०१ निग्रहस्थानानां विरोधाऽदिष्वन्तर्भावः

संवादानुक्तियुता निग्रहाः

निग्रहस्थानानां विरोधाऽदिष्वन्तर्भावः

प्रमाणलक्षणटीका

न केवलमुपपत्तिदोषाणामेव विरोधाऽदिभिः संग्रहः । किं नाम ? परनिरूपिताशेषनिग्रहस्थानान्यपि विरोधाऽदिष्वेवान्तर्भवन्तीत्याह

प्रमाणलक्षणम्

***संवादानुक्तियुता निग्रहाः ***

निग्रहा निग्रहस्थानानि ।

कथायाम् अखण्डिताहंकारेण परेण परस्याहंकारखण्डनं पराजयो निग्रहस्तन्निमित्तं तत्वाप्रतिपत्तिलिङ्गं वा निग्रहस्थानम् ।

सा द्विविधा अप्रतिपत्तिर्विप्रतिपत्तिश्चेति ।

परोक्तस्ववक्तव्ययोरज्ञानम् अप्रतिपत्तिः ।

तयोरेव विपरीतज्ञानं विप्रतिपत्तिः ।

तानि च प्रतिज्ञाहानिः (१)प्रतिज्ञान्तरम् (२)प्रतिज्ञाविरोधः (३)प्रतिज्ञासंन्यासः (४)हेत्वन्तरम् (५)अर्थान्तरम् (६)निरर्थकम् (७)अविज्ञातार्थकम् (८)अपार्थकम् (९)अप्राप्तकालम् (१०) न्यूनम् (११) अधिकम् (१२) पुनरुक्तम् (१३)अननुभाषणम् (१४) अज्ञानम् (१५) अप्रतिभा (१६) विक्षेपः (१७) मतानुज्ञा (१८) पर्यनुयोज्योपेक्षणम् (१९) निरनुयोज्यानुयोगः (२०) अपसिद्धान्तः (२१) हेत्वाभासाः (२२) उदाहरणाऽभासाः (२३)तर्कपराहति (२४) श्चेति ।

एतानि च कथाबाह्यानि कथायामपस्मारोन्मादाऽदि-दशाऽपन्नानि झटिति संवरणेन तिरोहितोद्भावनावसराणि पुरःस्फूर्तिकानधिकृतोद्भावितानि न निग्रहस्थानानि । तात्कालिकातत्वज्ञानलिङ्गत्वेऽपि प्रतियोग्यपेक्षया तदभावाद् इति ।

प्रमाणलक्षणटीकाभावदीपः

उपपत्तिदोषाणामिति ॥ असिद्ध्यादीनामित्यर्थः । निगृह्यते पराजीयते एभिर् इति व्युत्पत्तिमभिप्रेत्याह ॥ निग्रहा निग्रहस्थानानीति ॥

को निग्रहः ? किं च तस्य स्थानम् ? इत्यत आह ॥ कथायामिति ॥ अहङ्कारखण्डनं च स्वपक्षसाधनपरपक्षदूषणसङ्कल्पभ्रंशः, तद्रहितेन परेण प्रतिवादिना परस्य वादिनस् तत्करणं निग्रहः, तन्निमित्तं निग्रहस्थानमित्यर्थः । एतच्च विचारगोचरानेकविद्वत्कर्तृकवाक्यप्रबन्धरूपकथायामेवेति भावेनोक्तं कथायामिति । तेन कथाबाह्यानां प्रतिज्ञाहान्यादीनां निग्रहस्थानत्वं नेति सूचितम् । अखण्डिताहङ्कारेणेत्युक्त्या कथा यामेव अपस्मारोन्माददशाऽऽपन्नानां झटिति संवरणेन तिरोहितोद्भावनावसराणां निग्रहस्थानत्वव्युदासः । परेणेत्युक्त्या पुरः स्फूर्तिकानधिकृतोद्भावितानां निग्रहस्थानत्वनिरास इत्यग्रे व्यक्तम् ।

परोक्तलक्षणान्तरं चाऽह ॥ तत्वेति ॥ लिङ्गं ज्ञापकमित्यर्थः ॥ सेति ॥ तत्वाप्रतिपत्तिरित्यर्थः । अकारोऽत्र तदभावतद्विरोधरूपार्थद्वयपर इति भावः । तानि चेति वक्ष्ययमाणापेक्षया बहुवचनम् । हेत्वाभासाश्चेत्यन्तमेव गौतमस्त्रम् । तथाऽपि चशब्दसमुच्चेयावेताविति दर्शयितुम् उदाहरणाऽभासतर्कपरा-हत्योरप्युक्तिः । तथा च चतुविर्ंशतिरित्युक्तम् भवति । सामान्यलक्षणगतकथा-यामित्यादिविशेषणकृत्यानि व्यनक्ति ॥ एतानि चेति ॥

यत्तु विद्याहीनत्वलिङ्गेन इत्येतद्याख्यानावसरे कथालक्षणटीकायाम् एतेन कथाबाह्यानामनिग्रहस्थानत्वमिति परास्तम् इति वचनम्,तत्तु प्रस्तुत-जल्पवितण्डारूपकथाविशेषपरमित्याहुः ॥ झटिति संवरणेनेति ॥ शीघ्रं स्वाप्रतिभागूहनेन तिरोहितस्याप्रतीतस्य दूषणस्य उद्भावनावसरे प्राप्तानि अप्रतिभाऽऽदीनि निग्रहस्थानानीत्यर्थः ॥ अनधिकृतेति ॥ कथायामनधिकृत-स्तटस्थस् तेनोद्भावितानि दूषणानीत्यर्थः । प्रतियोग्यपेक्षया प्रतिवाद्यपेक्षया । तदभावाद् अज्ञानाभावात् । तेनाज्ञानलिङ्गस्य अनुक्तेस् तटस्थेनैवोक्तेरिति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

उपपत्तिदोषाणां हेत्वाभासाऽदीनाम् । ननु प्रतिज्ञाहान्यादीनां निग्रहनिमित्तत्वेन निग्रहत्वाभावादाह ॥ निग्र्नहस्थानानीति ॥ निगृह्यते पराजीयते एभिरिति व्युत्पत्त्या निग्रहनिमित्तानीत्यर्थः ।

ननु प्रतिज्ञाहान्य•दीनां पराजयनिमित्तत्वमेव प्रसिद्धम् ,न तु निग्रहनिमित्तत्वम् इत्यतो निग्रहपराजयशब्दयोः पर्यायत्वमभिपे्रत्य

‘‘अखण्डिताहंकृतिना पराहङ्कारखण्डनम् ।

निग्रहस्तन्निमित्तस्य निग्रहस्थानतोच्यते ॥

इति कारिकाऽनुसारेण निग्रहस्थानसामान्यलक्षणमाह ॥ कथायामित्यादिना ॥ अहङ्कारखण्डनञ्च स्वपक्षसाधनपरपक्षदूषणसङ्कल्पभ्रंश इति द्रष्टव्यम् । परस्याहङ्कारखण्डननिमित्तत्वं युद्धाऽदिसाधारणम् इत्यतः कथायामित्युक्तम् । कथायाम् अहङ्कारखण्डनरूपपरपराजयनिमित्तं निग्रहस्थानमित्येव लक्षणम् । अखण्डिताहङ्कारेण परेणेति तु स्वरूपकथनमात्रपरमित्याहुः ।

वस्तुतस्तु परस्परं यत्राहङ्कारखण्डनं द्वयोरपि जातं तत्र खस्याप्यहङ्कार-खण्डनेन साम्यस्यैव प्राप्त्या परपराजयासम्भवाद् अत उक्तम् अखण्डिताहङ्कारेण परेणेति ।

नन्वहङ्कारखण्डनं न पराजयः पराजितस्याप्यहङ्कारानपयाद् इत्यतः ‘अप्रतिपत्तिर्विप्रतिपत्तिर्वा निग्रहस्थानम्’ इति गौतमसूत्रानुसारेण लक्षणान्तरमाह ॥ तत्वाप्रतिपत्तिलिङ्गं वेति ॥ तत्वस्याप्रतिपत्तिज्ञापकमित्यर्थंः । अप्रतिपत्तिविप्रतिपत्तिशब्दयोरर्थमाह ॥ परोक्तेत्यादिना ॥

अत्र तत्वाप्रतिपत्तिलिङ्गं निग्रहस्थानमित्येव सामान्यलक्षणम् । तत्वाप्रतिपत्तिश्च द्विविधा । अज्ञानरूपा अप्रतिपत्तिर् विपरीतज्ञानरूपा विप्रतिपत्तिश्चेत्यर्थो विवक्षितः । अन्यथाऽनुगतलक्षणाभावात् । सूत्रे ‘अप्रतिपत्तिविप्रतिपत्तिपदाभ्याम् उभयानुगता तत्वाप्रतिपत्तिर्लक्ष्यतेऽनुगमार्थम्’इति परोक्तेः ।

ननु सूत्रे लिङ्गपदाभावात् तत्वाप्रतिपत्तिलिङ्गमिति कथमुक्तम् ? इति चेन्न । ‘सा चाप्रतिपत्तिः परबुद्धेरप्रत्यक्षत्वान् न स्वतो निग्रहस्थानं भवतीति स्वज्ञापकं लक्षयति’। परैः सुत्रव्याख्यातृभिसूक्तत्वात् तदनुसारेण लिङ्गमित्युक्तमिति ज्ञातव्यम् । निग्रहस्थानान्युद्दिशति ॥ तानि चेति ॥ निग्रहस्थानानीत्यर्थः ।

अत्र कथायाम् अखण्डिताहङ्कारेण परेणेतिविशषणद्वयस्य कृत्यमाह ॥ एतानि चेति ॥ प्रतिज्ञाहान्यादीनीत्यर्थः । कथाबाह्मानि न निग्रहस्थानानीत्यन्वयः । तथा च कथायामित्यनेन तद्व्यावृत्तिरिति भावो ऽपस्मारो नाम भूताऽवेशेन स्मरणाभावः । तद्दशाऽपन्नानि उन्मादाऽदिदशाऽऽपन्नानि । झटिति शीघ्रंसंवरणं समीचीनाङ्गकरणं, स्वदोषाऽच्छादनं वा तेन तिरोहितो नाशित उद्भावनावसरो येषां तानीत्यर्थः। अयं भावः

‘‘उक्तग्राह्याः केचिदन्येऽनुक्तग्राह्यास्तथा परे ।

उच्यमानदशाग्राह्या इति कालस्त्रिधा मतः’’

इति परैर्निग्रहस्थानोद्भावनकालस्त्रिविध उक्तः । तत्रोच्यमानकालोद्भावनीय-मपशब्दाऽदिकं प्रमादादुक्त्वा वादी झटिति संवरणं चेत् कुर्यात् तदा प्रतिवादिना तस्मिन् काले निग्रहस्थानं न वाच्यं वादिकृतझटिति संवरणेन तदुद्भावनावसरस्य नाशितत्वाद् दोषोक्तेः प्रागेव समाधानाद् इति ।

॥ पुरःस्फूर्तिकेति ॥ वादिप्रतिवादिनोर्दैवादज्ञाने सति तयोः पुरः स्फूर्ति-कर्तारौ द्वौ कथायां क्रियेते । तथा च पुरः स्फूर्तिकत्वेनानधिकृता ये तैरूद्भाविता-नीत्यर्थः ।

नन्वपस्माराऽदिदशाऽपन्नानामपि तात्कालिकत्वाप्रतिपत्तिलिङ्गत्वेन निग्रह-स्थानत्वात् कथं व्यवच्छेद्यत्वम् ? इत्यत आह ॥ तात्कालिकेति ॥ अतत्वज्ञानं तत्वाप्रतिपत्तिः । अपस्माराऽदिदशाऽऽपन्नानामितिशेषः । प्रतियोगी प्रतिवादी । तदपेक्षया प्रतिवादिनैवेति यावत् । तत्वाप्रतिपत्तिलिङ्गत्वाभावादित्यर्थः । तथाचाखण्डिताहङ्कारेण परेणेति विशेषणेन तद्व्यावृत्तिरिति द्रष्टव्यम् ।

तथा हि, प्रथमे भूताऽवेशाऽद्यपस्मारोन्मादाऽदिनैव पराहङ्कारस्य खण्डित-त्वात्, द्वितीये स्वदोषस्य स्वयमेव समाहितत्वात्, तृतीयेऽनधिकृतोद्भावितत्वेन अखण्डिताहङ्कारेण परेण प्रतिवादिना पराहङ्कारखण्डनाभावात्तेन विशेषणेन तद्व्यवच्छेद इति ।