०२ अनुमानविभागः

द्विविधमनुमानम् । स्वार्थं परार्थं चेति

अनुमानविभागः

प्रमाणलक्षणटीका

द्विविधमनुमानम् । स्वार्थं परार्थं चेति । परोपदेशा-नपेक्षं स्वार्थम् । तदपेक्षं परार्थम् । व्याप्तिमल्लिङ्गबोधकं वाक्यं परोपदेशः ।