आत्मान्योन्याश्रयचक्रकानवस्थाकल्पनागौरव श्रुतदृष्टहानाऽदयो दूषणानुमा
तर्कस्यानुमानान्तर्भावः
प्रमाणलक्षणटीका
ननु तर्कः प्रमाणं न वा । प्रमाणमिति ब्रूमः । कथं तर्हि त्रित्वम्? इत्यतस्तत्स्वरूपं विवृण्वन्नाह ।
प्रमाणलक्षणम्
***आत्मान्योन्याश्रयचक्रकानवस्थाकल्पनागौरव श्रुतदृष्टहानाऽदयो दूषणानुमा ***
आदिपदेनाश्रुतकल्पनमदृष्टकल्पनं च संगृह्यते । एतत्प्रसं-जनमिहोपलक्ष्यते । व्याप्यांगीकारेऽनिष्टव्यापकप्रसंजनं तर्कः। द्विविधमनिष्टम् । प्रामाणिकहानमप्रामाणिककल्पनं च । तत् पुनः पंचविधम् । आत्माऽश्रयान्योैन्याऽश्रयचक्रकानवस्था-निष्टभेदात् । सर्वस्य अनिष्टत्वेऽपि गोबलीवर्दन्यायेन पृथगुक्तिः।
तत्राद्यचतुष्टयमप्रामाणिककल्पनाऽत्मकम् । न हि कुत्राप्यात्मा-ऽश्रयाऽदिकं प्रमाणसिद्धम् । पंचममुभयात्मकम् । तत्राप्याद्यं द्विविधम् । श्रुतदृष्टहानभेदात् । द्वितीयमपि तथा । अश्रुतादृष्ट-कल्पनभेदात् । तदेव कल्प्यानेकत्वे कल्पनागौरवम् ।
एतत्प्रसंजनाऽत्मकस्तर्कोऽपि पंचधाभिद्यते । तस्य पंचांगानि। प्रसंजकस्य प्रसंजनीयेन व्याप्तिः, प्रतितर्कैरप्रतिघातः , प्रसंजनीयस्य विपर्यये पर्यवसानं, प्रसंजनीयस्यानिष्टत्वं , प्रतिपक्षासाधकत्वं चेति ।
तस्यैवोत्पत्तिज्ञप्त्यर्थं तदुत्पत्तिज्ञप्त्यपेक्षायामात्माश्रयत्वप्रसंगः।
यदुत्पत्त्याद्यधीनं यदुत्पत्त्यादि तदुत्पच्याद्यर्थं तदुत्पत्त्या-द्यपेक्षायामन्योन्याऽश्रयत्वप्रसंगः ।
यदुत्पत्त्याद्यधीनं यदुत्पत्त्यादि तदुत्पत्त्यादौ परंपरया तदुत्पत्त्या-द्यपेक्षायामन्योन्याऽश्रयत्वप्रसंगः ।
यदुत्पत्त्याद्यधीनं यदुत्पत्त्यादि तदुत्पत्त्याद्यर्थं तदुत्पत्त्याद्यपेक्षायां चक्रकप्रसंगः।
उत्पत्त्यादावन्योत्पत्त्याद्यपेक्षाया अपर्यवसानेऽनवस्थाप्रसंगः ।
अत्र ‘यद्येवमभ्युपगमस् तदाऽऽत्माश्रयादिप्रसंगः । यत्रैवम-भ्युपगमस् तत्र तत्प्रसंगः यथाऽमुत्र । यदि नाऽत्माऽश्रयाऽदिस् तर्हि नैतदपि’ इति प्रवृत्तिप्रकारः ।
सामान्यत एव व्याप्तिर्वाच्या । श्रुतहानं यथा ‘यदीऽश्वरो न सर्वज्ञस् तर्हि न जगत्कर्ता स्यात्’ इति ।
दृष्टहानं यथा ‘यदि पर्वतोऽनग्निमान् तर्हि निर्धूमः स्यात्’ इति।
अश्रुतकल्पनं यथा ‘यदीश्वरो जीवाभिन्नस् तर्हि दुःखी स्यात्’ इति ।
अदृष्टकल्पनं यथा ‘यदि पीतमुदकमन्तरधक्ष्यत् तर्हि मामपि दहेद् अविशेषात्’ इति ।
यत्राऽपाद्याऽपादकयोर्न साक्षात्सामानाधिकरण्यं तत्र तथैवानुपपत्तौ प्रकारान्तरेणैकाधिकरणतामापाद्य व्याप्तिरभिधातव्या । यथा ‘यदि देवदत्तः सर्वज्ञस्तर्हि यज्ञदत्तोऽपि तथा स्यात्’ इत्यत्र ‘यत्र यो धर्मो वर्तते स तदविशिष्टेऽपि वर्तत’ इत्यादि । सोयं तर्कोऽनुमान एवान्तर्भूतोऽतो न प्रमाणत्रित्वभंगः ।
प्रमाणलक्षणटीकाभावदीपः
कथं त्रित्वम् ? इत्याक्षेप्तुं पृच्छति ॥ नन्विति ॥ अपेक्षितसामान्यलक्षणविभागौ स्वयमुक्त्वा मूलवाक्ये घटयति ॥ व्याप्याङ्गीकार इति ॥ प्रसञ्जनमिति ॥ आपादनमित्यर्थः ।
॥ तर्कइति ॥ तर्क्यते साधनस्य साध्यव्याप्यत्वम् प्रमीयते अनेन प्रसञ्जनेति करणव्युत्पन्नोऽयं तर्कशब्दो ज्ञेयः॥ तत्साध्यं च साधनस्य साध्यव्याप्यत्वम् ॥ तत्पुनरिति ॥ द्विविधमनिष्टमित्यर्थः ॥ गोबलीवर्दन्यायेनेति ॥ आत्माऽश्रयाऽदिरनिष्टविशेष इति सामान्यविशेषभावेन पृथगुक्तिरित्यर्थः।
॥ तत्राऽपीति ॥ प्रामाणिकहानाप्रामाणिकल्पनरूपोभयाऽत्मकेऽप्यनिष्ट इत्यर्थः ॥ तथेति ॥ द्विविधमित्यर्थः । तदेव अश्रुतादृष्टकल्पनरूपमनिष्टमेवेत्यर्थः ॥ एतत्प्रसञ्जनाऽत्मकइति ॥ आत्माऽश्रयाऽदिचतुष्टयपञ्चविधानिष्ट-प्रसञ्जनाऽत्मक इत्यर्थः ॥
॥ तदुत्पत्त्यादाविति ॥ प्रथमोत्पत्त्यादावित्यर्थः ॥ परम्परयेति ॥ द्वित्रकक्ष्याऽनन्तरं पुनराद्योत्पत्तिज्ञप्त्यपेक्षायामित्यर्थः ॥ अत्रेति ॥ आत्माऽश्रयाऽ-दितर्के । इति प्रवृत्तिप्रकार इत्यन्वयः ।
॥ यद्येवमिति ॥ ‘घटोत्पत्तिज्ञप्त्योर्घटोत्पत्तिज्ञप्त्यधीनत्वमभ्युपगम्यते तदा आत्माऽश्रयः स्याद् यथा घटाऽदौ । न चेद् आत्माऽश्रयोऽङ्गीक्रियते तर्हि घटोत्पत्तिज्ञप्त्यधीनत्वं घटोत्पत्तिेेज्ञप्त्योर्न’ इत्येवमित्यर्थः ।
आदिपदेन अन्योन्याऽश्रयचक्रकाऽदिर्ग्राह्यः । आपाद्यस्याप्रामाणिककल्पना-रूपत्वेन विशिष्य व्याप्त्युक्तौ दृष्टान्ताभावादाह ॥ सामान्यत एवेति ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
त्रित्वं प्रमाणानां त्रित्वम् । ननु ‘तर्कोऽनिष्टप्रसङ्गः स्यात्’ इत्यनिष्टप्रसञ्जनस्यैव तर्कत्वे नोक्तेर् आत्माऽश्रयाऽदेश्च प्रसञ्जनरूपत्वाभावात् कथं तर्कस्वरूपत्वम् ? इत्यत आह ॥ एतत्प्रसञ्जनमिति ॥ व्याप्येति ॥ ‘वह्निर्माऽस्तु’ इति वह्न्यभावाऽदिव्याप्याङ्गीकारे व्यापकं धूमाभावाऽदि ॥ द्विविधमिति ॥ ‘‘अनिष्टस्य द्वयी विधा । प्रमाणिकपरित्यागस्तथेतरपरिग्रहः ’’ इति वचनादिति भावः । तद् अनिष्टम् । ननु आत्माऽश्रयाऽदेरेवानिष्टत्वेन तस्य आत्माऽश्रयाऽदेः पृथगुक्तिरयुक्ता इत्यत आह ॥ सर्वस्येति ॥ सामान्यविशेषभावेनापुनरूक्तिरिति भावः । पञ्चमम् अनिष्टम् ।
उभयाऽत्मकं प्रामाणिकहानाऽप्रामाणिककल्पनाऽत्मकम् । आद्यं प्रामाणिकहानम् । द्वितीयमपि अप्रामाणिककल्पनमपि । तथाद्विविधम् । तदेव अश्रुतादृष्टकल्पनमेव ॥ कल्प्यानेकत्व इति ॥ कल्प्यानेकत्व इत्यर्थः ॥ यथा ‘शृङ्गाग्रे शशकस्य भानि गणयत्यन्धोऽह्नि वन्ध्यासुतः’ इति ।अनेकाश्रुतादृष्टकल्पन इति यावत् ।
नन्वेवमात्माऽश्रयाऽदेः पञ्चविधत्वेऽपि तर्कस्य किमायातम् ? इत्यत आह ॥ एतत्प्रसञ्जनाऽत्मक इति ॥ एतेषामात्माऽश्रयाऽदीनाम् आपादनाऽत्मक इत्यर्थः।
‘ ‘ व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये ।
अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ।
अङ्गपञ्चकसम्पन्नस्तत्वज्ञानाय कल्पते’ ’
इति वचनानुसारेणाऽह ॥ तस्येति ॥ प्रसञ्जकस्येत्यादि ॥ आपादकस्याऽ-पाद्येनेत्यर्थः ।
॥ प्रतिपक्षासाधकत्वं चेति ॥ विरुद्वहेत्वाभासवत् प्रतिपक्षासाधकत्व-मित्यर्थः । एतदेवाननुकूलत्वमित्युच्यते । अतो ऽननुकूलत्वस्य पञ्चमत्वेन पद्धतौ परिगणितत्वात् कथमेतत् ? इति शङ्काऽनवकाशः । एवम् आत्माऽश्रयाऽदिस्वरूप-मुक्त्वा तदापादनस्वरूपप्रकारं दर्शयति ॥ अत्रेति ॥ यद्येवमभ्युपगम इति ॥ घटोत्पत्त्याद्यर्थं घटोत्पत्त्याद्यभ्युपगम इत्यर्थः । अत्र विशेषव्याप्तौ दृष्टान्ताभावादाह ॥ यत्रैवमिति ॥ यथाऽमुत्रेति ॥ सामान्यत एव व्याप्तिर्वाच्येत्यन्वयः । अमुत्र घटाऽदौ । विपर्ययपर्यवसानमाह ॥ यदीति ॥ यदि इत्यनन्तरम् अमुत्र इत्येतद-नुवर्तनीयम्। श्रुतहानं श्रुतस्य हानाऽपादनम् । एवं दृष्टहानम् इत्येतदपि योज्यम् । अविशेषात् पीतत्वाविशेषात् । तदविशिष्टे तत्समाने ॥
प्रमाणलक्षणटीकाविवरणम्
प्रसंजनस्य तर्कत्वेन आत्माश्रयत्वादेश्च प्रसंजनरूपत्वाभावात् कथं तर्कत्वमित्यत आह ॥ एतत्प्रसंजनमिति ॥ तर्कस्यानुमानत्वं वक्तुं तर्कलक्षणमाह ॥ व्याप्येति ॥
नन्वात्माश्रयादेरप्यनिष्टत्वेनानिष्टस्य अनिष्टस्य ततः पृथगुक्तिरनुपपन्नेत्यत आह ॥ सर्वस्येति ॥ यथा खलु गावः समागता बलीवर्धाश्च समागता इत्यत्र बलीवर्दस्य गोत्वेऽपि तद्विशेषत्वाद् यथा न पुनरुक्तिः । एवमात्माश्रयादेरनिष्टत्वेऽपि तद्विशेषत्वेन न पुनरुक्तिरिति भावः ।
॥ तत् पुनः पंचविधमिति ॥ विरुद्धस्यानिष्टस्य पंचविधत्वं प्रत्येकमिति शङ्कां परिहरति ॥ तत्राद्येति ॥ तत्कुत इत्यत आह ॥ नहीति ॥ उभयात्मकं प्रामाणिकहानाप्रमाणिककल्पनात्मकम् ॥ तत्राप्याद्यमिति ॥ प्रामाणिकहानमित्यर्थः ॥ तथेति ॥ द्विविधमित्यर्थः ।
नन्वेवमात्माश्रयादेः पंचविधत्वेऽपि तर्कस्य किमायातमित्यत आह ॥ एतदिति ॥ प्रतिपक्षसाधकत्वं चेति ॥ विरुद्धत्वे भासमानवत्प्रतिपक्ष साधकत्वमित्यर्थः । एतदेव चाननुकूलत्वं चेति टीकाकारैः पद्धतौ पंचमत्वेनोक्त-मिति न विरोधः ।
तर्कस्वरूपमाह ॥ अत्रेति ॥ नन्वयं तर्को न संभवति । तर्के आपाद्येनाऽपादकस्य व्याप्तिरपेक्षिता । प्रकृते च नापादकस्यापाद्येन व्याप्तिः संभवति । यदि घटः घटं प्रति कारणं स्यात् तदा स्वापेक्षया पूर्ववृत्तिः स्यात् । यथाऽमुक इति दृष्टांताभावादिति । अतो विशेषव्याप्त्यसंभवेऽपि सामान्यव्याप्तिः संभवतीत्यभिप्रायेणाह ॥ यत्रैवमभ्युपगम इति ॥
तर्कस्य विपर्ययपर्यवसानमाह ॥ यदीति ॥ व्याप्तिर् यथा बाह्यार्थमपलपतो बौद्धस्य यदिदं स्थूलं स्यात् तर्हि स्थूलतया प्रतिभासेतेति बाह्याद्यवादिनाऽ-प्यभिधातव्येति । इदं च परमतानुसारेणोक्तम् । वस्तुतस्तु साध्यसाधनयोः सामानाधिकरण्यमनपेक्षितम् । पक्षधर्मताया अनावश्यकत्वात्।
अत एवोक्तं पद्धतौ – ‘‘अनुमानस्य द्वयं सामर्थ्यम् । व्याप्तिः समुचितदेशसिद्धिश्च। । नतु पक्षधर्मतानियमः’’ इति ।