समाऽख्यावाक्यप्रकरणस्थानानि च लिङ्गविशेषाः
समाऽख्याऽऽदीनामनुमानान्तर्भावः
प्रमाणलक्षणटीका
तथाऽपि समाऽख्याऽदीनि पृथक्प्रमाणानि सन्तीत्यत आह
***समाऽख्यावाक्यप्रकरणस्थानानि च ***
अनुमेत्यस्यानुकर्षणार्थश्चकारः । निर्णीतस्थले समानोक्तिः समाख्या । सा द्विविधा । अर्थतः शब्दतोऽपीति । वाक्यमुक्तम्। कयाचिद्विवक्षयैकार्थावच्छिन्नं वाक्यजातं प्रकरणम् । तादृशं प्रकरणजातं स्थानम् । एतेषामनुमानेऽन्तर्भावादुक्तमुपपन्नम्। समाख्याया वाक्याऽदेरवरत्वेऽपि तदादित्वेन ग्रहणं
‘श्रुतिर्लिङ्गं समाऽख्या च वाक्यं प्रकरणं तथा’
इति अविवक्षितक्रमं वाक्यमनुसृत्य कृतम् । उपक्रमाऽदीनां तात्पर्यलिङ्गत्वं , एतेषामर्थ एवेति विशेषज्ञापनार्थो योग-विभागः । उपक्रमाऽदीनां स्वार्थे आगमत्वेऽपि तात्पर्य एव लिङ्गत्वान् नोक्तविरोधः । तर्हि श्रुतिर्लिङ्गमिति समाख्याऽऽदीनां लिङ्गात् पृथगुक्तिः कथमित्यत आह
***लिङ्गविशेषाः ***
पूर्ववत्परिहारः । अत्राप्यनुमानान्तर्भावे पूर्वोक्ता युक्तिरनु-सन्धेयेति ।
प्रमाणलक्षणटीकाभावदीपः
॥ अर्थतः शब्दत इति ॥ तत्राऽद्या, वैश्वानरविद्यायां वैश्वानरस्य विष्णुत्वे ‘मूर्धैव सुतेजाश् चक्षुर्विश्वरूपः’ इत्युक्तस्य ‘शीर्ष्णो द्यौः समवर्तत’ इत्यादिपुरुषसूक्तसमाऽख्यामाह सूत्रकारः ‘पुरुषविधमपि चैनमधीयत’ इति।
द्वितीया तु, विश्वकर्मसूक्ते अजस्य विष्णुत्वे प्रोक्तस्य ‘परो दिव पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति’ इत्यस्य अम्भ्रणीसूक्ते ‘परो दिवा पर एना पृथिव्यैतावती’ इति समाऽख्या ॥ वाक्यमुक्तमिति ॥ आगमलक्षणोक्तिप्रस्ताव इति भावः ॥ कयाचिदिति ॥ केनापि प्रकारेण एकार्थे तात्पर्ययुक्तवाक्यसन्दर्भः प्रकरणमित्यर्थः । यथा ‘नैवेह किञ्चनाग्र आसीन् मृत्युनैवेदमावृतम्’ इत्यादि ‘तददिते-रदितित्वम्’ इत्यन्नम् अनेकावान्तरार्थबोधकमपि मृत्युमहिमोक्तिपरत्वविवक्षया मृत्युप्रकरणम् ॥ तादृशमिति ॥ एकार्थे तात्पर्ययुक्तानेकवाक्यजात-रूपप्रकरणमित्यर्थः। तद्यथा, शं नो मित्र’ इत्यारभ्य ‘सुवर्णज्योतिः’ इत्यन्तम् ।
॥ एतेषामनुमानेऽन्तर्भावादिति ॥ वैश्वानरविद्यास्थः विष्णुर्भवितुमर्हति विष्णुपरत्वेन निर्णीतपुरुषसूक्तसमाऽख्यानाद् एतत्सदृशतया कथनाद् इत्यर्थः । यत्र विप्रतिपन्नवाक्ये शब्दतोऽर्थतो वा निर्णीतवाक्यान्तरसादृश्योक्तिस्तद्वाक्यं तदर्थकमिति सामान्यव्याप्त्या संमतवत् ।
वाक्यमपि, स्वान्तर्गतपदार्थनिर्णयसमभिव्याहृतवाक्यान्तरार्थनिर्णयेन अनुमापकमिति द्वेधा । तत्राऽद्यं यथा ‘एतमेव ब्रह्मेत्याचक्षते’ इति वाक्यं स्वान्तर्गतैतच्छब्दार्थो ब्रह्मैव तदसाधारणब्रह्मशब्दसमभिव्याहारात् । यद् यदसाधारणश्रुतिसमभिव्याहृतं तत् तत्परम्, यथा संमतम् इति । पदान्तर-समभिव्याहारो हि वाक्यम् । द्वितीयं तु दहरविद्यायां ‘किं तद् अत्र विद्यते?’ इति प्रश्नवाक्यसमभिव्याहारात् ‘यावान्वा अयमाकाशः’ इति वाक्यस्य ब्रह्मपरत्वम् । यावानिति वाक्यं ब्रह्मपरं, अन्वेष्टव्यत्वेनोक्तं दहराऽकाशस्थं ब्रह्म किम् ? कीदृशम् ? इति प्रश्नवाक्यसमभिव्याहारात् । अन्यथा असङ्गतेः । ईदृशं ब्रह्म विद्यत इत्येव वाच्यत्वात् ।
प्रकरणमपि, ‘सर्वमत्ति’ इत्युक्ते अदनकर्ता मृत्यशब्दितो विष्णुरेव तत्प्रकरणमध्यगतत्वाद् अन्नमयाऽदिशब्दार्थो विष्णुरेव तत्परस्थानमध्यगतत्वाद् इत्यादिरूपेण प्रयोगसम्भवाद् इति भावः ।
॥ अवरत्वेऽपीति ॥ ‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाऽख्यानां समवाये परदौर्बल्यमर्थविप्रकर्षात्’ इति जैमिनिसूत्राद् इति भावः ॥ भिन्नवाक्येति ॥ उपक्रमोपसंहाराविति श्रुतिर्लिङ्गमिति भिन्नस्मृतिगृहीतत्वादित्यर्थः । क्कचिद् उपक्रमाऽदीनां तात्पर्यलिङ्गत्वमेतेषां पुनरर्थ एवेति विशेषज्ञापनार्थो योगविभाग इत्येव पाठः । उपक्रमाऽदेः शब्दरूपत्वात् कथमनुमानता ? इत्यत आह ॥ उपक्रमाऽदीनामिति ॥ नोक्तेति ॥ प्रमाणत्रित्वे विरोधो नेत्यर्थः
॥ पूर्ववदिति ॥ कुरुपाण्डववत् सामान्यविशेषभावेन परिहार इत्यर्थः ॥ अत्रापीति ॥ समाऽख्याऽऽदावपीत्यर्थः । व्याप्तिबलेनार्थगमकत्वरूपयुक्तिरनु-सन्धेयेत्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
॥ वाक्यमुक्तमिति ॥ आकाङ्क्षासन्निधियोग्यतावन्ति पदानि वाक्यम् इति वाक्यलक्षणं पूर्वमुक्तमित्यर्थः ॥ एकार्थावच्छिन्नमिति ॥ एकार्थप्रतिपादकत्वावच्छिन्नम् एकार्थप्रतिपादकमिति यावदित्यर्थः ॥ तादृशमिति ॥ कयाचिद्विवक्षया एकार्थवच्छिन्नं प्रकरणजातमित्यर्थः । उक्तम् अनुप्रमाणत्रित्वं
ननु समाऽख्यावाक्येत्यादिवाक्ये समाऽख्याया आदित्वेन ग्रहणमनुपपन्नम् । तथा हि, ‘श्रुतिलिङ्ग वाक्यप्रकरणस्थानसमाऽख्यानां समवाये परदौर्बल्यमर्थ-विप्रकर्षात्’ इति जैमिनिसूत्रोक्त एव वास्तवः क्रमः । उक्तञ्चानुव्याख्याने,
वाक्यं प्रकरणं स्थानं समाऽख्या च तथाविधा’ इति ।
अतस् तदनुसारेण वाक्यप्रकरणस्थानसमाऽख्याश्च इति वक्तव्यत्वाद् इत्यत आह ॥ समाऽख्याया इति ॥ समाऽख्याया इति षष्ठी । वाक्याऽदेरिति पञ्चमी ॥ तदादित्वेन ग्रहणमिति ॥ तस्याः समाऽख्याया आदित्वेन ग्रहणमित्यर्थः ॥ अनुसृत्येति ॥ तथा च तद्वद् अत्रापि क्रमो न विवक्षित इत्यर्थः ।
अत्रापि योगविभागेनान्तर्भावकथने निमित्तमाह ॥ उपक्रमाऽदीनामिति ॥ उपक्रमाऽदीनां वाक्यतात्पर्यनिर्णय एव लिङ्गत्वम् । समाऽख्याऽऽदीनां तु एतद्वाक्यम् एतदर्थकं तादृशसमाख्याऽऽद्युपेतत्वाद् इत्येवम् आगमार्थविशेष-निश्चायकतया तत्रैव लिङ्गत्वम् इति विशेषज्ञापनार्थो योगविभाग इत्यर्थः ।
ननु उपक्रमाऽदीनां कथं लिङ्गत्वमुच्यते? आगमतया स्वार्थनिश्चायकत्वेन स्वार्थे आगमत्वाद् इत्याशङ्क्य उपक्रमाऽदीनां स्वार्थ आगमत्वेऽपि आगमतात्पर्य-निर्णय एव लिङ्गत्वाङ्गीकारात् त एव सोपपत्तयो लिङ्गानि इत्युक्तविरोधो नास्तीत्याह ॥ उपक्रमाऽदीनामिति ॥ तर्हीति ॥ यद्येते समाऽख्याऽऽदयोऽनु-मानेऽन्तर्भूतास्तर्हीत्यर्थः ॥ पृथगुक्तिरिति ॥ ‘श्रुतिर्लिङ्गं समाख्या च’ इति वाक्य इत्यर्थः ।
॥ पूर्ववदिति ॥ कुरुपाण्डवन्यायेन समाऽख्याऽऽदीनामपि लिङ्गविशेषत्वेन लिङ्गपदेन समाऽख्याऽऽद्यतिरिक्तलिङ्गग्रहणाद् इति पूर्वोक्तन्यायेन परिहार इत्यर्थः।
नन्वेवं समाऽख्याऽऽदीनां लिङ्गात् पृथगुक्तिं सामान्यविशेषभावमाश्रित्य अन्यथा व्याख्याय एतेषामनुमानान्तर्भावाङ्गीकारे को हेतुः ? इत्यत आह ॥ अत्रापीति ॥ पूर्वोक्ता युक्तिरिति ॥ लिङ्गव्याप्तिबलेनार्थधीहेतुर्यथा तथा समाऽख्याऽऽदयोऽपि ‘यद् वाक्यं यदर्थकसमाऽख्याऽऽद्युपेतं तद् वाक्यं तदर्थकम्’ इति व्याप्तिबलेनार्थबोधकाः । अतः कथं नानुमानान्तर्भावः ? इत्येवं त एव सोपपत्तयो लिङ्गानि इति वाक्योक्ता युक्तिरनुसन्धेयेत्यर्थः ।
प्रमाणलक्षणटीकाविवरणं
ननु समाख्यावाक्यप्रकरणस्थानानीत्युद्देशः किं प्राधान्यानुसारेण, उताप्राधान्यानुसारेण । नाद्यः । तथात्वे हि वाक्यप्रकरणस्थानसमाख्या इति वक्तव्यम्। नतु समाख्यावाक्यप्रकरणस्थानानीति । तस्या वाक्याद्यपेक्षया दुर्बलत्वात्। न द्वितीयः । अप्राधान्यानुसरेणोद्देशे समाख्यास्थानप्रकरणवाक्यानि चेति वक्तव्यम् । तथाचा-यमनुवादोऽनुपपन्न इत्यत आह ॥ समाख्याया इति ॥ तदादित्वग्रहणमिति ॥ तस्या आदित्वेन ग्रहणमित्यर्थः । तस्योपकृमादेरादित्वेनेति वा ।
ननु उपक्रमादेरिव श्रुत्यादेरप्यनुमानत्वे योगविभागः किमर्थ इत्यत आह ॥ उपक्रमादीनामिति ॥ तथाच तेषां तात्पर्यनिर्णये एतेषां चाऽगमर्थविनिर्णय इति वैलक्षण्यं दर्शयितुं योगविभागः ।
नन्वेवमुपक्रमादेरपि तात्पर्यनिर्णये लिङ्गत्वं कथमुच्यते । स्वार्थे आगमत्व-स्यापि सत्वात् । तथाच पूर्वविरोध इत्यत आह ॥ उपक्रमादीनामिति ॥ पूर्ववत्परिहार इति ॥ यथोपक्रमादीनां लिङ्गत्वेऽपि तद्विशेषात्वात्पृथगुक्तिः कुरुपांडवन्यायेन । एवमेतेषामपि तेनैव न्यायेन तद्विशेषत्वेन पृथगुक्तिरिति परिहार इत्यर्थः ।
नन्वेतेषां पृथगुक्तेरन्यथाव्याख्यानं तदा कर्तव्यं प्रमाणांतरेणैषामनुमानत्वं निश्चितं स्यादित्यत आह ॥ अत्रापीति ॥ लिङ्गवत् तेषामपि व्याप्तिज्ञानसहकारेण अर्थबोधाजनकत्वेन लिङ्गत्वं निश्चितमिति। पूर्ववदित्यर्थः ।