०८ तार्किकोक्तोपमानस्यानुमानान्तर्भावः

अकृतसमयसंज्ञास्मरणसहायं तत्समभिव्याहृत-वाक्यार्थप्रत्यभिज्ञाप्रत्यक्षम् उपमानम्

तार्किकोक्तोपमानस्यानुमानान्तर्भावः

प्रमाणलक्षणटीका

अकृतसमयसंज्ञास्मरणसहायं तत्समभिव्याहृत-वाक्यार्थप्रत्यभिज्ञाप्रत्यक्षम् उपमानम् । संज्ञासंज्ञिसम्बन्धप्रमिति-स्तत्फलमित्यन्ये ।

तत्रातिदेशवाक्यार्थस्त्रिविधः । साधर्म्यं वैधर्म्यं धर्ममात्रं चेति। तद्भेदात् तत्प्रतिसन्धानात्मकमुपमानमपि त्रिधा भिद्यते ।

तत्र साधर्म्योपमानं यथा, ‘यथागौर्गंवयस्तथा’ इति श्रुतातिदेशवाक्यस्य नागरिकस्य वनं गतस्य गोसदृशं गवयमवलोकयतोऽव्युत्पन्नगवयपदस्मरणवतः ‘अयमसौ गोसदृशः य आप्तेनोपदिष्ट’ इति प्रतिसन्धानं,तेन तस्य गवयपदार्थत्वप्रमा।

वैधर्म्योपमानं यथा,‘गवादिवद् द्विशफो न भवत्यश्व’ इत्यतिदेशवाक्यं श्रुतवतो ऽश्वं पश्यतो ऽश्वपदं स्मरतः ‘अयमसौ गवादिविसदृश’ इति प्रतिसन्धानम् , तस्य तेनाश्वपदार्थत्वप्रमितिः ।

धर्ममात्रोपमानं यथा, ‘दीर्घग्रीवत्वाऽदिमान् पशुरुष्ट्र’ इत्यतिदेशवाक्यं श्रुतवतः क्रमेलकं पश्यतउष्ट्रपदस्मृतिमतः ‘अयमसौ तद्वर्मा’ इति प्रतिसन्धानम्, तेनोष्ट्रपदव्युत्पत्तिरिति।

तदेतत् त्रयमप्यनुमान एवान्तर्भूतम् । विमतो गवय-शब्दवाच्यो ऽगोत्वे सति गोसदृशत्वाद् व्यतिरेेकेण घटवदिति प्रयोगसंभवात् । अतो न विभागानुपपत्तिः । अत्रोपमानद्वयस्य अन्तर्भावानुक्तिर् अतिस्फुटप्रतिभासत्वात्, आगमान्तर्भूतत्वे विवादाभावाच्चेति ।

प्रयोगप्रकारवैचित्र्यात् कथमनुमानत्वमित्यत उक्तम् ॥ अनुमाविशेष इति ॥ यथाखल्वन्वयिनो व्यतिरेकिणश्च प्रयोगप्रकारवैचित्र्येऽपि नानुमानाद्बहिर्भावो ऽनुमान-विशेषत्वाद् अपेक्षितसाधर्म्यसद्धावाच्च तथाऽत्रापीति ।

एतेनोपमानस्यार्थविशेषनिष्ठतया पार्थक्यशंकाऽपि परास्ता । तादृशसंप्रतिपन्नानुमानवदेव तदुपपत्तेः । अनेनैव ‘‘न च केवलतर्केण’’ इत्यादिपृथगुक्तेर्गतिश्चोक्ता भवति

प्रमाणलक्षणटीकाभावदीपः

तार्किकोक्तमुपमानमाह ॥ अकृतेति ॥ तन्मते सङ्केतमात्रस्य कृतिमत्वाद् अकृतेत्युक्तम् । अकृतो ऽज्ञातः , समयः सङ्केतः वाच्यवाचकसम्बन्धः यस्याः सा अकृतसमया, सा च सा सञ्ज्ञा च, तस्याः स्मरणसहायम् अव्युत्पन्नवाचकपदस्मृतिसहकृत प्रत्यभिज्ञाप्रत्यक्षम् इत्यन्वयः ।

॥ तत्समभिव्याहृतेति ॥ अकृतसमयसञ्ज्ञासमभिव्याहृतेत्यर्थः ॥ अतिदेशवाक्यार्थ इति ॥ सादृश्याऽदिपदघटितवाक्यार्थ इत्यर्थः ॥ तद्भेदादिति ॥ अतिदेशवाक्यार्थभेदात् । सञ्ज्ञासञ्ज्ञिसम्बन्धप्रमितिसाधनाऽत्मकमित्यर्थः।

कदाऽपि गवयदर्शनं नेति प्रदर्शनायोऽक्तम् ॥ नागरिकस्येति ॥ प्रतिसन्धानमिति ॥ दीर्घग्रीवाऽऽदिधर्मवानित्यर्थः ॥ व्युत्पत्तिरितीति ॥ सङ्केतज्ञानमित्यर्थः । गवान्तरे अव्यभिचारायोक्तम् ॥ अगोत्वे सतीति ॥ महिषाऽदौ अव्यभिचारायेक्तम् ॥ गोसदृशत्वादिति ॥ अन्वयव्याप्तौ दृष्टान्ताभावादाह ॥ व्यतिरेकेणेति ॥

यद्यपि, अत्र अमुक इति दृष्टान्ताभावेऽपि अतिदेशवाक्यस्य आप्तवाक्यत्वेन ‘ब्राह्मणो न हन्तव्यः’ इति वाक्यस्येव ‘यो यो गोसदृशः स सर्वोऽपि गवयपदवाच्यः’ इति व्याप्तिग्राहकत्वसम्भवाद् अन्वयव्याप्तिरेव वक्तुं शक्या, तथाऽपि उपायान्तरप्रदर्शनमेतत् । यथा, ‘पृथिवीत्ववती पृथिवीति व्यवहर्तव्या’ इति लक्षणवाक्यं श्रुतवतः पृथिवीत्वाभिसम्बन्धं क्वचिद् द्रव्ये पश्यतो ऽनुमानेनैव सञ्ज्ञासञ्ज्ञिसम्बन्धप्रमितिरभ्यपगम्युते, लक्षणमपि केवलव्यतिरेकीति प्रसिद्धेः , तथा प्रकृतेऽपीति भावः ।

न चात्र साध्याप्रसिद्धिर्दोषः शङ्क्यः व्यतिरेकि णि तस्या अदोषत्वात् । सामान्यतः प्रसिद्धिस्तु ‘गयवपदं क्वचिच्छक्तम् पदत्वात्’ इत्यादिना भविष्यति । एतदर्थमेव प्राक् केवलव्यतिरेकिणा अन्वयव्यतिरेकिणा च व्युत्पत्तिप्रकारः प्रदर्शितः । एतदुपलक्षणम् । ‘विमतो ऽश्वपदवाच्य एकशफत्वाद् गवादिविसदृशात्वात्’ विमत उष्ट्रपदवाच्यः दीर्घग्रीवाऽऽदिमत्वाद् व्यतिरेकेण गवादिवत्’ इत्यपि ध्येयम् ।

॥ अत्रेति ॥ अर्थापत्त्युपमे इति वाक्ये, एतत्प्रकरण इति वा अर्थः । शबरोक्तोपमानत्रये आद्यन्तोपमानद्वयस्येत्यर्थः ॥ अपेक्षितेति ॥ व्याप्तिपक्षधर्मतासाधर्म्येत्यर्थः ॥ अर्थविशेषेति ॥ सङ्केतरूपेत्यर्थः । अनुमानविशेषत्वकथनेन परास्तेत्यर्थः ॥ अनेनैवेति ॥ अर्थापत्त्यादेरनुमान-विशेषत्वकथनेनैव । ‘‘न च केवलतर्केण नाक्षजेन न केचित्’’ इति तत्वनिर्णयाऽदौ तर्केणेति तर्कशब्दितानुमानेन न ज्ञेयो हरिर् इत्यक्त्यैव न केन-चिदित्युक्तार्थाऽपत्त्यादिनाऽपि न ज्ञेय इत्यस्य लाभात् केनचिदिति आर्थाऽपत्त्यादेः पार्थक्योक्तेर्गतिश्चोक्ता भवतीत्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

एवं शाबरोपमानस्यान्तर्भावमभिधाय तार्किकाभिमतोपमानस्या-प्यनुमान एवांतर्भावं वक्तुं तत्स्वरूपमाह ॥ अकृतेति ॥ सहायमित्येतत् प्रत्यक्षविशेषणम् । तथा च अकृतो ऽज्ञातः, समयः वाच्यवाचकभावसम्बन्धः, यस्याः सञ्ज्ञाया गवयपदस्येति यावत्, तस्या यत् स्मरणं, तत्सहायं तत्सहकृतम्, तत्समभिव्याहृतम् अकृतसमयसञ्ज्ञासमभिव्याहृतं सहोच्चरितं यत् ‘गोसदृशो गवय’ इत्यतिदेशवाक्यं, तस्य योऽर्थः साधर्म्याऽदिः , तस्य पूर्वं वाक्येनानुभूतस्य सञ्ज्ञिनि गवयाऽदौ ‘अयमसौ गोसदृशः पशु’ इत्यादि यत् प्रत्यक्षेण प्रत्यभिज्ञानं तद् उपमानम् इत्यर्थः। यथाऽऽहुः ‘‘अव्युत्पन्नपदोपेतवाक्यार्थस्य च सञ्ज्ञिनि । प्रत्यक्षप्रत्यभिज्ञा-नमुपमानमिहोच्यते ’’ इति ॥ ॥ सञ्ज्ञासञ्ज्ञीति ॥ गोसाद्दश्याऽदिज्ञानानन्तरं गवयाऽदौ वाच्यवाचकभावसम्बन्धप्रमितिरित्यर्थः । यथाऽऽहुः

‘‘प्रमेयं तस्य सम्बन्धः सञ्ज्ञायाः सञ्ज्ञिाना सह ।

तत्प्रतीतिः फलं चास्य नासौ मानान्तराद् भवेत्’’ इति ।

॥ तद्भेदादिति ॥ अतिदेशवाक्यार्थस्य त्रिविधत्वाद् इत्यर्थः ॥ तत्प्रतिसन्धानात्मकमुपमानमिति ॥ तत्प्रत्यभिज्ञाप्रत्यक्षरूपमुपमानमित्यर्थः। यथाऽऽहुः– ‘‘तत्रातिदेशवाक्यार्थस्त्रिविधः परिगृह्यते । साधर्म्यं धर्ममात्रं च वैधर्म्यं चेति भेदतः’’ इति ॥

॥ साधर्म्योपमानं यथेति ॥ साधर्म्यप्रत्यभिज्ञाप्रत्यक्षमित्यर्थः । एवमेव वैधर्म्याेपमानं धर्ममात्रोपमानम् इत्येतदपि व्याख्येयम् ॥ गवयपदार्थत्वप्रमेति ॥ गवयपदवाच्यत्वप्रमेत्यर्थः । एवमेव अश्वपदार्थत्वप्रमितिरित्येतदपि व्याख्येयम् ॥ तद्धर्मेति ॥ सः दीर्घग्रीवत्वाऽदिर् धर्मो यस्यासौ तद्धर्मेत्यर्थः । उष्ट्रपदव्युत्पत्तिर् उष्ट्रपदवाच्यत्वज्ञानम् ।

तत्र साधर्म्योपमानस्यानुमानान्तर्भावम् उपपादयति ॥ विमत इति ॥ गोसदृशे गवान्तरे व्यभिचारवारणाय सत्यन्तम् । घटाऽदौ व्यभिचारवारणाय विशेष्यभागः । आदिशब्देन वैधर्म्योपमानधर्ममात्रोपमानयोरपि ‘विमतो ऽश्वशब्दवाच्यः द्विशफत्वशून्यत्वाद् व्यतिरेकेण गवादिवत्’ तथा ‘विमत उष्ट्रपदवाच्यः दीर्घग्रीवादिमत्वाद् व्यतिरेकेण घटाऽदिवत्’ इत्यनुमानेऽन्तर्भावप्रकारो द्रष्टव्यः ॥ अतो न विभागेति ॥ अनुप्रमाणं त्रिविधमिति विभागेत्यर्थः।

ननु शबरनिरूपितत्रिविधोपमानमध्ये द्वितीयोपमानस्यैव भगवत्पादैरनुमाना-न्तर्भाव उक्तः । न प्रथमतृतीययोः । तत् कुतः ? इत्यत आह ॥ अत्रेति ॥ प्रथमोपमानस्यान्तर्भावानुक्तौ निमित्तमाह ॥ अतिस्फुटप्रतिभासत्वादिति ॥ प्रत्यक्षेऽन्तर्भावस्येति शेषः । तृतीयस्यानुक्तौ निमित्तमाह ॥ आगमान्तर्भूतत्व इति ॥ तृतीय उपमान इति शेषः ।

॥ प्रयोगप्रकारेति ॥ द्वितीयस्य शाबरोपमानस्य भगवत्पादैरनुमानेऽतर्भाव उक्तः । स न युक्तः । केवलान्वयिनि प्रमेयत्वे अन्वयव्यतिरेकिणि धूमवत्वे केवलव्यतिरेकिणि प्राणाऽदिमत्वे च यथा व्याप्त्यादिप्रकारस् तदपेक्षया अत्र वैचित्र्यमस्ति ‘गौर् गवयसदृशी गवयगतसादृश्यप्रतियोगित्वाद् यो यद्गतसादृश्य-प्रतियोगी स तत्सदृशः’ इति प्रयोगप्रकाराऽङ्गीकारात् । अतः कथमनुमानत्वमित्यर्थः।

॥ वैचित्र्येऽपीति ॥ केवलान्वयिनि हेतुसाध्ययोर्व्याप्तिः केवलव्यतिरेकिणि साध्याभावसाधनाभावयोरिति व्याप्त्यादिप्रयोगप्रकारवैचित्र्येऽपीत्यर्थः ॥ अपेक्षितेति ॥ केवलान्वयिसाधर्म्यस्य यथाकथंचिद् व्याप्त्यपेक्षया अर्थगमकत्वस्य अर्थगमकत्वस्य व्यतिरेकिण्यपि सद्भावेन तद्वैचित्र्यस्याप्रयोजकत्वाद् इत्यर्थः

॥तथाऽत्रापीति ॥ केवलान्वयिसाधर्म्यंस्य व्याप्त्यपेक्षया अत्रापि सत्वेन तद्वैचित्र्यस्य अप्रयोजकत्वाद् इत्यर्थः । इयं च सामान्यव्याप्तिः । तन्मूलकमिदमनुमानं च सामान्यतो दृष्टम् इत्युच्यते । यद्यपि ‘तदयोग्यार्थमुत्तरम्’ इति प्रत्यक्षायोग्यार्थानुमापकमेव सामान्यतो दृष्टम् इत्यभिहितं तथाऽपि सामान्यव्याप्तिमूलकमप्यनुमानं सामान्यतो दृष्टं भवत्येव । यथोक्तम् पद्धतौ ‘‘व्याप्यव्यापकयोर् अन्यादृशत्वेऽपि तत्सामान्याऽकारानुगमेन लिङ्गलिङ्गिभावे सामान्यतोदृष्टम्, यथा कृषीवलस्य कर्षणाऽदिप्रवृत्तेर्धान्याऽदिफलवत्वदर्शनेन यज्ञाऽदेः स्वर्गाऽदिफलानुमानम् प्रेक्षावत्प्रवृत्तित्वफलवत्वसामान्यानुगमात्’’ इति।

ननु उपमानं पृथक्प्रमाणमिति वक्तव्यम् । सादृश्यरूपार्थविशेषनिष्ठत्वाद् इति केनचिदुक्तमाशङ्क्य निराकरोति ॥ एतेनेति ॥ एतेनेत्युक्तमेव विशदयति ॥ तादृशेति ॥ अर्थविशेषनिष्ठेत्यर्थः।

॥ तदुपपत्तेरिति ॥ उपमानस्यार्थविशेषनिष्ठतोपपत्तेरित्यर्थः । यथा हि केवलान्वय्यनुमानसाध्यम् अभिधेयत्वाऽदि केवलान्वयिरूपं न तथा व्यतिरेकिसाध्यम्, तथा केवलव्यतिरेक्यनुमानसाध्यं सात्मकत्वाऽदि केवलव्यतिरेकिरूपं न तथा केवलान्वयिसाध्यमिति तयोर् अर्थविशेषनिष्ठत्वेऽपि नानुमानात् पार्थक्यं तद्वद् इहापीत्येवमर्थविशेषनिष्ठत्वं न पृथक्प्रामाण्यसाधकं व्यभिचाराद् इति भावः। ननु तथापि नार्थाऽपत्त्यदीनामनुमानेऽन्तर्भावः सम्भवति ॥ तथा हि, ‘‘न च केवलतर्केण नाक्षजेन न केनचित् । केवलाऽगमविज्ञेयो भक्तैरेव न चान्यथा’’ इति वाक्ये विष्णोर् नाक्षजेनेति प्रत्यक्षाविषयत्वमुक्त्वा ‘न च केवलतर्केण’ इति तर्कशब्दोक्तानुमाना-विषयत्वं चोक्त्वा ‘न केनचित्’ इत्यर्थाऽपत्त्याद्यविषयत्वमुच्यते । इदं च तदैवोपपन्नं स्याद् यदि अर्थाऽपत्त्यादीनां पृथक्प्रामाण्यं स्यात् । अनुमानान्तर्भावाङीकारे तु ‘न च केवलतर्केण इति सामान्यतोऽनुमाननिषेधेनैव अर्थापत्त्यादीना-मपिप्रतिषेधलाभात् ‘न केनचित्’ इति पुनर्निषेधो व्यर्थ एव स्यात् । अतो ‘न केनचित्’ इति पृथङ्निषेधान्यथाऽनुपपत्त्या अर्थाऽपत्त्यादीनां पृथक्प्रामाण्यसिद्धिर् इत्यत आह ॥ अनेनैवेति ॥ अनुमाविशेष इति अनुमाविशेषत्ववचनेनेत्यर्थः ।

॥ गतिश्चोक्ता भवतीति ॥ तथा च ‘न च केवलतर्केण’ इति सामान्यतो ऽनुमानं निषिद्ध्य कुरुपाण्डववत् सामान्यविशेषभावमाश्रित्य अर्थाऽपत्त्या-दिप्रतिषेधाय ‘न केनचित्’ इत्युक्तमिति भावः ।

प्रमाणलक्षणटीकाविवरणं

नन्वेवमस्योपमानकरणत्वेन भाव्यं तत् किमित्यत आह ॥ संज्ञासंज्ञीति॥ संज्ञासंज्ञिसम्बन्धो नाम वाच्यवाचकभावसम्बन्धप्रतिपत्तिः।

नन्वेवमतिदेशवाक्यार्थस्य त्रिविधत्वेऽपि प्रकृते किमायातमित्यत आह ॥ तद्भेदादिति ॥ अतिदेशवाक्यस्य त्रिविधत्वेन तत्प्रत्यभिज्ञाप्रत्यक्षरूपमुपमानमेव त्रिविधमुक्तं भवति त्रिविधस्याप्युदाहरणमाह ॥ यथेत्यादिना ॥

ननूपमानस्यार्थविशेषनिष्ठत्वात् कथमनुमानेऽन्तभार्वः सम्भवति ? अन्यथाऽनुमानादीनामपि प्रत्यक्षविशेषत्वमङ्गीकृत्यैकस्यैव प्रमाण्यं स्यादित्यत आह ॥ एतेनेति॥ एतेनेत्यनेन परामृष्टं दर्शयति ॥ तादृशेति ॥ तादृशत्वेन सम्प्रतिपन्नं विशेषनिष्ठत्वेन सम्प्रतिपन्नं यदनुमानं तद्वदेवोपपत्तेः। अन्यथा केवलान्वय्यादेरप्यनुमानेऽन्तर्भावो न स्यात् । अर्थविशेषनिष्ठत्वात् तेषाम् ।

नन्वेवमर्थापत्त्युपमानादेरनुमानान्तभावो न सम्भवति । तथात्वेन च केवलतर्केणेत्यनेन परमात्मनस् तर्कविषयत्वौक्त्यैवार्थापत्त्याद्यविषयत्वस्यापि उक्तत्वेन पुनस्तदविषयत्वोक्तिः सङ्गता स्यात् । तथा च तद्बलात् तेषां पार्थक्यमेवाङ्गीकार्यमित्यत आह ॥ अनेनेति ॥ अर्थापत्त्यादेरनुमानविशेषत्व-कथनेनेत्यर्थः। तथा चार्थापत्त्यादेरनुमानत्वेऽपि पृथगुक्तिरनुपपन्नैव । तद्विशेषत्वात्। सामान्यविशेषभावेन चापौनरुक्त्योपपत्तेरिति भावः ॥