०६ अर्थाऽपत्तेरनुमानान्तर्भावसमर्थनम्

अर्थाऽपत्त्युपमे अनुमाविशेषः

अर्थाऽपत्तेरनुमानान्तर्भावसमर्थनम्

प्रमाणलक्षणटीका

ननु कथं त्रीण्येव प्रमाणानि ? अर्थाऽपत्त्युप-मानयोरपि पृथक्प्रमाणत्वाद् इत्यत आह

प्रमाणलक्षणम्

***अर्थाऽपत्त्युपमे अनुमाविशेषः ***

अनुपपद्यमानप्रमितिरर्थाऽपत्तिः । सा द्विविधा, श्रुतार्था-पत्तिदृष्टार्थाऽपत्तिश्चेति । तत्राऽद्या यथा, ‘जीवंश्चैत्रो गृहे नास्ति’ इति श्रुतवतो जीवतो गृहाभावप्रमितिः ।

द्वितीया यथा, जीवतो गृहाभावं दृष्टवतस्तत्प्रमितिरिति । तया बहिर्भावप्रमा भवतीति सा अनुमाने अन्तर्भवति । विमतो बहिरस्ति जीवनवत्वे सति गृहेऽसत्वाद् यथाऽहम्’ इति प्रयोगसम्भवात्।

प्रमाणलक्षणटीकाभावदीपः

करणाभिप्रायेणाऽह ॥ अनुपपद्यमानप्रमितिरिति ॥ तयेति ॥ जीवनवतो गृहाभावप्रमित्येत्यर्थः । वहिर्भावो बहिः सत्वम् । इतिशब्दोहेतौ । मृते अव्यभिचाराय सत्यन्तम् । गृहे विद्यमाने अव्यभिचाराय विशेष्यम् ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

॥ अनुपपद्यमानप्रमितिरिति ॥ अनुपपद्यमानार्थदर्शनात् तदुपपादकभूतार्थान्तरप्रमितिरित्यर्थः ॥ जीवनवत्वे सतीति ॥ मृते व्यभिचारवारणाय सत्यन्तम् । गृहे सति व्यभिचारवारणाय विशेष्यभाग इति द्रष्टव्यम्।

प्रमाणलक्षणटीकाविवरणम्

प्रमाणान्तरस्याप्यंतर्भावं वक्तुं शङ्कते ॥ नन्विति ॥ अर्थापत्तिलक्षणाज्ञाने तस्यानुमानेऽन्तर्भावस्य ज्ञातुमशक्यत्वात् तदथर् ंलक्षणमाह ॥ अनुपपद्यमानेति ॥ प्रमितिमात्रस्य प्रत्यक्षादिप्रमितिसाधारणत्वात्पूर्वविशेषणम् । तावन्मात्रं च पटत्वादिना अनुपपद्यमाने घटादावप्यस्तीति उत्तरविशेषणम् ॥ जीवन वत्वे सतीति ॥ पूर्वविशेषणमात्रं गृहे विद्यमानपुरुषे व्यभिचारीत्यतो गृहे असत्वदित्युक्तम् । तावन्मात्रं च मृते गतमतः पूर्वविशेषणमिति बोध्यम् ।