०९ अनुपलब्धेः प्रत्यक्षाऽद्यन्तर्भावः

अभावोऽनुमा प्रत्यक्षं च

अनुपलब्धेः प्रत्यक्षाऽद्यन्तर्भावः

प्रमाणलक्षणटीका

तथाऽपि अभावाख्यं पृथक्प्रमाणमस्तीत्यत आह

प्रमाणलक्षणम्

***अभावोऽनुमा प्रत्यक्षं च ***

अभावविषयं प्रमाणमभावः । तत् त्रिविधम् ।

प्रत्यक्षार्थप्रतियोगिकाभावविषयं प्रमाणं यथा ‘नास्त्यत्र घट’ इति । आनुमानिकार्थप्रतियोगिकाभावविषयं प्रमाणं यथा, रूपज्ञानरहितस्य ‘नास्ति चक्षुः’इति । आगमिकार्थप्रति-योगिकाभावविषयं प्रमाणं यथा ‘वैधहिंसा न पापसाधनम्’ इति । तत्र प्रथमं प्रत्यक्षानुमानयोरन्तर्भवति । द्वितीयमनुमाने । विमतश् चक्षूरहितः रूपाज्ञत्वाद् घटवदिति प्रयोगसंभवात् । तृतीयमागमे । अतो युक्तो विभाग इति ।

अत्राभावद्वयस्यान्तर्भावानुक्तिस्तत्र वादिनामविवादात् । उभयत्रान्तर्भावाद् योगविभागः । प्रायेणानुमानेऽन्तर्भाव-ज्ञापनाय क्रमोल्लंघनम् । कथमेकप्रमाणस्योभयत्रान्तर्भाव इत्यत आह –

परामर्शापरामर्शविशेषात्

यदा ‘‘अत्र घटोऽस्ति न वा’’ इति परामर्शपूर्वकं योग्यानुपलब्धिरूपं घटाभावप्रमाणं प्रवर्तते तदाऽनुमाने । ‘घटोऽत्र नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वाद् गजवत्’ इति प्रयोगसंभवात् । यदा पुनरेवमपरामृश्य झडिति ‘‘नास्ति घटः’’ इति प्रवर्तते तदा प्रत्यक्ष इति न विरोधः । अयं च बहिरेव विभागो न तु सुखाऽद्यभावप्रमाणे । साक्षिणः सुखाऽदिस्वरूपे निश्चयरूपत्वेन परामर्शाभावात् ।

प्रमाणलक्षणटीकाभावदीपः

॥ अभावेति ॥ घटपटाऽद्यभावविषयकप्रमितिजनकम् अभावपदेनात्रोच्यत इत्यर्थः ॥ नास्ति चक्षुरितीति ॥ ‘‘रूपज्ञानं करणसाध्यं क्रियात्वाच् छिदिक्रियावत्’’ इति सामान्यपरिशेषानुमानगम्यं चक्षुरिति भावः ॥ वैधहिंसेति ॥ ‘अग्नीषोमीयं पशुमालभेत’ इत्यादिविध्यावगतपशुहिंसाया आगमैकवेद्यत्वाद् इति वा, पापसाधनत्वाऽदेरागमैकवेद्यत्वाद् इति वा, तदभाव आगमैकवेद्यप्रतियोगिकाभाव इत्यर्थः ॥ चक्षूरहित इति ॥ ‘रो रि’ इति लोपे ‘ढ््रलोपे पूर्वस्य दीर्घोऽणः’ इति दीर्घः । चक्षुर्हीन इत्यर्थः ॥ तृतीयमागम इति ॥ ‘आलभेत’ इत्यस्य तु पापसाधनं न, प्रत्युत इष्टसाधनम् इत्यर्थकत्वाद् इति भावः ॥ अत्राभावद्वयस्येति ॥ आनुमानिकप्रतियोगिकाऽगमिकप्रतियोगिकाभाव-द्वयस्येत्यर्थः ।

ननु ‘अर्थापत्त्युपमाऽभावा अनुमाविशेषः’ इति एकवाक्येनैव कस्मान्नोक्तम् ? कुतो वाक्यभेदेन अन्तर्भावोक्तिः? इत्यत आह ॥ उभयत्रेति ॥ प्रत्यक्षयोग्यप्रतियोगिकाभावप्रमाणस्य प्रत्यक्षप्रमाणे अनुमान प्रमाणे च उभयत्र अन्तर्भावान्निमित्ताद् वाक्यभेदेन अन्तर्भावोक्तिरित्यर्थः । ‘आभावः प्रत्यक्षमनुमा च’ इति वाच्यम् प्रत्यक्षस्य प्राथम्याद् इत्यत आह ॥ प्रायेणेति ॥ अभावप्रमाणस्येति योज्यम् ।

॥ कथमेकस्यैवेति ॥ तथात्वे एकस्यैय ज्ञानस्य स्वतन्त्रकरणद्वय-जत्वाऽपत्त्या परस्पर विरुद्धपरोक्षत्वापरोक्षत्वाऽपत्तेरिति भावः । परमाण्वादा-वव्यभिचाराय योग्यत्वे सतीति । पुरः स्थिते अव्यभिचाराय विशेष्यम् । न च लिङ्गस्य ज्ञातस्यैव करणत्वाद् अनुपलब्धेरपि अभावत्वेन तज्ज्ञानाय अनुपलब्ध्यन्तरापेक्षायामनवस्थितिरिति शङ्क्यं तस्याः साक्षिप्रत्यक्षसिद्धत्वेन अनवस्थाऽभावात् ॥ तदा प्रत्यक्ष इति ॥ इन्द्रियान्वयव्यतिरेकानुविधायित्वाद् अभावप्रत्ययस्य । तस्याधिकरणग्रह एवोपक्षीणत्वकल्पनं तु अपरोक्षाऽकारत्वस्य अनुभवसिद्धत्वाद् बाधकाभावाच्चायुक्तमिति भावः ।

ननु प्रातश्चत्वराऽदौ प्रतियोगिस्मृत्याभावेेन गजाभावमननुभूय देशान्तरं गतो गजस्मृतिमान् ‘प्रातश्चत्वरे गजो नाऽसीत्’ इति प्रतिपद्यते, नास्त्यत्र प्रत्यक्षस्यावकाश इति चेत् । सत्यम् ‘चत्वरे गजो नासीद् योग्यत्वे सति तदा मया अनुपलभ्यमानत्वात्’ न चासिद्घिः ‘गजः प्राक् तत्र तदा नोपलब्ध इदानीमस्मर्यमाणत्वान् न चात्राप्यसिद्धिः । स्मरणाभावस्य साक्ष्यनुभवसिद्धत्वाद् इत्यनुमानस्य तत्रापि प्रवृत्तिसम्भव इति भावः ॥ सुखाऽदिस्वरूपे निश्चयरूपत्वेनेति ॥ तथा च तदभावः साक्षिप्रत्यक्षैकवेद्य इति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ अभावविषयं प्रमाणमिति ॥ अभावविषयप्रमितिकरणम् अभावो ऽनुपलब्धिरित्यर्थः । अभावः प्रमाणम् अभावविषयप्रमितिकरणम् । एवमुत्तरत्रापि व्याख्येयम् ॥ प्रत्यक्षेति ॥ प्रत्यक्षयोग्यार्थेत्यर्थः ॥ नास्ति चक्षुरिति ॥ चक्षषो रूपज्ञानानुमेयत्वेनाऽनुमानिकत्वाद् इत्यर्थः । वैधहिंसा विधिवाक्यबोध्यहिंसा ॥ न पापसाधनमिति ॥ पापसाधनत्वस्य आगममात्रवेद्यत्वाद् इत्यर्थः ॥ अन्तर्भवतीति ॥ वक्ष्यमाणप्रकारेणेति भावः ।

॥ विभाग इति ॥ अनुप्रमाणं त्रिविधमिति विभाग इत्यर्थः । नन्वाचार्यैः प्रत्यक्षयोग्यार्थप्रतियोगिकाभावस्यैव प्रत्यक्षानुमानान्तर्भावः कथितः, न तु ‘आनुमानिकाऽगमिकार्थप्रतियोगिकाभावप्रमाणयोः । अतस्तत्र किं निमित्तम् ? इत्यत आह ॥ अत्रेति ॥ तत्रेति ॥ अनुमानाऽगमान्तर्भाव इत्यर्थः ।

ननु तथाऽपि ‘अर्थापत्त्युपमाऽभावा अनुमाविशेषाः’ इत्येकेनैव वाक्येन अर्थाऽपत्त्यादित्रयाणामप्यन्तर्भावस्य प्रतिपादयितुं शक्यत्वाद् अभावोऽनुमेति किमर्थं पुनर्योगविभागः ? इत्यत आह ॥ उभयत्रेति ॥ उक्तरीत्या एकेनैव वाक्येनान्तर्भावोक्तौ अर्थाऽपत्त्यादिवद् अनुमान एवान्तर्भावो विज्ञायेत । स मा विज्ञायि । किं तु ? अभावोऽनुमाने प्रत्यक्षे चेत्युभयत्रान्तर्भूत इति ज्ञापनार्थं योगविभाग इत्यर्थः ।

नन्वथापि प्रत्यक्षस्यानुमानापेक्षया प्राथम्यात् ‘अभावः प्रत्यक्षमनुमा च’ इति वक्तव्ये क्रमोल्लङ्घनं किमर्थम् ? इत्यत आह ॥ प्रायेणेति ॥ बाहुल्येनेत्यर्थः ॥ कथमेकप्रमाणस्येति ॥ अभावाख्यप्रमाणस्येत्यर्थः । प्रत्यक्षत्वे इन्द्रिय-सन्निकर्षजन्यत्वं वक्तव्यम्, अनुमानत्वे तु तदजन्यत्वम् । तच्च एकस्य विरुद्धमिति भावः ॥ योग्यत्वे सतीति ॥ परमाण्वादौ व्यभिचारवारणाय सत्यन्तम् । उपलभ्यमाने पटे व्यभिचारवारणाय विशेष्यभागः ।

ननु प्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रमाणस्योभयत्रान्तर्भावाङ्गीकारे आन्तरप्रत्यक्षविषयसुखाऽद्यभाव प्रमाणस्याप्युभयत्रान्तर्भावप्राप्त्या साक्षिणोऽपि अनुमानान्तर्भावः प्राप्त इति चेत् तत्राऽह ॥ अयं चेति ॥ ‘परामर्शा-परामर्शविशेषाद् अभावोऽनुमा प्रत्यक्षं च’ इति विभागो बहिरेव प्रत्यक्षयोग्यबाह्यार्थप्रतियोगिकाभावप्रमाणविषय एवेत्यर्थः ॥ सुखाऽद्यभावप्रमाण इति ॥ साक्षिरूप इत्यर्थः । कुतः ? इत्यत आह ॥ साक्षिण इति ॥ परामर्शाभावाद् इति ॥ येन सुखाऽद्यान्तरपदार्थप्रतियोगिकाभावप्रमाणरूपस्य साक्षिणोऽप्यनु-मानान्तर्भावः स्याद् इति भावः ॥

प्रमाणलक्षणटीकाविवरणं

नन्वेवमपि अनुप्रमाणं त्रिविधमिति विभागो न्यूनः । अभावाख्यस्य पृथक्प्रमाणस्य विद्यमानत्वदित्यभिप्रेत्य शङ्कते ॥ तथापीति ॥ अभावस्वरूपाज्ञाने तदंतर्भावस्य ज्ञातुमशक्यत्वात् तल्लक्षणमाह ॥ अभावविषयमित्यादिना ॥ नास्त्यत्र घट इति । घटाभावप्रतियोगिनो घटस्य प्रत्यक्षयोग्यत्वादित्यर्थः । यदा झडिति घटाभावोऽवधार्यते तदा तस्य प्रत्यक्षंेतर्भावः । यदा तु भूतलं घटाभाववत् तद्वत्तया अनुपलभ्यमानत्वादिति अनुपलब्ध्यादिसहकारेण तदनुमान इति भावः।

नन्वाचार्येण प्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रमाणस्येव प्रत्यक्षानुमान-योरंतर्भावः, अनुमानिकप्रतियोगिकाभावप्रमाणस्य वाऽगमिकप्रतियोगिका-भावप्रमाणस्यान्तर्भावः कुतो न कथित इत्यत आह ॥ अत्रेति ॥

ननु तथाऽपि अर्थापत्त्युपमानाभावा अनुमाविशेषा इति एकेनैव वाक्येनैव अर्थापत्त्युपमानाभावानामंतर्भावस्य प्रतिपादयितुं शक्यत्वादर्थापत्त्युपमे अनुमा-विशेषो ऽभावोऽनुमाप्रत्यक्षं चेति योगविभागः किमर्थं कृत इत्यत आह ॥ उभयत्रेति ॥ नचैवमप्युपमानस्यापि उभयत्रांतर्भावात् । तस्यापि पृथगेवांतर्भावविधायकं वाक्यं कर्तव्यमिति वाच्यम् । उभयत्रांतर्भावेऽपि तत्रोभयत्राविवादात् । अत्र पुन उभयत्र तत्सद्भावादिति भावः ।

ननु तथाऽपि प्रत्यक्षस्यानुमानापेक्षया प्राथम्येन प्रत्यक्षमनुमा चेति वाच्यम् । क्रमोल्लंघने किं निमित्तमित्यत आह ॥ प्रायेणेति ॥ कथमिति ॥ प्रत्यक्षत्वे हि इंद्रियसन्निकर्षजन्यत्वम् अनुमानत्वे तदजन्यत्वं तच्चैकस्येव विरुद्धमित्यर्थः ।

प्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रमाणस्य प्रत्यक्षानुमानयोरंतर्भावे प्रत्यक्षस्य बाह्यांतररूपत्वेन द्विविधत्वेन द्विविधस्यापि तत्रांतर्भावशङ्का स्यात् । तच्चानुपपन्नम् । आंतरस्योभयत्रांतर्भावाभावात् । तस्माद् बाह्यप्रत्यक्षयोग्यार्थप्रतियोगिकाभाव-प्रमाण्यस्यैवोभयत्रांतर्भावः । नत्वांतरस्येत्यभिप्रायेणाह ॥ अयं च विभाग इति ॥ संभवपरिशेषयोरनुमानेऽन्तर्भावं वक्तुं तल्लक्षणमाह ॥ अल्पेति ॥ प्रसक्तव्यवृत्ति-प्रतीतिरिति । प्रसक्तयोर्मध्ये एकस्यापरस्माद् व्यावृत्तिस्तत्प्रतीतिरित्यर्थः ।