१३ उपक्रमादीनामनुमानान्तर्भावः

उपक्रमोपसंहारतदैकरूप्याभ्यासापूर्वताफलार्थवादाश्च

उपक्रमादीनामनुमानान्तर्भावः

प्रमाणलक्षणटीका

तथाऽपि वाक्यतात्पर्यज्ञापकान्युपक्रमाऽदीनि पृथक् प्रमाणानि सन्तीत्यत आह –

प्रमाणलक्षणम्

***उपक्रमोपसंहारतदैकरूप्याभ्यासापूर्वताफलार्थवादाश्च ***

चोऽनुमेत्यस्यानुकर्षणार्थः । प्रकरणाऽदिरुपक्रमः । तदन्त उपसंहारः । तयोरुपक्रमोपसंहारयोरेकार्थत्वं तदैकरूप्यम् ।

एकप्रकारासकृदुक्तिरभ्यासः । प्राचुर्येण प्रमाणान्तराप्राप्तता अपूर्वता । फलवत्वं फलम् । स्तुतिर्निन्दा परकृतिः पुरा-कल्पोऽर्थवादः । एतेषां वाक्यतात्पर्ये अनुमात्वान्नोक्तविरोधः। यद्येतेऽनुमानेऽन्तर्भूतास्तर्हि कथं तेषां

‘‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।

अर्थवादोपपत्ती च लिंगं तात्पर्यनिर्णये’’

इति उपपत्तितः पृथगुक्तिरित्यत आह

***उपपत्तिविशेषाः ***

यथा खलु पाण्डवानां कौरवान्तर्भावेऽपि कौरवेभ्यः पृथगुक्तिः कौरवविशेषत्वेन साक्षादेकत्वाभावेन कौरवपदेन तदतिरिक्तग्रहणात् ,तथा प्रकृतेऽपीति ।

नन्वेवं पृथगुक्तिमन्यथा व्याख्यायैषामनुमानान्तर्भावां-गीकारे को हेतुः ? इत्यत आह

***त एव सोपपत्तयो लिङ्गानि ***

उक्ता इति शेषः । यथा ‘उपक्रमोपसंहारौ’ इत्यत्रोपपत्तेर् लिङ्गत्वमुच्यते तथा उपक्रमाऽदीनामपि । अतो युक्तमुक्तम् ।

किं च यथोपपत्तिर्लिङ्गं व्याप्तिबलेनार्थधीहेतुस् तथोपक्रमाऽदयोऽपि ‘यत्र यद् उपक्रम्यते तत्रापवादाभावे तत् तात्पर्यगोचरः’ इत्यादिव्याप्तिबलेनैवार्थबोधकाः । अतः कथं नानुमानेऽन्तर्भावः ? इत्याह ॥ त एवेति ॥ एतेनागमान्त-र्भावोऽपि परास्तः । नह्यागमवद् व्याप्तिमनपेक्ष्य बोधका एते अनुभूयन्ते । तेषामागमार्थविषयत्वज्ञापनार्थो योगविभागः।

प्रमाणलक्षणटीकाभावदीपः

‘गिरिरग्निमान् वह्निमान्, इत्यादेरभ्यासत्वनिवृत्यर्थमुक्तम् एकप्रकारेति ॥ न चासकृदुक्तिर्व्यर्थेति शङ्क्यम् । दुरधिगमेऽर्थे तात्पर्याभावशङ्कानिरासाथर्ं तस्या अर्थवत्वात् ।

॥ प्राचुर्येणेति ॥ स्वबोधनीयपुरुषगताज्ञानाऽदिविरोधिना स्वानुपजीविना प्रमाणान्तरेणाऽग्राह्यार्थता इत्यर्थः । तेन वेदार्थस्य धर्माधर्माऽदेर् ईश्वरसार्वज्ञ्याऽदेश्च स्मृतिवाक्येन सर्वकर्तृत्वाऽद्यनुमानेन च ग्राह्यत्वेऽपि तयोर्वेदोपजीवित्वाद् वेदस्य अपूर्वतासिद्धिः । वेदार्थस्य वेदानुपजीवीऽश्वरप्रत्यक्षग्राह्यत्वेऽपि ईश्वरस्य वेदबोधनीयत्वाभावाद् वेदबेधनीयास्मदादिगताज्ञानाऽदिकं प्रति चेश्वरज्ञानस्याविरोधित्वाद् वेदस्यापूर्वताप्राप्तिः । प्रत्यक्षग्राह्येऽर्थे प्राक् प्रवत्तस्य शब्दस्य तदगृहीतार्थत्वेऽपि तदग्राह्यार्थत्वादपूर्वताऽभावः । स्मृतीनां स्वानुपजीविवेदग्राह्यार्थत्वेऽपि वेदे नानाशाखासु अस्पष्टं विक्षिप्योक्तस्य स्मृतिभिरिव वेदेन स्मृतिबोधनीयैरस्मदादिभिरग्राह्यत्वाद् अपूर्वता । एवं वादिविप्रतिपत्तिजन्यातत्वावेदकत्वशङ्काकलङ्कितेन सर्वविषयेण प्रत्यक्षेण ‘विश्वं सत्यम्’ इत्यादिवाक्येनैव जगत्सत्यत्वाऽद्यप्राप्तेस् तद्वाक्यस्यापूर्वता इत्येवं ज्ञेयम् ।

स्तुतिर्गुणकीर्तनम् । दोषकीर्तनं निन्दा । एककर्तृकोपाख्यानम् परकृतिः। बहुकर्तृकोपाख्यानम् पुराकल्पः । अक्षाऽदिशब्द इव नानाऽर्थोऽयम् अर्थवादशब्द इति भावः । ॥ एतेषामिति ॥ उपक्रमादीनामित्यर्थः । तात्पर्यं नाम तत्प्रमित्युद्देशेन प्रवृतत्त्वरूपं तत्प्रमितिशेषत्वम् । प्रत्येकं तद् अनुमापयन्त्येत इत्येकैकस्याननुगमेऽपि न दोषः । तेषामुदाहरणानि ब्रह्मतन्त्रे व्यक्तानि । विस्तरभिया अत्र नोच्यन्ते

॥ नोक्तेति ॥ त्रित्वविरोधो नेत्यर्थः ॥ पृथगुक्तिरिति ॥ ‘सन्तानबीजं कुरुपाण्डवानाम्’ इति दशमस्कन्ध इति भावः ॥ इति शेष इति ॥ त एव उपक्रमाऽदय एव, उपपत्तिसहिता लिङ्गानि उक्ताः , लिङ्गत्वेनोक्ताः प्रागुक्तस्मृताविति योजना । तथैव व्यनक्ति ॥ यथेति ॥

अध्याहारं विनैव योजनान्तरमाह ॥ किं चेति ॥ उपपत्तेः सिद्धस्य लिङ्गत्वस्योपन्यासो दृष्टान्तार्थ इत्यभ्युपेत्याऽह ॥ यथेति ॥ लिङ्गपदार्थमाह ॥ व्याप्तिबलेनेति ॥ ‘लीनम् अर्थं गमयति लिङ्गम्’ इति व्युत्पत्तेरिति भावः ।

‘यत्र यद् उपक्रम्यते तत्र तत् तात्पर्यगोचरः’ इत्येवोक्तौ ‘ह्वयाम्यग्निं प्रथमं स्वस्तये’ इति सावित्रसूक्ते अग्नेरुपक्रमेऽपि तत्सूक्ततात्पर्यगोचरत्वं नेति व्यभिचारनिरासाय अपवादाभाव इत्युक्तम् । तत्र सवितृश्रुतिलिङ्गाऽदेरपवादस्य भावादिति भावः ।

॥ इत्यादीति ॥ ‘यत्र यद् उपसंह्नियते तत्र तत् तात्पर्यगोचरो ऽपवादाभाव इत्यादि ध्येयमित्यर्थः । ‘तस्यैष एव शारीर आत्मा यः पूर्वस्य’ इति जीवप्रापकोपसंहारे सत्यपि न तत्र तस्य तात्पर्यगोचरत्वम् इत्यतो ऽपवादाभाव इत्युक्तिः । तत्र ब्रह्मशब्दाभ्यासरूपापवादात् ‘जीवाद्भवन्ति भूतानि जीवे तिष्ठंन्यचञ्चलाः’ इत्यादावभ्यासे सत्यपि न जीवपरत्वम्, ब्रह्मपरत्वप्रापकापूर्वतालक्षणापवादाद् इत्यादि ध्येयम् । त एवेतीतिप्रतीकमुखेन वाक्यमात्नस्य ग्रहणम् ॥ एतेनेति ॥ व्याप्तिबलेनार्थगमकत्वकथनेनेत्यर्थः । अत्रोपक्रमोपसंहारेत्येवं क्रमेण निर्देशस् तेषामन्योन्यविरोधे सति उत्तरोत्तरेण पूवपूर्वस्य बाधेनाऽर्थनिर्णयः कार्य इति सूचयितुम् ।

‘उपक्रमाऽदिलिङ्गानां बलीयो ह्यत्तरोत्तरम्’ इत्युक्तेः ।

यत्रैकस्यार्थस्योपक्रममात्रमुपसंहारमात्रं वा तत्रोपक्रान्ताऽदिमात्रार्थे तात्पर्यम्, यत्र तु वाक्ये उभयं तत्र तदविरोधलक्षणैकरूप्याद् उभयानुगुणेऽर्थे तात्पर्यम् इति ज्ञापनाय तदैकरूप्यस्याप्युक्तिः । प्रागुक्तस्मृतावपि ‘उपक्रमोपसंहारौ’ इत्यत्र प्रत्येकविवक्षया विशकलितौ द्वाविव समुदायविवक्षया तदैकरूप्यमिति विवक्षितम् । तेन ‘त एव’ इति वाक्ये ऐकरूप्यस्यापि उपपत्तेरिव तल्लिङ्गत्वोक्तिः सिद्धेति ज्ञेयम् । यस्य वाक्ये यस्मिन्नर्थे उपक्रमोपसंहारयोरैकरूप्यं तत्र तदर्थे तात्पर्यम् । यथा ‘ब्रह्मविदाप्नोति परम्’ इति ज्ञानिप्राप्यत्वेनोपक्रमः, तथैव ‘स य एवंविद् अन्नमयमात्मानमुपसंक्रम्य’ इति ज्ञानिप्राप्यत्वेन उपसंहारात् तद्वाक्यसन्दर्भः सर्वोऽपि ब्रह्मपर इत्यादि ध्येयमिति भावः ।

ननु आत्माऽश्रयेत्यादिवाक्य एवोपक्रमाऽदयोऽपि निर्देष्टव्याः । कुतो वाक्यभेद इत्यत आह ॥ तेषामिति ॥

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ सन्तीति ॥ अतोऽनुप्रमाणत्रित्वभङ्ग इति भावः । चश् चशब्दः ॥ प्राचुर्येणेति ॥ अन्यथा प्रमाणसम्प्लववादिनामस्माकं मते वेदवेद्यस्येश्वरा-देर्योगिप्रत्यक्षाऽदिरूपप्रमाणान्तराप्राप्तार्थताऽभावाद् असम्भवः स्याद् इत्यतः प्राचुर्येणेत्युक्तम् । बाहुल्येनेत्यर्थः । क्वचित् तदभावो न दोषायेति भावः । प्रमाणान्तराप्राप्तता अपूर्वता इत्येव क्वचित् पाठः । तत्र प्राचुर्येणेति पदमध्याहार्यम् । अन्यथा उक्तरीत्याऽसम्भवाऽपत्तेरिति ध्येयम्

॥ स्तुतिरित्यादि ॥ गुणसङ्गीर्तनं स्तुतिः । दोषसङ्कीर्तनं निन्दा ॥ कर्तृनामनिर्देशपूर्वकमितिहासकथनम् परकृतिः । सामान्यतः कथाकथनम् पुराकल्पः । अन्ये तु एककर्तृकवाक्यम् परकृतिः । बहुकर्तृकवाक्यम् पुराकल्प इत्यप्याहुः । ॥ अनुमानत्वादिति ॥ ‘इदं वाक्यम् अस्मिन्नर्थे तात्पर्योपेतं तादृशोपक्रमाद्युपेत-त्वात्, इत्येवंरूपेणानुमानत्वाद् इत्यर्थः ॥ नोक्तविरोध इति ॥ प्रमाणत्रित्वस्य विरोधो नेत्यर्थः ।

॥ पृथगुक्तिरिति ॥ ‘सन्तानबीजं कुरुपाण्डवानाम्’ इत्यत्रेत्यर्थः ॥ साक्षादेकत्वाभावेनेति ॥ घटकलशवन् निर्विशेषाभेदाभावेनेत्यर्थः ॥ तथा प्रकृतेऽपीति ॥ उपक्रमाऽदीनामप्युपपत्तिविशेषत्वेन उपपत्तिपदेन तदतिरिक्तोपपत्तिग्रहणाद् इत्यर्थः ।

॥ अन्यथेति ॥ सामान्यविशेषभावेनेत्यर्थः ॥ उक्ता इतीति ॥ त एव उपक्रमाऽदयः, सोपपत्तय उपपत्तिसहिता लिङ्गान्युक्ता लिङ्गत्वेनोक्ताः, इति मूलार्थमभिप्रेत्य सोपपत्तय इत्यस्याभिप्रायमाह ॥ यथो पक्रमेति ॥ युक्तमुक्तमिति ॥ उपपत्तिविशेषत्वेन पृथगुक्ंित व्याख्याय अनुमानान्तर्भावमङ्गीकृत्य प्रमाणत्रित्वकथनं युक्तमित्यर्थः ।

ननूपपत्तेर्व्याप्तिबलेनार्थधीहेतुत्वाद् युक्तं लिङ्गत्वम् । उपक्रमाऽदीनां तु कथं तत् ? इत्याशङ्कानिरासार्थत्वेनापि एतदेव वाक्यमवतारयति ॥ किं चेत्यादिना ॥ सोपपत्तय इत्यस्याभिप्रायमाह ॥ यथोपपत्तिर्लिङ्गमिति ॥

लिङ्गमित्यस्यार्थमाह ॥ व्याप्तीति ॥ तदेव विवृणोति ॥ यत्रेति ॥ यत्र यद् उपक्रम्यते तस्यैव तत्तात्पर्यविषयत्वम् इत्यङ्गीकारे ‘एकमेवाद्वितीयम्’ इत्युपक्रमाज् जीवपरमात्माभेदस्य ‘तत्वमसि’ इति इति श्रुतितात्पर्यविषयत्वाऽपत्तिर् इत्यत उक्तम् ॥ अपवादाभाव इति ॥ तत्र च विरुद्धधर्माधिकरणत्वयुक्तियुक्ता ‘भिन्नो चिन्त्यः’ इत्यादिश्रुतिरेवापवादकभूताऽस्तीति नाभेदस्तत्र श्रुतितात्पर्यविषय इत्यर्थः । यथोक्तम् ‘पृथगुपदेशात्’ इति ।

॥ एतेनेति ॥ उपक्रमाऽदीनां व्याप्तिबलेनार्थधीहेतुतया लिङ्गत्ववचनेनेत्यर्थः । तदेव विशदयति ॥ न हीति ॥ अत्रापि योगविभागेनान्तर्भावकथने निमित्तमाह ॥ एतेषामिति ॥ अर्थाऽपत्त्यादीनां केवलं बाह्यार्थ एव लिङ्गत्वम्, उपक्रमाऽदीनां तु आगमार्थविषयत्वमेव आगमस्यार्थविशेषे तात्पर्यनिश्चायकत्वमिति विशेषज्ञापनार्थो योगविभाग इत्यर्थः ।

प्रमाणलक्षणटीकाविवरणं

कौरवपदेन तदतिरिक्तग्रहणादिति ॥ ‘‘संतानबीजं कुरुपाण्डवानाम्’’ इत्यत्र कौरवपदेन पाण्डवातिरिक्तकौरवग्रहणादित्यर्थः ।

उपपत्तेर्लिंगत्वे विवादाभावात् सोपपत्तय इति उपपत्तिग्रहणं किमर्थमित्यतः दृष्टांतत्वेनेत्याह ॥ यथेति ॥ नन्वेवमुपक्रमादीनामनुमानत्वे योगविभागः किमर्थम् ? एकवाक्येनैव तत्प्रतिपादनंसंभवादित्यत आह ॥ एषामिति ॥ यथा खल्वर्थापत्त्यादेः केवलं लिङ्गत्वमेवास्ति नैवमुपमादीनाम् । तेषां तात्पर्यनिर्णये अनुमानत्वेपि स्वार्थे आगमत्वादिति वैलक्षण्यमुपपादयितुं योगविभाग इति भावः

॥ वाक्यमुक्तमिति ॥ आकांक्षासन्निधियोग्यतावत्पदसमूहो वाक्यमिति वाक्यलक्षणमुक्तमित्यर्थः ॥ तादृशमिति ॥ कयाचिद्विवक्षया एकार्थत्वावच्छिन्नं प्रकरणजातमित्यर्थः ॥