०२ प्रतिज्ञाहानिः

तत्र येन यद् यथा साध्यत्वादिना निर्दिष्टं तस्य तथा निर्वाहादर्शनेन पुनस्त्यागः प्रतिज्ञाहानिः

प्रतिज्ञाहानिः

प्रमाणलक्षणटीका

तत्र येन यद् यथा साध्यत्वादिना निर्दिष्टं तस्य तथा निर्वाहादर्शनेन पुनस्त्यागः प्रतिज्ञाहानिः । द्विधा चैषा । साधनहानिर्धूषणहानिश्चेति । तत्राऽद्या द्वादशविधा ।

पक्षे तावत् साध्य साधनधर्मितद्विशेषणहानिभेदात् षट्प्रकारा। एवं दृष्टान्तेऽपीति । द्वितीयाऽपि द्विविधा । स्वरूपतो विशेषतश्चेति । सर्वा पुनर्द्विविधा ।असद्विषया सद्विषया चेति। सर्वा चेयं द्विधा प्रवर्तते कण्ठतोऽर्थतश्चेति । ‘दुष्टं चेन्मा भुत्’ इति कण्ठतः । ‘अन्यथाऽस्तु’ इत्यर्थतः । तत्रासद्विषया पक्षे साध्यहानिर्यथा ‘पर्वतोऽग्निमान् प्रमेयत्वात्’ इत्यत्रानैकान्ति-कत्वोद्भावने माऽस्त्वग्निमानिति, निरग्निकोऽस्त्विति वा ।

साधनहानिर्यथा , तस्मिन्नेव हेतौ तथा दूषिते माऽस्त्वसौ हेतुरिति, धूमवत्वमस्त्विति वा ।

धर्मिहानिर्यथा ,हृदपर्वतावग्निमन्तावित्यत्र भागे बाधाभिधाने माऽस्तु तर्हि हृदः पक्ष इति , पर्वत एवास्त्विति वा ।

साध्यविशेषणहानिर्यथा, पर्वत उष्णाग्निमान् इत्यत्र व्यर्थविशेषणतया प्रत्युक्ते माऽस्तु तर्हि तथेति, अग्निमानित्येवास्त्विति वा ।

साधन विशेषणहानिर्यथा, सुरभिधूमवत्वादित्यत्र तथैव दूषिते माऽस्तु तर्ह्येवमिति, धूमवत्वादित्येवास्त्विति वा ।

धर्मिविशेषणहानिर्यथा, अयं पर्वतोऽग्निमानित्यत्र तथैव दूषिते तर्हि तथा माऽस्त्विति,पर्वत इत्येवास्त्विति वा ।

दृष्टान्ते साध्यहानिर्यथा, पर्वतोऽग्निमान् प्रमेयत्वान् महानसवदित्यत्रानैकान्तिकत्वोद्भावने मास्तु तर्हि महानसोऽग्निमानिति, निरग्निकोऽस्त्विति वा ।

साधनहानिर्यथा, तत्रैव प्रयोगे तथैव प्रत्युक्ते माऽस्तु प्रमेयत्वात्, महानसोऽग्निमानिति, धूमवत्वादिति वा ।

धर्मिहानिर्यथा, हृदवदित्युक्ते साध्यवैकल्यात् प्रत्युक्ते मास्तु स दृष्टान्त इति, महानसोऽस्त्विति वा ।

साध्यविशेषणहानिर्यथा ‘यो धूमवानसावुष्णाग्निमान् यथा महानसः,इत्यत्र विशेषणवैयर्थ्येऽभिहिते माऽस्तु तथेति, सोऽग्निमानित्येवास्त्विति वा ।

साधनविशेषणहानिर्यथा ‘यः सुरभिधूमवानसावग्निमान् यथा महानसः’ इत्यत्र तथैव प्रत्युक्ते मास्तु तर्हीत्थमिति, यो धूमवानित्येवास्त्विति वा ।

धर्मिविशेषणहानिर्यथा, ‘यः सुरभिधूमवानसावग्निमान् तन्महानसवत्’ इत्यत्र तथैव प्रत्युक्ते मास्त्वेवमिति, महानसवदित्येवा स्त्विति वा ।

प्रमाणलक्षणटीकाभावदीपः

॥ तत्रेति ॥ तेषु मध्य इत्यर्थः ॥ साध्यत्वाऽदिनेति ॥ साधनत्वा-दिरादिपदार्थः । दृष्टान्तापेक्षया पक्षे तावदिति तावच्छब्दः ॥ द्वितीयाऽपीति ॥ दूषणहानिरपीत्यर्थः ।

॥ असद्विषया सद्विषया चेति ॥ दुष्टप्रयोगविषया सदनुमानविषया चेत्यर्थः ॥ सर्वा चेयं द्वेधेति ॥ अवान्तरभेदभिन्ना साधनहानिर्दूषणहानिश्चेत्यर्थः । साध्यहानिर्यथेत्यत्र कण्ठतोऽर्थतश्चेत्यपि ग्राह्यम् । तयोः क्रमेणोदाहरणम् माऽस्त्वित्यादि ।

साधनहानिरित्यादौ दृष्टान्त इतिपर्यन्तम् ‘सद्विषया पक्षे कण्ठतोऽर्थतश्च’ इत्यनुषज्यते । दृष्टान्त इत्यादौ दूषणहानिर् इतिपर्यन्तम् ‘असद्विषया कण्ठतोऽर्थतश्च’ इत्यनुषज्यते । साधनहानिरित्यत्र सद्विषये दृष्टान्त इत्याद्यनुषज्यते ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

एवं निग्रहस्थानसामान्यलक्षणमुक्त्वा प्रथमोद्दिष्टायाः प्रतिज्ञाहानेर्लक्षणम्

‘‘कथायां यच्च पक्षाऽदि येन निर्दिष्टमादितः ।

तस्यतेन पुनस्त्यागः प्रतिज्ञाहानिरुच्यते’’

इतिकारिकाऽनुसारेणाऽह ॥ तत्रेति ॥ उद्दिष्टेषु प्रतिज्ञाहान्यादिषु मध्ये । येन वादिना प्रतिवादिना वा । कथायाम् इत्युपस्कर्तव्यम् । यत् साध्यसाधनधर्मिदृष्टान्ताऽदिकम् । यथा येन प्रकारेण । तस्येव विवरणं साध्यत्वाऽदिति । साध्यत्वेन साध्यवत्तया । आदिपदेन साधनतयेत्यादि ग्राह्यम् । तेन वाद्यादिना । तस्य साध्याऽदेः । तथा तेन प्रकारेण ।

अत्र कथायामित्युक्त्या कथाबाह्यसाध्याऽदित्यागे, येन तेनेति समानकतृकत्वोक्त्या भिन्नकर्तृकत्यागे,यस्य तस्येति समानप्रमेयत्वोक्त्या भिन्नप्रमेयत्यागे, यथा तथेति प्रकारैक्योक्त्या एकस्यैव साध्याऽदेः प्रमेयस्यैकेनैव पुंसा प्रकारान्तरेण त्यागे च अतिव्याप्तिः परिहृतेति ज्ञातव्यम् ।

॥ साधनहानिरिति ॥ स्वपक्षसाधनाय यदाऽनुमानं प्रयुज्यते तत्र प्राप्ता हानिरित्यर्थः ॥दूषणेति ॥ अनुमाने प्राप्तस्य दूषणस्य हानिरित्यर्थः । पक्षे तावत् षट्प्रकारेत्यन्वयः । धर्मिहानिः पक्षस्यैव हानिरित्यर्थः ॥ तद्विशेषणेति ॥ साध्यविशेषणसाधनविशेषणधर्मिविशेषणेत्यर्थः।

॥ दृष्टान्तेऽपीति ॥ साध्यसाधनदृष्टान्तधर्मितद्विशेषणहानिभेदात् षट्प्रकारेत्यर्थः । द्वितीयाऽपि दूषणहानिरपि ॥ सर्वेति ॥ साधनहानिर्दूषणहानिश्चेतिभेदभिन्ना प्रतिज्ञाहानिरित्यर्थः ॥ असद्विषयेति ॥ असदनुमानविषयिणीत्यर्थः । सद्विषया सदनुमानविषयिणी ॥ सर्वा चेयमिति ॥ सप्रभेदसाधनहानिदूषणहानिभेदभिन्ना प्रतिज्ञाहानिरित्यर्थः ।

कण्ठतोऽर्थतश्च हानिप्रकारं दर्शयति ॥ दुष्टं चेदिति ॥ ‘माऽस्तु’इति कण्ठतो हानिप्रकारः ॥ अर्थत इति ॥ ‘अन्यथाऽस्तु’ इत्युक्ते पूर्वस्य हानिरर्थाल्लब्धेत्यर्थः। ‘निरग्निकोऽस्तु’ इति वाऽर्थतो हानिप्रकारः । एवमुत्तरत्रापि द्रष्टव्यम् ।

॥ तस्मिन्नेव हेतौ तथेति ॥ प्रमेयत्वहेतावनैकान्तिकत्वेन दूषिते सतीत्यर्थः ॥ तथैवेति ॥ व्यर्थविशेषणत्वेनेत्यर्थः । एवमुत्तरत्रापि ॥ माऽस्तु तर्हीत्थमिति ॥ सुरभिधूमवानिति माऽस्तु इत्यर्थः ।

प्रमाणलक्षणटीकाविवरणं

विरोधादेरेव निग्रहत्वं नास्ति । तन्निमित्तत्वात् तेषामित्यतो व्याख्याति ॥ निग्रहा इति ॥ निग्रहलक्षणा ज्ञाने तन्निमित्तनिग्रहस्थानज्ञानासंभवात् तल्लक्षणमाह ॥ कथायामिति ॥ अहङ्कारखण्डनमात्रं युद्धादिसाधारणमतः कथायामित्युक्तम् ।

अत्र च कथायामहङ्कारखंडनं पराजयः, तन्निमित्तत्वमात्रमेव लक्षणम् । अखंडिताहङ्कारेणेत्यादि तु स्वरूपर्निवचनमात्रमिति कश्चिदाह । तत् तुच्छम् । परस्परं यत्राहङ्कारखडनं द्वयोरपि वृत्तं तत्रातिव्याप्तिवारणार्थत्वात् ।

अहङ्कारखण्डनं न पराजयः पराजितस्याप्यहंत्वोपगमादित्यतस्तल्लक्षणां-तरमाह ॥ तत्वेति ॥ तन्निमित्तमिति ॥ एतेन स्थानशब्दोऽत्र निमित्तवचन इत्यप्युक्तं भवति । एवं सामान्यलक्षणमुक्त्वा तत्कतिविधमित्यपेक्षयामाह ॥ तानि चेति ॥ कथायामित्यादिविशेषणकृत्यंस्वयमाह ॥ एतानीति ॥ अपस्मारदशा-पन्नानि उन्माददशापन्नानि च । झडिति शीघ्रमित्यर्थः । संवरणं नाम स्वज्ञानाच्छादनं तेन तिरोहितः निराकृत उद्भावनावसरो येषां तानीत्यर्थः । पुरस्फूर्तिकाशीघ्र-प्रतिपत्तिकाये अनधिकृतास्तैरुद्भावितानीत्यर्थः ।

ननु तेषामपि तत्काले कृतत्वात् प्रतिपत्तिलिङ्गत्वेन निग्रहस्थानत्वात् कथं व्यवछेद्यत्वमित्यत आह ॥ तत्कालिकेति ॥ प्रतियोग्यपेक्षया तदभावादिति ॥ तत्र प्रथमे भूतावेशादौ षुरुषापराधाभावात् । द्वितीयेऽपि स्वयमेव स्वापराधसमा-धानात् । तृतीयेऽपि अनाधिकृतोद्भावितत्वेन प्रतियोग्यपेक्षया तदभावादिति भावः।

अवसितं सामान्यलक्षणम् । अथेदानीं विशेषलक्षणावसरः । तत्रापि प्रथमो-ेद्दिष्टायाः प्रतिज्ञाहानेर्लक्षणमाह ॥ तत्रेति ॥ तद्विशेषेणेति ॥ साध्यविशेषणं साधनविशेषणं धर्मिविशेषणं चेत्यर्थः ।

॥ एवं दृष्टांतेऽपीति ॥ साध्यजातीयसाधनजातीयधर्मिसाध्यजातीयविशेषणं साधनजातीयविशेषणं धर्मिविशेषणं चेत्यर्थः । द्वितीया दूषणहानिः। स्वरूपतः सामान्यदूषणस्य हानिः, विशेषतः विशेषदूषणस्य हानिस् तथा दूषित इत्यनैकांतिकत्वोद्भावनेनेत्यर्थः । तथैव दूषणे व्यर्थविशेषणत्वेनेत्यर्थः । एवमुत्तरत्र ज्ञातव्यम् । ॥ द्वितीया द्विविधेति ॥


दूषणहानिः स्वरूपतो यथा ‘पर्वतोऽग्निमान् प्रमेयत्वात्’

प्रमाणलक्षणटीका

दूषणहानिः स्वरूपतो यथा ‘पर्वतोऽग्निमान् प्रमेयत्वात्’ इत्यत्रासिद्धेरुद्भावने निरनुयोज्यानुयोगेन प्रत्युक्ते ‘तर्हि मा भूत्तत्’ इति ‘अनैकान्तिकता भवतु’ इति वा ।

विशेषतो यथा ‘हृदपर्वतावग्निमन्तौ धूमवत्वात्’इत्यत्र स्वरूपासिद्ध्युद्भावने पूर्ववत् प्रत्युक्ते ‘तर्हि मास्तु’ इति ‘भागासिद्धो भवतु’ इति वा ।

प्रमाणलक्षणटीकाभावदीपः

एवमसत्प्रयोगविषये पक्षदृष्टान्तभेदेन चतुर्विंशति भेदसाधनहानिमुदाहरणनिष्ठतया प्रदर्श्य प्रागुक्तदूषणहानिप्रभेदमुदाहरणनिष्ठतया असद्विषयं प्रदर्शयति ॥ दूषणहानिरिति ॥ कण्ठतोऽर्थतश्चेत्यपि ग्राह्यम् ॥

॥ निरनुयोज्यानुयोगेनेति ॥ अविद्यमानदोषोत्कीर्तनं निरनुयोज्यानुयोग इत्यग्रे व्यक्तम् । मा भूदिति कण्ठतः , अनैकान्तिकता भवत्वित्यर्थतो दूषणहानिः ॥ विशेेषत इति ॥ असद्विषये कण्ठतोऽर्थतश्च विशेषतो दूषणहानिर्यथेत्यर्थः । पूर्ववत् प्रत्युक्ते निरनुयोज्यानुयोगेन प्रत्युक्त इत्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ दूषणहानिरिति ॥ असदनुमानविषयिणी दूषणहानिरित्यर्थः ॥ निरनुयोज्यानुयोगेनेति ॥ एतन्निग्रहसम्प्राप्तौ तन्निग्रहोद्भावनं निरनुयोज्यानुयोग इत्यर्थः । अत्रासिद्धिरूपदूषणस्य स्वरूपत एवत्यागादियं स्वरूपतो दूषणहानिरिति भावः । तद् असिद्धत्वम् ॥ पूर्ववदिति ॥ निरनुयोज्यानुयोगेन प्रत्युक्त इत्यर्थो ऽत्र च भागासिद्ध्यङ्गीकारेण स्वरूपासिद्धि-रूपदूषणविशेषस्यैव त्यागाद् विशेषतो दूषणहानिरियमिति भावः ।

प्रमाणलक्षणटीकाविवरणं

दूषणहानेः स्वरूपतो विशेषतश्चेति द्वैविध्यमुक्तम्। तत्राद्याया उदाहरणमाह ॥ दूषणहानिरिति ॥ निरनुयोज्यानुयोगेनेति ॥ अत्र च पूर्वपक्षे निरनुयोज्यानुयोगेन प्रत्युक्ते सामान्याकारेण सिद्धिरूपदूषणत्यागाङ्गीकारः । अत्र च तद्विशेषणभूतस्वरूपासिद्धिरूपासिद्धिविशेषत्याग इति भावः ।