‘यद् गुणव्यतिरिक्तं तत् तदव्यतिरिक्तं यथा तद्व्यतिरिक्तं द्रव्यम्’ इति वक्ष्यमाणदिशा ज्ञेयमित्यर्थः

॥ साध्यधर्मिवदिति ॥ ‘श्रोतृत्वे सति बधिरवत्’ इत्येवमित्यर्थः ॥ प्रतिज्ञायामिव चतुर्विध इति ॥ उदाहरण इति सर्वत्रानुषज्यते । धर्मविधानात् ‘मूको वक्ता’ इतिवदिति, तन्निषेधात् ‘प्रमेयं न प्रमाणसापेक्षम्’ इतिवदिति, ‘अतीतमस्ति’ इतिवदिति, ‘वर्तमानं नास्ति’ इतिवदित्येवं चतुर्विधो ज्ञेय इति भावः। ॥ हेतुपदवदिति ॥ ‘तथा चायं मूकत्वे सति वक्ता’ इत्येवमित्यर्थः ॥ प्रतिज्ञावदिति ॥ ‘बधिरत्वे सति श्रोता’ इत्येवमित्यर्थः ॥ हेत्वंशेनेति ॥ वक्ष्यमाण एवेति भावः।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘पदयोर्वाक्ययोर्वाऽपि एकवक्तृकयोर्मिथः ।

व्याघातो निग्रहस्थानं सत्प्रतिज्ञाविरोधतः’’

इति कारिकाऽनुसारेण प्रतिज्ञाविरोधं लक्षयति ॥ एकवक्तृक इति ॥ मिथो विरुद्धे भिन्नकर्तृकवाक्येऽतिव्याप्तिपरिहारायोक्तम् एकवक्तृक इति । महा-वाक्येऽवान्तरवाक्यानामवान्तरवाक्ये पदानां मिथो व्याघात इति विशदनार्थमुक्तम् । वस्तुतस्तु एकवक्तृकमिथोविरुद्धवाक्यत्वमेव लक्षणं द्रष्टव्यम् ।

तत्रावान्तरवाक्यगतपदयोर्मिथो व्याघातं तावदुदाहरति ॥ तत्रेत्यादिना ॥ तत्र बहुप्रकारमध्ये ॥ श्रोतृत्वे सतीति ॥ ‘श्रोतृत्वे सति बधिरः’ पक्ष इत्यर्थः ॥ धर्मिसाध्यपदयोरिति ॥ प्रतिज्ञायां धर्मिपदसाध्यपदयोर्विरोधो धर्मविधानाद् धर्मनिषेधाद् धर्मिविधानाद् धर्मिनिषेधाच्च चतुविध इत्यर्थः ॥ प्रमेयमिति ॥ प्रमाणविषयस्यैव प्रमेयत्वेन प्रमेयपदेनैव प्रमाणसापेक्षत्वप्राप्त्या तस्मिन् प्रमेये प्रमाणसापेक्षत्वरूपधर्मनिषेधप्रतिज्ञायां धर्मिपदसाध्यपदयोर् विरोधः प्राप्त इत्यर्थः।

॥ हेतुपदवदिति ॥ ‘मूकत्वे सति वक्तृत्वात्’ इति हेतुपदविरोधवद् उदाहरणेऽपि ‘यो यो मूकत्वे सति वक्ता’ इत्येव साधनपदयोर्विरोधो द्रष्टव्य इत्यर्थः ॥ प्रतिज्ञायामिवेति ॥ ‘विमतः श्रोतृत्वे सति बधिरः’ इति प्रतिज्ञान्तर्गतसाध्य-पदयोर्विरोधो द्रष्टव्य इत्यर्थः । ॥ परस्परं त्विति ॥ साध्यसाधनपदयोरित्यर्थः ।

॥ प्रतिज्ञाहेतुविरोधवदिति ‘द्रव्यं गुणव्यतिरिक्तम् अव्यतिरिक्तत्वाद् इत्यत्र प्रतिज्ञाहेत्वोर्विरोधवद् उदाहरणेऽपि ‘यद् यदव्यतिरिक्तं तत् तद्व्यतिरिक्तम्, इत्येवं साध्यसाधनपदयोः परस्परं विरोधो द्रष्टव्य इत्यर्थः । दृष्टान्तधर्मिणि दृष्टान्तरूपे धर्मिणि ।

॥ साध्यधर्मिवदिति ॥ साध्यधर्मी पक्षस् तत्र पदविरोधवदित्यर्थः । यथा ‘श्रोतृत्वे सति बधिरः पक्षः’ इत्यत्र साध्यधर्मिभूतपक्षपदयोर्विरोध एवमुदाहरणेऽपि ‘य एतादृशः स एतादृशः, यथा श्रोतृत्वे सति बधिरः’ इत्येवं दृष्टान्तरूपधर्मिपदयोर्विरोधो द्रष्टव्यः ।

॥ साध्यधर्मिपदयोरिति ॥ उदाहरणे साध्यपददृष्टान्तरूपधर्मिपदयोर् विरोधस्तु प्रतिज्ञायामिव धर्मधर्मिविधानतन्निषेधाभ्यां चतुर्विध इत्यर्थः । तथा हि । उदाहरणे धर्मविधानात् साध्यधर्मिपदयोर्विरोधो यथा ‘य एतादृशःसवक्ता, यथा मूकः’ इति ।

तन्निषेधाद्यथा ‘यद् एतादृशं तन् न प्रमाणसापेक्षम् , यथा प्रमेयम्’ इति । उदाहरणे धर्मविधानात् साध्यधर्मिपदयोर्विरोधो यथा ‘यद् एतादृक् तद् अस्ति, यथाऽतीतम्’ इति । तन्निषेधाद् यथा ‘यद् एतादृक् तन् नास्ति यथा वर्तमानम्’ इत्येवं द्रष्टव्यम् ॥ हेतुपदवदिति ॥ श्रोतृत्वे सति बधिरत्वात्’ इति हेतुपदयोर्यथा विरोध एवं ‘तथा चायं श्रोतृत्वे सति बधिरः’ इत्युपनयान्तर्गतपदयोर्विरोधो द्रष्टव्य इत्यर्थः ।

॥ प्रतिज्ञावदिति ॥ यथा ‘बधिरत्वे सति श्रोता’ इति प्रतिज्ञापदयोर्विरोध एवं ‘तस्मात् श्रोतृत्वे सति बधिरः’ इति निगमनान्तर्गतपदयोर्विरोधो द्रष्टव्य इत्यर्थः।

॥ हेत्वंशेनेति ॥ निगमने साध्यांशस्येति शेषः । यथा ‘द्रव्यं गुणव्यतिरिक्तम् अव्यतिरिक्तत्वात्’ इत्यत्र प्रतिज्ञाहेत्वोर्विरोध एवं ‘तस्माद् अव्यतिरिक्तत्वाद् व्यतिरिक्तमेव’ इति निगमनेऽपि साध्यांशस्य हेत्वंशेन विरोधो द्रष्टव्य इत्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

प्रतिज्ञाविरोधलक्षणमाह ॥ एकवक्तृक इति ॥ उदाहरणे साधनपदयोर्विरोधो हेतुपदविरोधवज् ज्ञातव्य इत्याह ॥ उदाहरण इति ॥ तद् यथा मूकत्वे सति वक्तृत्वादिति हेतुपदविरोधवदित्यर्थः ।

॥ साध्यपदयोरिति ॥ विमतः श्रोतृत्वे सति बधिरो यथा मूक इति दृष्टांते साध्यगतपदर्योर्विरोधः, विमतः श्रोतृत्वे सति बधिर इति । अत्र प्रतिज्ञांतर्गतपद विरोधवज् ज्ञातव्य इत्यर्थः।

॥ परस्परं त्विति ॥ दृष्टांते साध्यसाधनपदयोर्विरोधः । द्रव्यं गुणव्यतिरिक्तम् अव्यतिरिक्तत्वादिति प्रतिज्ञाहेतुविरोधवज् ज्ञातव्यः ।

॥ यथा श्रोतृत्वे सति बधिर इति ॥ दृष्टांतधर्मिणि विरोधः विमतः श्रोतृत्वे सति बधिरः पक्ष इति साध्यधर्मिवद्विरोधः । साध्यधर्मिपदयोरिति ॥ दृष्टांत इति शेषः । धर्मविधानादित्युक्तप्रकारेण चतुर्विधः।

॥ उपनयपदयोरिति ॥ श्रोतृत्वे सति बाधिरत्वादिति हेतुपदविरोधवद् उपनयांतर्गतपदयोरविरोधो बोध्यः ।

॥ निगमन इति ॥ निगमनांतर्गतपदयोर्विरोधः प्रतिज्ञाविरोधवत् ॥ हेत्वंशेनेति ॥ निगमनस्येति शेषः । उपपादितमेतत् ।