०१ व्याप्तिनिरूपणम्

व्याप्तिरूपपत्तिमूलम्

व्याप्तिनिरूपणं

यदुक्तं निर्दोषं प्रमितं लिंगमनुमानमिति । तदयुक्तम् । नारिकेलद्वीपवासिनो धूमदर्शनेऽपि वह्निप्रमानुदयादित्यत आह

***व्याप्तिरूपपत्तिमूलम् ***

व्याप्तिरिति विषयेण विषयिणः प्रत्ययस्योऽपलक्षणम् ।

न केवलं प्रमितं लिङ्गमात्रमनुमितिजनकमंगीक्रियते । किं नाम ? निर्दोषत्वान्तर्गतव्याप्तिप्रमितिपूर्वकमेव । न च तादृशं नानुमितिजनकम् । अविनाभावो व्याप्तिः । सा द्विविधा अन्वयव्याप्तिर्व्यतिरेकव्याप्तिश्चेति । तत्र साध्येन साधनस्य व्याप्तिरन्वयव्याप्तिः । यथा ‘यो धूमवानसावग्निमान्’ इति । साधनाभावेन साध्याभावस्य व्याप्तिर्व्यतिरेकव्याप्तिः । यथा, ‘योऽग्निमान्न भवति स धूमवान्न भवति’ इति । भूयो भूयो हि धूमं पश्यन् तत्राग्निं पश्यति, अग्न्यभावं पश्यंश्च धूमाभावम् । ततो निश्चिनोति धूमाग्न्योः साहचर्याद् अस्त्यविनाभाव इति। गृहीतव्याप्तिश्च पर्वते धूमं पश्यंस्तामनुस्मरति ‘यत्सन्निधौ यो दृष्ष्टः स तस्य स्मारकः’ इति न्यायात् । स्मृतव्याप्तिश्च व्याप्तं धूमं पर्वते प्रत्यभिजानाति । तेनाग्न्यनुमितिरिति युक्तं लक्षणमिति ।

प्रमाणलक्षणटीकाभावदीपः

प्रमितमित्यभिप्रेतार्थोक्तिः । उपपत्तिश्च यथार्थतो ज्ञातैव इति स्वोक्त्यभिप्रायेण वा इयमुक्तिः । प्रत्ययस्य ज्ञानस्य । अविनाभाव इत्यत्र नञ्व्यत्यासेन विना अभावो ऽसम्भवो ऽनुपपत्तिः । येन विना यस्य अनुपपत्तिस् तेन तस्य व्याप्तिरित्यर्थः । यदभावे यस्य सत्वं प्रमाणविरुद्धं तत् तेन व्याप्तमिति यावत् । न चेयं व्यतिरेकव्याप्तिरेव नान्वयव्याप्तिरिति शङ्क्यं केवलान्वयिन्यपि साध्येन विना हेतोरनुपपत्तिरूपव्याप्तेः सत्वात् ।

न च तत्र साध्येन विना हेतोर्या उपपत्तिस् तदभावरूपा अनुपपत्तिरयुक्ता, तेन विना तदुपपत्तेरप्रामाणिकत्वेन तदभावस्य तत्र हेतावसम्भवाद् इति वाच्यम् । सिद्धान्ते अप्रामाणिकस्यैव निषेधप्रतियोगित्वात् । तथा च रसस्य समानदेशकालेन रूपेण विनैव , पाकजरूपाऽदेः समानदेशेन भिन्नकालेन पाकेन विनैव . कृतिकोदयस्य स्वसत्तासमानकालया भिन्नदेशया रोहिण्युदयाऽसत्त्या विना, अधोदेशे नदीपूरस्य भिन्नदेशकालया ऊर्ध्वदेशवृष्ट्या विना अनुपपतिरस्तीति सामानाधिकरण्य इव वैयधिकरण्येऽपि उक्तरूपा व्याप्तिरुक्ता भवतीति भावः ।

व्याप्तिग्रहस्य तर्काधीनत्वात् तत्र च व्याप्तिग्रहापेक्षायामनवस्थेत्यतो भूयोदर्शनरूपप्रत्यक्षेणैव व्याप्तिग्रहमाह ॥ भूयो भूय इति ॥ पुनः पुन इत्यर्थः ॥ तत इति ॥ भूयोदर्शनाद् इत्यर्थः ॥ प्रत्यभिजानातीति ॥ ‘अयं च धूमो वह्निव्याप्यः’ इत्येवमनुसन्धत्त इत्यर्थः । अत्र एक इति व्याप्तिद्वैविध्य एवाऽरुचिं सूचयति । अन्यत्तु अनुमतमेवेति ज्ञेयम् ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

धूमदर्शनेऽपीत्यनेन लिङ्गस्य प्रमितत्वमुक्तमित्यवधेयम् ॥ अनुदयादिति ॥ तथा च सा स्यादिति भावः । ननु व्याप्तिरूपपत्तिमूलमिति कथमुच्यते ? स्वरूपसत्या व्याप्तेरपि धूमे सत्वेन पुनर्नारिकेलद्वीपवासिनो धूमदर्शनेन वह्निप्रमा स्याद् इत्यतिप्रसङ्गो ऽपरिहृत एवेत्यत आह ॥ व्याप्तिरितीति ॥ लक्षणाबीजशक्यसम्बन्धोपपादनाय विषयेणेऽत्याद्युक्तम् ।

॥ निर्दोषत्वान्तर्गतेति ॥ व्याप्तिप्रमित्यभावस्य दोषत्वेन व्याप्तिप्रमितिर्निदोषत्वान्तर्गतैवेत्यर्थः । तथा च नारिकेलद्वीपवासिनो व्याप्तिप्रमित्यभावेन न वह्न्यनुमितिर्भवतीति निर्दोषपदेनैव तद्व्यावृत्तिरिति भावः । तथा च व्याप्तिर् व्याप्तिप्रमितिर् उपपत्तेर् लिङ्गस्य अनुमितिजनने मूलं कारणं सहकारिणीऽति यावदिति मूलयोजना द्रष्टव्या ।

व्याप्तिरूपपत्तिमूलद् इत्युक्तम् । तत्र व्याप्तिस्वरूपजिज्ञासायामाह ॥ अविनाभावो व्याप्तिरिति ॥ अत्र भावः सत्ता । एवं च साध्येन विना साधनस्य भावो न इत्यनेन साध्याभाववन्निष्ठात्यन्ताभावप्रतियोगित्वं व्याप्तिर् इत्युक्तं भवतीति द्रष्टव्यम् । नन्विदमयुक्तं तथात्वे तुच्छस्यापि वह्निव्याप्यताऽपत्तेः । तदत्यन्ताभावस्य केवलान्वयित्वेन वह्न्यभाववन्निष्ठत्वात् । किं च अस्य व्यतिरेकव्याप्तिलक्षणत्वेन साध्याभावसाधनाभावयोरेव व्याप्तिरुक्ता स्यात्, न साध्यसाधनयोरन्वयव्याप्तिः । व्यतिरेकव्याप्तिश्च सिद्धान्तेनानुमानाङ्गम् । केवलान्वयिन्यप्रसिद्धिश्च स्याद् इति चेन्न । साहचर्यनियम इत्यत्र तात्पर्यात् । अत एवोक्तं पद्धतौ, अविनाभावो व्याप्तिः साहचर्यनियम इति यावद् इति ।

अत्र साहचर्यं नाम स्वदेशकालविशेषगतस्य हेतोः स्वदेशकालविशेषगतेन साध्येन सम्बन्धमात्रं विवक्षितम् । न तु सामानाधिकरण्यमेव । तथात्वे अधोदेशे नदीपूराऽदावव्याप्तेः । सम्बन्धमात्रं तु तत्राप्यस्ति । वृष्टिमदूर्ध्वदेशाऽगतत्वात् पूरस्य । एवमन्यत्रापि कृत्तिकोदयाऽदौ हेतुसाध्यसम्बन्धमात्रमुपपादनीयम् । तुच्छस्य चोक्तरूपत्वाभावान् नातिव्याप्तिः । व्यभिचारिसम्बन्धव्यावर्तनाय नियम इत्युक्तम् । नन्वेवं नियमस्य व्याप्तिरूपतया आत्माऽश्रय इति चेन्न । नियमपदेनाव्यभिचारस्य विवक्षितत्वात् । तथा च अव्यभिचरितसाध्यसम्बन्धो व्याप्तिर् इत्युक्तं भवति । अत एवोक्तं पद्धतौ, व्याप्तिरव्यभिचरितः सम्बन्ध इति । अत्र सम्बन्धस्याव्यभिचरितत्वं नाम स्वाभाविकत्वं विवक्षितम् । अतो हेतुधर्मस्याव्यभिचारस्य कथं सम्बन्धविशेषणत्वम् ? इति चोद्यानवकाश इति ज्ञातव्यम् ।

॥ सा द्विविधेति ॥ यद्यपि अस्मन्मते अन्वयव्याप्तिरेव साध्यसिद्धु्य-पयोगिनी न व्यतिरेकव्याप्तिः , तथाऽपि पररीत्या शिष्यमतिवैशद्यायेदं व्युत्पादनमिति ज्ञातव्यम् । एवमुत्तरत्रापि । यथोक्तं युक्तिपादीयसुधायां,शिष्यमतिवैशद्याय व्युत्पादनं तु अनुमतमेवेति न स्वीयव्यवहारविरोध इति ।

भूयोदर्शनरूपव्याप्तिग्राहकसामग्रीं दर्शयति ॥ भूय इति ॥ अनेन प्रथमज्ञानमुपदर्शितम् । पर्वते धूमं पश्यन् इत्यनेन द्वितीयज्ञानम् ॥ धूमं पर्वते प्रत्यभिजानातीति ॥ ‘अस्त्यत्र पर्वते वह्निना व्याप्तो धूमः’ इति प्रत्यभिजानाती-त्यर्थः । अनेन तृतीयलिङ्गपरामर्शः प्रदर्शितः ॥ तेनेति ॥ तृतीयलिङ्गपरामर्शेनेत्यर्थः।

प्रमाणलक्षणटीकाविवरणं

ननु व्याप्तेः स्वरूपसत्यास् तत्राप्रयोजकत्वेन तद्भानस्यैव तन्मूलत्वद् व्याप्तिरुपपत्तिमूलम् इति कथमुच्यत इत्यत आह ॥ व्याप्तिरितीति ॥ लक्षणप्रयोजकीभूतं शक्यसंबंधमाह ॥ विषयेणेति ॥ व्याप्तिलक्षणमाह ॥ अविनाभावो व्याप्तिरिति ॥

नन्वत्राविनाभावो नाम साध्येन विना साधनस्याभावो वा, साध्यसाहित्यं वा, साहित्यनियमो वा ? नाद्यः । केवलान्वयिसाध्यकहेतौे साध्याभावस्य अप्रसिद्धत्वाद् व्याप्तिः । व्यभिचारिसाधरण्यान्न द्वितीयोऽपि । आत्माश्रयापातेन न तृतीयोऽपि । नियमस्य व्याप्तिरूपत्वात् । अधोदेशनदीपूरोर्ध्वदशवृष्ट्योर् देशतः कालतः साहित्याभावेनाव्याप्तेश्च । अथ एवानैपधिकसंबंधो वा साहचर्यनियमो वा स्वाभाविकसंबंधो वा साध्याभाववद्वृत्तित्वं वा व्याप्तिरिति निरस्तम् । अधोदेशनदीपूरोर्ध्वदेशवृष्ट्योः संबंधस्य साहचर्यस्य चाभावान्नदीपूरहेतोर् वृष्टिरूपसाध्याभाववदधोदेशवृत्तित्वेन साध्याभाववदवृत्तित्वस्य तत्राभावाच्च । तस्मादयुक्तमेतल्लक्षणमिति चेत् ।

अत्र ब्रूमः । यद्देशकालसंबद्धस्य यद्देशकालसंबद्धेन विनाऽनुपपत्तिस् तस्य तेन सह व्यप्तिः । अवश्यं चैतदङ्गीकर्तव्यम् । यदनुपपत्तिरिव व्याप्तिरिति । परिशेषोऽ-र्थापत्तिरनुमानमित्यविशेष इत्यत्र अर्थापत्तिरिवानुमानमप्याव्यावश्यकानुपपत्त्येव गमकमित्युक्तत्वात् । उपमानेऽपि हि नहि स्वसदृशेनासदृशं किंचिद् दृष्टमित्यनेन गवयनिष्ठगोसादृश्यस्य गोनिष्ठगवयसादृश्यं विनानुपपत्तेरेवोक्तत्वात् । पद्धतौ च निर्दोषोपपत्तिरनुमेति एतद्ग्रन्थस्थोपपत्तिशब्दो न पर्यायांतरमात्रं किंतु साध्ये सत्युपपद्यते । अन्यथा नेत्युपपत्तिरिति भावेनोपपत्तिर्व्याप्यमिति व्याख्यातत्वात्। अत्रापि टीकायां जीवनवत्वे सति गृहे असत्वरूपे व्याप्ये अनुपपद्यमानर्थप्रमिति-रर्थापत्तिरित्यनुपपद्यमानपदप्रयोगात् ।

परिशेषादेरनुमानत्वानङ्गीकारे धूमोऽप्यनुपपत्त्या आगम नानुमानं स्यादिति चोक्तत्वात् । अनुपपत्तिश्चाघटनं प्रमाणविरोध इति यावत् । अत एवोत्तरत्र वक्ष्यति। अनुपपत्तिश्चासंभव इति । इयमेव व्याप्तिः साध्येन विना साधनस्याभावोऽनुप-पत्तिरित्यभिप्रायेणाविनाभावो व्याप्तिरित्युक्तम् । अस्ति चेयं धूमादौ ।

ननु तथाऽपि धूमस्यानुपपत्तिः । वह्निसामान्यं विना पर्वतीयवह्निं विना वा। नाद्यः । पर्वतीयवह्निसिद्धिर्न स्यात्। यो येन विनाऽनुपपन्नः स तत्साधक इति न्यायात्। न द्वितीयः । पर्वतीयवह्निसिद्धौ तेन विनाऽनुपपत्तेर्ज्ञातुमशक्यत्वात् । सिद्धौ वा तस्यानुमितिरूपत्वेन तत्करणत्वायोगादिति चेन्न। धृमस्य वह्निसामानाधिकरण्यं किं वह्निसामान्येन किं पर्वतीयेन । आद्ये तेन वह्निसामान्यसिद्धावपि पर्वतीयवह्न्यसिद्ध्यापत्तेः ।

न द्वितीयः । पर्वतीयवह्न्यसिद्धौ तत्सामानाधिकरण्यस्य दुर्ज्ञानत्वादिति त्वत्पक्षेऽपि साम्येनैतादृशोक्तेरयोगात् । नदीपूरस्यापि वृष्टिं विनाऽनुपपत्तिसत्वेन तस्यापि तद्व्याप्तत्वमयुक्तम् ।

नच तथापि केवलान्वयिन्यव्याप्तिः । साध्याभावप्रसिद्धेरिति वाच्यम् । तत्र साध्याभावस्यासत्वादेव साध्याभावे सति साधनस्य वाऽनुपपत्तिस्तदभाव-रूपानुपपत्तेः सत्वात् । नच प्रतियोग्यप्रसिद्धेस्तस्य न निषेधप्रतियोगित्वमिति वाच्यम् । अप्रामाणिकस्यैव निषेधप्रतियोगित्वात् । प्रतियोगित्वादिधर्माणां धर्मिसत्तनिर-पेक्षत्वादिति ।

यद्वा साध्याभावमसंभवेन प्रसिद्धिसंभावाच्च। सर्वथा प्रसिद्धत्वे साध्याभावस्य अप्रसिद्धत्वादित्यपि वक्तुं शक्यत्वाच्चेति दिक् ॥