०३ प्रतिज्ञाऽन्तरम्

दोषपरिजिहीर्षया निर्दिष्टसाध्यभागेऽधिकप्रक्षेपः प्रतिज्ञाऽन्तरम्

प्रतिज्ञाऽन्तरम्

प्रमाणलक्षणटीका

दोषपरिजिहीर्षया निर्दिष्टसाध्यभागेऽधिकप्रक्षेपः प्रतिज्ञाऽन्तरम् ।

प्रतिज्ञा उदाहरणे प्रयोज्यभागः निगमनं चेति साध्यभागः । द्विविधं चेदं दोषपरिहारहेतुस् तदहेतुश्चेति ॥

दोषसदसद्भावाभ्यां पुनर्द्विविधम् ।

तत् प्रतिज्ञायां चतुर्विधम् । पक्षतद्विशेषणसाध्यतद्विशेषण-प्रक्षेपभेदात् ।

पक्षप्रक्षेपोऽपि द्वेधा । स्वरूपतः पक्षान्तरतश्चेति । एवं साध्य-प्रक्षेपोऽपि ।

तत्र सद्दोषपरिहारार्थमाद्यं यथा ‘अनित्यः कृतकत्वात्’ इत्यत्र न्यूनतया प्रत्युक्ते ‘शब्दोऽनित्य’ इति ।

द्वितीयं यथा ‘शब्दोऽनित्य ऐन्द्रियकत्वात्’ इत्यत्र सामान्येनानैकान्तिकत्वेऽभिहिते ‘तदपि पक्ष’ इति ।

तृतीयं यथा, तत्रैव ध्वनिभिः सिद्धसाधनत्वोद्भावने ‘वर्णात्मकः शब्दः पक्ष’ इति ।

चतुर्थं यथा ‘शब्दः कृतकत्वात्’ इत्यत्र न्यूनतया प्रत्युक्ते ‘शब्दोऽनित्य’ इति ।

पंचमं यथा ‘पर्वतोऽग्निमान् सुरभिमलिनधूमवत्वात्’ इत्यत्र विशेषणासामर्थ्येऽभिहिते ‘साग्निकृष्णागरुमान्’ इति।

षष्ठं यथा ‘क्षित्यादिकं कारणपूर्वकं कार्यत्वात्’ इत्यत्र सिद्धसाधनत्वोक्तौ उपादानाऽदिबुद्धिमत्कारणपूर्वकमिति ।

प्रमाणलक्षणटीकाभावदीपः

हेत्वन्तरेऽनतिव्याप्तये निर्दिष्टसाध्यभाग इत्युक्तम् ॥ प्रतिज्ञेति ॥ साध्यभाग इत्यन्वेति ॥ इदमिति ॥ प्रतिज्ञान्तरमित्यर्थः ।

॥ एवं साध्यप्रक्षेपोऽपीति ॥ तथा चायमर्थः । सद्दोषपरिहारहेतुः पक्षे धर्मिस्वरूपप्रक्षेप आद्यः, तादृशो धर्म्यन्तरप्रक्षेपोर् द्वितीयः, तादृशधर्मिविशेषण-प्रक्षेपस्तृतीयः, तादृशः साध्यस्वरूपप्रक्षेपश्चतुर्थः, तादृशः साध्यान्तरप्रक्षेपः पञ्चमः, तादृशः साध्यविशेषणप्रक्षेपः षष्ठ इति । एवमसद्दोषपरिहारहेतुरपि प्रतिज्ञायां धर्मिस्वरूपधर्म्यन्तरधर्मिविशेषणसाध्यस्वरूपसाध्यान्तरसाध्यविशेषणप्रक्षेप इति षाड्विध्यम्, एवं सद्दोषपरिहारहेतुभूतधर्मिस्वरूपाऽदिप्रक्षेपभेदेन षाड्विध्यम्, असद्दोषपरिहारहेतुभूतधर्मिस्वरूपाऽदिप्रक्षेपभेदेन षाड्विध्यम् इति प्रतिज्ञायां चतुर्विशतिप्रभेदभिन्नं तावत्प्रतिज्ञाऽन्तरमिति । तत्राऽद्यषट्कं क्रमेणोदाहरति ॥ तत्र सद्दोषेत्यादिना ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘अविशेषितपूर्वोक्तसाध्यांशे दूषिते पुनः ।

तद्विशेषणनिक्षेपः प्रतिज्ञाऽन्तरमिष्यते ॥

इति कारिकाऽनुसारेण प्रतिज्ञाऽन्तरं लक्षयति ॥ दोषेति ॥ निर्दिष्टसाध्यभाग इत्यस्य पूवोत्तराभ्यां सम्बन्धः । हेत्वन्तरव्यावृत्तये साध्यभाग इत्युक्तम् । कः साध्यभागः ? इत्यत आह ॥ प्रतिज्ञेति ॥ उदाहरणे प्रयोज्यभाग इति ॥ ‘यो धूमवान् असावग्निमान् यथा महानस’ इत्युदाहरणे ‘अग्निमान्’ इति प्रयोज्यभागो विधेयभाग इत्यर्थः ॥ दोषसदसद्भावाभ्यामिति ॥ तथा च सति ,सद्दोषपरिहारहेतुः सद्दोषपरिहाराहेतुरसद्दोषपरिहारहेतुरसद्दोषपरिहाराहेतुश्चेत्येवं चतुर्विधमित्यर्थः । दोषपरिहारहेतुत्वं साधारणम् । स च दोषः क्वचित् सन् क्वचिद् असन् भवति । तथा दोषपरिहाराहेतुत्वं समम् । सोऽपि दोषः क्वचिद् असन् इति भावः ।

॥ एवमिति ॥ पक्षप्रक्षेपवत् साध्यप्रक्षेपोऽपि सध्यस्वरूपतः साध्यान्तरत इति द्विविध इत्यर्थः ॥ तत्रसद्दोषेति ॥ सद्दोषपरिहारहेतुः स्वरूपतः पक्षप्रक्षेपरूपं प्रतिज्ञाऽन्तरं यथेत्यर्थः ।

॥ द्वितीयमिति ॥ सद्दोषपरिहारहेतुः पक्षान्तरतः पक्षप्रक्षेप इत्यर्थः ॥ तृतीयमिति ॥ सद्दोषपरिहारहेतुः पक्षविशेषणप्रक्षेप इत्यर्थः । पक्षप्रक्षेपस्य द्विविधत्वाद् अस्य तृतीयत्वं मन्तव्यम् । एवमुत्तरत्रापि द्रष्टव्यम् ।

॥ चतुर्थमिति ॥ सद्दोषपरिहारहेतुः स्वरूपतः साध्यप्रक्षेप इत्यर्थः ॥ पञ्चममिति ॥ सद्दोषपरिहारहेतुः साध्यान्तरतः प्रक्षेप इत्यर्थः ॥ विशेषणासामर्थ्य इति ॥ व्यर्थविशेषणत्व इत्यर्थः । वह्निमात्रसाधने धूमस्यैव समर्थत्वाद् इति भावः ॥ कृष्णेति ॥ अगरोः कृष्णत्वात् सुरभित्वाच्च तत्सम्बद्धाग्निजन्यधूमस्यापि सुरभित्वं मलिनत्वञ्चेति ज्ञातव्यम् ॥ षष्ठमिति ॥ सद्दोषपरिहारहेतुः साध्यविशेषणप्रक्षेप इत्यर्थः ।

प्रमाणलक्षणटीकाविवरणं

क्रमप्राप्तं प्रतिज्ञांतरं लक्षयति ॥ दोषेति ॥ निर्दुष्टसाध्यभागे दोषपरिजिहीर्षयेत्यन्वयः ॥ प्रतिज्ञेति ॥ यद्यप्यत्र निगमनेऽपि प्रयोज्यभागोऽस्ति तथाऽपि प्रतिज्ञादिवाक्यचतुष्टयं साधकत्वेन प्रयुज्यते । तथाहि पर्वतो वह्निमानिति प्रतिज्ञाते कुतस्तदिति हेत्वाकांक्षायां हेतुवाक्यं साधकत्वेन प्रयुज्यते कुतस्तस्य साधकत्वमित्यत उदाहरणवाक्यमपि तत्वेनैव प्रयुज्यते । अस्तु तस्य तेनैव व्याप्तिः प्रकृते तु साध्यं कुत इत्याकांक्षायाम् उपनयवाक्यं प्रयुज्यते । निगमनं तु न साधकत्वेनातस्तस्य सर्वस्यापि साध्यगत्वं युक्तम् उदाहरणस्य तु न तथेति न तत्प्रतिबंदीति ।

॥ दोषसदसद्भावाभ्यामिति ॥ सद्दोषपरिहारहेतुर् असद्दोषपरिहारहेतुस्तदहेतुश्चेत्यर्थः ॥ एवमिति ॥ पक्षे प्रक्षेपवत् साध्यप्रक्षेपोऽपि साध्यस्वरूपतः साध्यांतर इति द्विविध इत्यर्थः । तदेवोदाहरति ॥ तत्रेति ॥ सद्दोषपरिहारहेतुः स्वरूपतः पक्षप्रक्षेपो यथेत्यर्थः ॥ द्वितीयमिति ॥ सद्दोष-परिहारहेतुः पक्षांतरतः पक्षप्रक्षेप इति द्वितीयमित्यर्थः ॥ तृतीयमिति ॥ सद्दोष-परिहारहेतुः पक्षविशेषणप्रक्षेप इति तृतीयं यथेत्यर्थः। ॥ चतुर्थमिति ॥ सद्दोष-परिहारहेतुः स्वरूपतः साध्यप्रक्षेप इति चतुर्थमित्यर्थः ॥ पंचममिति ॥ सद्दोष-परिहारहेतुः साध्यांतरतः साध्यप्रक्षेपो यथेत्यर्थः ॥ षष्ठमिति ॥ सद्दोषपरिहारहेतुः साध्यविशेषणप्रक्षेपो यथेत्यर्थः ।


उदाहरणे प्रयोज्यभागे प्रयोज्यस्वरूपतदन्तरतद्विशेषण-धर्मितद्विशेषणप्रक्षेपभेदेन पंचविधम्

प्रमाणलक्षणटीका

उदाहरणे प्रयोज्यभागे प्रयोज्यस्वरूपतदन्तरतद्विशेषण-धर्मितद्विशेषणप्रक्षेपभेदेन पंचविधम् ।

तत्राद्यं यथा ‘यो धूमवान् यथा महानसः’ इत्यत्र न्यूनतया प्रत्युक्ते ‘सोऽग्निमान्’इति ।

द्वितीयं यथा ‘यत् सुरभिमलिनधूमवत् तद् अग्निमद् यथा सम्प्रतिपन्नम्’ इत्युक्ते प्रयोज्यभागे न्यूनतया प्रत्युक्ते ‘तत् साग्निकृष्णागरुमत्’ इति ।

तृतीयं यथा ‘यत् कार्यं तत् कारणपूर्वकं यथा घटः’ इत्यत्र न्यूनतया प्रत्युक्ते ‘तद् उपादानाऽदिबुद्धिमत्कारणपूर्वकम्’ इति।

चतुर्थः यथा ‘यो धूमवानसावग्निमान्’ इत्येवोक्ते प्रागिव प्रत्युक्ते ‘यथा महानसः’ इति । पंचमं यथा ‘शब्दो नित्यः नित्यगुणत्वात् परमाणुरूपवत्’ इत्यत्र साध्यवैकल्येऽभिहिते ‘अपार्थिवपरमाणुरूपं दृष्टान्तः’ इति ।

प्रमाणलक्षणटीकाभावदीपः

॥ उदाहरण इति ॥ प्रयोज्यभागस्वरूपाऽदिप्रक्षेपभेदेन पञ्चविधमपि सद्दोषपरिहारहेतुतदहेतु असद्दोषपरिहारहेतुतदहेतुभेदेन चतुर्धा भिन्नं सद् विंशतिप्रभेदं भवति । तत्राऽद्यपञ्चकं धूमानुमानप्रयोगोदाहरणे क्रमेण दर्शयति ॥ तत्राऽद्यमिति ॥

‘पर्वतः साग्निकृष्णागरुमान् सुरभिमलिनधूमवत्वात्’ इति प्रयोगाभिप्रायेण आह ॥ यत् सुरभीति ॥ ‘क्षित्यादिकं तदुपादानाऽदिबुद्धिमत्कारणपूर्वकं कार्यत्वात्’ इति प्रयोगाशयेनाऽह ॥ यत् कार्यमिति ॥ प्रागिवेति ॥ न्यूनतयेत्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ उदाहरण इति ॥ प्रयोज्यस्य स्वरूपत एव प्रक्षेप आद्यः, प्रयोज्यान्तरप्रक्षेपो द्वितीयः, प्रयोज्यविशेषणप्रक्षेपस्तृतीयः, दृष्टान्तरूपधर्मिप्रक्षेपश्चतुर्थः , धर्मिविशेषणप्रक्षेपः पञ्चम इत्येवमुदाहरणे प्रतिज्ञाऽन्तरं पञ्चविधमित्यर्थः ॥ नित्यगुणत्वादिति ॥ नित्यस्य गुणत्वाद् इत्यर्थः ॥ साध्यवैकल्येति ॥ पार्थिवपरमाणुरूपे नित्यत्वरूपसाध्याभावादित्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

॥ उदाहरण इति ॥ प्रयोज्यस्य स्वरूपतः प्रक्षेपः, प्रयोज्यांतर-प्रक्षेपः, प्रयोज्यविशेषणप्रक्षेपः, धर्मिप्रक्षेपः, धर्मिविशेषणप्रक्षेप इति पंचविधमित्यर्थः। पूर्ववदिति न्यूनत्वेनेत्यर्थः ।