०५ आगमलक्षणम्

निर्दोषः शब्द आगमः

आगमलक्षणम्

प्रमाणलक्षणटीका

आगमलक्षणमाह

प्रमाणलक्षणम्

***निर्दोषः शब्द आगमः ***

अज्ञानविपर्ययसंशयप्रमादविप्रलम्भाऽदिपुरुषदोषपूर्वकत्वाभावो निर्दोषत्वम् । शब्दो वाक्यात्मा । विभक्त्यन्ता वर्णाः पदम् । आकांक्षायोग्यतासन्निधिमन्ति पदानि वाक्यम् । श्रोतुराकां-क्षितार्थाभिधायकत्वं पूर्वपदसंजाताऽकांक्षापूरकत्वं वा आकांक्षावत्वम् ।

तेन विरक्तं प्रति वाणिज्योपदेशस्य, गौरश्वः पुरुषो हस्तीत्यादेश्च अवाक्यत्वं भवति ।

सन्निहितार्थाभिधायकत्वम् अविलंबेनोच्चरितत्वं वा सन्निहित-त्वम् । तेन चोलेषु वर्तमानं तृषितं प्रति ‘सन्ति सुरसरिति शीतलानि जलानि’ इत्युपदेशस्य विलंबेनोच्चरितपदानां च वाक्यत्वनिरासः ।

अन्योन्यान्वययोग्यतावदर्थाभिधायकत्वं योग्यतावत्वम् । तथा च ‘अग्निना सिंचेद्’ इत्यादेर्वाक्यत्वनिरासः । निर्दोष इत्यागमाऽभासनिवृत्तिः । शब्द इति प्रत्यक्षाऽदिव्युदासः । आगमश्च सम्यग्ज्ञात एव बोधकः । अन्यथाऽतिप्रसंगात् ।

स द्विविधः । नित्योऽनित्यश्च । नित्यो वेदः । अनित्यः पुराणाऽदिः । वर्णानां च सर्वत्र नित्यत्वेऽपि प्रबन्धविशेषस्य नित्यत्वानित्यत्वाभ्यामयं विभागः । वर्णाश्च भेदकाभावात् सर्वगता एवेति ।

प्रमाणलक्षणटीकाभावदीपः

निर्दोषपदेन निरभिधेयत्वानन्वितत्वाऽदिराहित्यविवक्षायां शब्दपदस्य वाक्याऽत्मत्वविवक्षा पुनरुक्तिदोषपराहता स्यात् । अतो विवक्षितदोषराहित्यमाह ॥ अज्ञानेति ॥ शब्दबोध्यार्थविषयाज्ञानविपर्यय-संशयेत्यर्थः । प्रमादोऽनवधानम् । विप्रलम्भो वञ्चनम्, अविद्यमानस्य विद्यमानताविवक्षेति यावत् । आदिपदेन करणापाटवगुरूपायविवक्षा-निष्प्रयोजनकानपेक्षितार्थप्रतिपादकत्वादिग्रहः । ‘आगमोऽदुष्टवाक्यं च’ इति तत्वनिर्णयोक्तब्रह्मतर्कवाक्यानुरोधादाह ॥ शब्दो वाक्याऽत्मेति ॥

निष्प्रयोजनत्वाऽदिदोषनिरासार्थमावश्यकनिर्दोषत्वविशेषणेनैव निरभिधेयादावतिव्याप्तिनिराससम्भवेऽपि वाक्याऽत्मत्वविवक्षा शिष्याणां पदवाक्यादिस्वरूपज्ञानार्था इति भावेन पदाऽदिस्वरूपं दर्शयति ॥ विभक्त्यन्ता इति ॥ सुबन्तास्तिङन्ताश्चेत्यर्थः ।‘विभक्तिश्च’ इति सूत्रे सुप्तिङोर्विभाक्तिसञ्ज्ञोक्तेः । बहुवचनं प्रायिकत्वाभिप्रायेणोपात्तम् । न च विवक्षितम् । विभक्त्यन्तो वर्णः विभक्त्यन्तौ वर्णौ इत्यपि ध्येयम् । तेन ‘अः इति ब्रह्म’ ‘अप्रकेतं सलिलं सर्वमा इदम्’ इत्यदौ अ आ इत्यादेरपि पदत्वसिद्धिर्ध्येया । विभक्त्यन्तं पदम् इति वाच्ये वर्णा इत्युक्तिः स्फोटनिरासायेत्याहुः ।

॥ श्रोतुराकाङ्क्षितेति ॥ आकाङ्क्ष्यत इति आकाङ्क्षितं जिज्ञासितं तदभिधायकत्वं तद्बोधकपदवत्वमित्यर्थः ॥ पूर्वपदेति ॥ शब्दमात्रपरोऽत्रपरोऽत्र पदशब्दः । तेन प्रकृतिजनिताऽकाङ्क्षापूरकप्रत्ययनिष्ठसाकाङ्क्षत्वेनाव्याप्तिः । आकाङ्क्षा जिज्ञासा । पूर्वपदश्रवणेन सञ्जाता किम् ? इति या जिज्ञासा तत्पूरकत्वम् । यज्ज्ञाने सति पूर्वपदोत्थजिज्ञासा शाम्यति तज्जनकशब्दस् तेन साकाङ्क्ष इत्यर्थः। जिज्ञासाविषयज्ञानजनको हि जिज्ञासापूरको भवति । तादृशज्ञानविषयत्वयोग्यज्ञान-जनकतावच्छेदकरूपवत्वमिति यावत् । भवति हि घटमानय इत्यादौ पूर्वपदेन सञ्जाताया जिज्ञासाया विषयत्वयोग्यं यज् ज्ञानं क्रियाज्ञानं तज्जनकतावच्छेदकरूप-क्रियापदत्वं तादृशरूपवत् क्रियापदं घटरूपकारकपदेन साकाङ्क्षम् ।

लक्षणद्वयस्यापि क्रमाद् व्यावर्त्यमाह ॥ तेनेति ॥ द्विविधलक्षणेनेत्यर्थः । अवाक्यत्वम् इत्याकृष्यते । यद्यपि एतादृशोपदेशस्य पूर्वपदेत्यादिनोक्ताका-ऽङ्क्षादिराहित्ये तत एवावाक्यत्वम्, तद्वत्त्वे च वाक्यार्थप्रमितिजनकत्वाद् अस्त्येव वाक्यत्वम् इति तन्निरासायाऽद्यलक्षणमनपेक्षितं तथाऽपि श्रोतुरनाकाङ्क्षितत्वमात्रेण तस्यावाक्यत्वोक्तिरित्येव । वस्तुतस्तादृशोपदेशोऽपि संग्राह्य एव । अन्वयप्रमित्युपयोग्युक्तवक्ष्यमाणाऽकाङ्क्षाऽदिमत्वात् । परं तु श्रोतुरनपेक्षितत्वात् तन्मात्रस्यानुपादेयत्वमिति ज्ञातव्यम्

॥ गौरश्व इति ॥ गोपदोत्थजिज्ञासापूरकत्वमश्वाऽदिपदस्याभावान् नातिव्याप्तिरिति भावः । अत्र पूर्वपदजातजिज्ञासाविषयज्ञानजनकत्वं तादृशज्ञानजननयोग्यता विवक्षिता । न तु फलोपधानम् । तेन जनितान्वयबोधे वाक्ये अन्वयबोधप्राक्कालीनवाक्ये च नाव्याप्तिरित्यपि ध्येयम् । इदं चाऽकाङ्क्षावत्वं ज्ञातमेव वाक्यार्थान्वयबोधहेतुः ।

सन्निधिलक्षणमाह ॥ सन्निहितेति ॥ यद्यपि क्रमप्राप्तयोग्यतालक्षण-मेवाऽदौ वक्तव्यं तथाऽपि आकाङ्क्षाया लक्षणद्वयोक्तिप्रक्रमात् सन्निधिलक्षणद्वयस्यापि तदनन्तरमुक्तिरित्यदोषः । व्यवहितार्थबोधक-वाक्येऽप्याकाङ्क्षाऽदिमत्वे अन्वयप्रमितिजनकत्वेन प्रमाणतयाऽस्त्येव वाक्यत्वं तथाऽप्यनुपादेयत्वं तस्यास्ति । लक्षणे निर्दोषपदेन तादृशदोषस्यापि वारणमभिप्रेतमिति भावेन पूर्वत्र अत्र च लक्षणद्वयसमुच्चयोक्तिः ।

॥ अविलम्बेनोच्चरितत्वमिति ॥ न च ‘गौरश्व’ इत्यादौ च वाक्येऽतिव्याप्तिः । तत्र सन्निधेः सत्वात्, अन्वयबोधविरहस्य चाऽकाङ्क्षाऽभावनिबन्धनत्वात् तत्र इति तात्पर्यात् । न च तथाऽपि ‘नेदृशं स्थलमलं शमलघ्नं नास्य तीर्थसलिलस्य समं वाः’ इत्यादौ मौनिलिखित श्लोके अव्याप्तिस् तत्रोच्चारणाभावाद् इति शङ्क्यम्। उच्चरितस्य पदस्य उच्चारणाभिप्रायसाधारणव्यापारमात्रपरत्वम् अविलम्बेन पदोपस्थित्यनुकूलवक्तृव्यापारविषयत्वं सन्निहितत्वमित्यर्थस्य विवक्षितत्वात्। तथा च अविलम्बेन उपस्थित्यनुकूलाभिप्रायविषयत्वं तादृशोच्चारणविषयत्वं चेत्यर्थः । मौनिश्लोके च उच्चारणाभावेऽपि निष्फलेन अन्वयबोधविरोधिना व्यवधानशून्यतया पदोपस्थित्यनुकूलाभिप्रायविषयरूपवक्तृव्यापारविषयत्वस्य सन्निहितत्वस्य मौनिश्लोकाऽदावपि सत्वान् नाव्यप्तिः । वेदेऽपि तादृशेश्वराभिप्रायविषयत्वात् तत्रापि नाव्याप्तिः । सन्निहितत्वमपि ज्ञातमेव शाब्दधीहेतुर्ज्ञेयः ।

॥ विलम्बेनेति ॥ निष्फलेन अन्वयबोधविरोधिना व्यवधानेन वक्तृव्यापारविषयपदानामित्यर्थः ॥ अन्योन्येति ॥ घटमानय इत्यादौ क्रियाकारकयोयर्ोेऽन्योन्यमन्वयः। तद्योग्यतावन्तौ यावर्थौ घटाऽनयनाऽदिरूपौ तत्प्रतिपादकपदवत्वमित्यर्थः ।

॥ इत्यादेर्वाक्यत्वनिरास इति ॥ न चैवं निश्चिताप्रामाण्यकस्य ‘अग्निना’ इत्यादिवाक्यस्य निरासेऽपि ‘जलेन सिञ्चति’ इत्यनाप्तोक्तवाक्ये अतिव्याप्तिरिति शङ्क्यम् । आवश्यकनिर्दोषत्वविशेषणेनैव तादृशावाक्यस्यापि निवारणाद् इति भावेनाऽह ॥ निर्दोष इति ॥ आगमाऽभासोऽनाप्तवाक्यम् । एतच्च योग्यत्वम् आकाङ्क्षा सन्निधिवन् न ज्ञातं शाब्दान्वयधीहेतुः । तथात्वेऽन्वयज्ञानं विना तद्योग्यार्थाभिप्रायकत्वज्ञानायोगेनाऽत्माश्रयाऽपत्तेः । शाब्दान्वयप्रमितिं प्रति स्वरूपसत्कारणमपि शाब्दान्वयबोधमात्रे स्वरूपं सदपि न कारणं तदभावनिश्चयेऽपि ‘अग्निना’ इत्यादिवाक्यान्वयबोधस्य जननात् । मेरूः सर्षप इत्यादिवाक्यान् मेरोः सर्षपत्वप्रतिभासद् इति अन्यथाख्यातिप्रकरणे सुधोक्तेश्च । पद्धतौ तु प्रतीतार्थस्य प्रमाणविरोधाभावो योग्यता ॥ तत्प्रतिपादकत्वात् पदान्यपि योग्यतावन्ति इत्युक्तम् । तदा तु तेनैवागमाऽभासनिरासो व्यक्तः ॥ नित्यो वेद इति ॥ प्रतिकल्पं सजातीयानुपूर्वीक इत्यर्थः । अनित्यं प्रतिकल्पम् अन्योन्याऽनुपूर्वीकमित्यर्थः ॥ प्रबन्धविशेषस्येति ॥ आनुपूर्व्या इत्यर्थः ॥ भेदकेति ॥ तारत्वमन्द्रत्वाऽदिकं तु व्यञ्जकध्वनिगतमेवेति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

वाक्ये प्रत्यक्षाऽदाविव स्वाभाविकदोषाणामभावाद् आह ॥ अज्ञानेत्यादिना ॥ पदसमुदायरूपं वाक्यमात्रमेव लक्ष्यतयाऽभिप्रेत्य प्रवृत्तं यत् ‘आगमोऽदुष्टवाक्यं च’ इति ब्रह्मतर्कवाक्यं तदनुसारेण शिष्याणां पदवाक्याऽदि-स्वरूपज्ञापनाय शब्दशब्दाभिप्रेतमर्थमाह ॥ शब्दो वाक्याऽत्मेति ॥ तथा च निर्दोषं वाक्यमागम इत्यर्थः ।

ननु सिद्धान्ते वैदिकानां पदानामपि महायोगवृत्त्या भगवति प्रामाण्यस्य उक्तत्वेन वैदिकपदाऽत्मक आगमे अव्याप्तिरिति चेत्, अत्राहुः, यौगिकपदानामपि प्रकृतिप्रत्ययविभागेन संसर्गबोधकतया वाक्यात्मकतैवेति । वस्तुतस्तु पदसमुदायरूपवाक्याऽत्मक एव शब्दोऽत्र लक्ष्यत्वेन विवक्षित इति न दोषः । अत एव पद्धतौ ‘आगमोऽदुष्टवाक्यं च’ इति ब्रह्मतर्कानुसारेण निर्दोषं वाक्यमिति वा इति लक्षणान्तरमुक्तम् इत्यवधेयम् ।

पदघटितत्वेन वाक्यं लक्षयितुं तावत् पदलक्षणमाह ॥ विभक्त्यन्ता वर्णाः पदमिति ॥ जबगडदेत्यादिवर्णसमूहेऽतिव्याप्तिपरिहाराय विभक्त्यन्ता इत्युक्तम् । विभक्त्यन्ते ‘पर्वतोऽग्निमान्’ इत्यादिवाक्येऽतिव्याप्तिपरिहाराय वर्णा इत्युक्तम् ॥ न च तत्र वर्णानामपि सत्वेन कथं निवारणम् ? इति वाच्यम्, तत्र वर्णानां पदत्वेन प्रवेशेऽपि न वर्णत्वेन प्रवेशो ऽतस्तेन तद्व्यावृत्तिरिति ध्येयम् ।

ननु एकवर्णाऽमके वर्णद्वयाऽत्मके च पदे वर्णबहुत्वघटितलक्षणाभावाद् अव्याप्तिर् इति चेत्, उच्यते, नात्र ‘बहुषु बहुवचनम्’ इति सूत्रेण बहुत्वापेक्षम् । किं तु ? जातौ । ‘जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्’इति सूत्रात् । अतो विभक्त्यन्तवर्णत्वं पदत्वम् इत्युक्तं स्यात् । न चेदं युक्तम् । विभक्तेर्वर्णधर्मत्वेन वर्णत्वजातेर्विभक्त्यन्तत्वाभावेन पदत्वोक्त्यसम्भवात् । अतो मुख्यार्थासम्भवाद् लक्षणया वर्णत्वजात्यवच्छिन्नवर्णव्यक्तेः पदत्वाऽश्रयणेन एकवर्णाऽत्मकवर्णद्वयाऽत्मकबहुवर्णात्मकानां सर्वेषामपि पदानां संग्रहो भवतीति न कोऽपि दोष इति सम्प्रदायः ।

इयं च रीतिः ‘त्रिविधा विदुषां कथा’ इत्यत्र कथालक्षणटीकायां जाताविदं बहुवचनम् इति वदद्भिः ‘कथास्तिस्रो विजानताम्’इत्यनुव्याख्यानव्याख्यानसमये सुधायां विदुषामिति जातौ बहुवचनम् इति वदद्भिष् टीकाकारैः प्रदर्शितेति ज्ञातव्यम् ।

आकाङ्क्षालक्षणद्वयव्यावर्त्यं क्रमेण दर्शयति ॥ तेनेति ॥ अविलम्बेन उच्चरितत्वमिति ॥ नन्विदमनुपपन्नम् मौनिकृतग्रन्थरूपे वाक्ये तत्कृतलिप्यनुमिते उच्चारणाभावेनाव्यापकत्वाद् इति चेन्न । उच्चरितपदेन पदोपस्थित्यनुकूल-वक्तृव्यापारमात्रस्य विवक्षितत्वात् । तत्रापि मानसिकव्यापारसद्भावाद् इति ज्ञातव्यम् । सन्निधिलक्षणद्वयव्यावर्त्यं क्रमेण दर्शयति ॥ तेनेति ॥ विलम्बेनो-च्चारितेति ॥ प्रहरे प्रहर उच्चार्यमाणेत्यर्थः ॥ आगमाभासेति ॥ भ्रान्तप्रतारकवाक्य मागमाभासशब्देनोच्यत इत्यवधेयम् । विप्रलम्भकवाक्यस्याऽगमाऽभासशब्देन ग्रहणे योग्यताघटितवाक्यत्वरूपाऽगमलक्षणस्य तत्राभावेनातिव्याप्तिप्रसक्तिरेव नास्तीति द्रष्टव्यम् । तत्र प्रतारणस्यैव दोषत्वेन निर्दोषपदेन तद्व्यावृत्तिरिति भावः । न च भ्रान्तप्रतारकवाक्यस्य निर्दोषत्वाभावे तज्जन्यं ज्ञानं कथं प्रमा स्यात् ? इति वाच्यम् । न हि तार्किकाणामिव अस्मन्मते प्रामाण्यम् आप्तोक्तत्वगुणजन्यं येनैवं पर्यनुयोगः स्याद् इति भावः ।

सुधायां तु, निर्दोषत्वाविशेषितं यथार्थज्ञानसाधनत्वमनुप्रमाणलक्षणं कृत्वा, भ्रान्तप्रतारकवाक्येऽतिव्याप्तिमाशङ्क्य, पारिभाषिकसाधनत्वस्य प्रतारकवाक्यजातीयेऽभावेन परिहृत्य, भ्रान्तप्रतारकवाक्ये पारिभाषित-साधनत्वमस्तीति पुनरतिव्याप्तिमाशङ्कक्य, तस्य प्रामाण्यप्रसङ्गेऽपि न काचिदस्माकं क्षतिर् न हि तार्किकाणामिवास्माकमाप्तोक्ततया प्रामाण्या-नुमानाऽदिकमप्यस्तीति लक्ष्यत्वान् नातिव्याप्तिरिति समाधानमभिधाय, यद्वा निर्दोषत्वेन ज्ञानं विशिष्यते यथार्थपदफलितार्थस्यैव निर्दोषग्रहणेन वर्णितत्वाद् इत्यादिना भ्रान्तप्रतारकवाक्यादावतिव्याप्तिपरिहारो निर्दोषग्रहणेन कृत इत्यवधेयम्।

वस्तुगतिमभिप्रेत्याह ॥ आगमश्चेति ॥ अज्ञातस्यैव बोधकत्वाङ्गीकारे बाधकमाह ॥ अन्यथेति ॥ अतिप्रसङ्गादिति ॥ बधिरस्यापि वाक्यार्थधीप्रसङ्गाद् इत्यर्थः । आगमविभागमाह ॥ स द्विविध इति ॥ नित्योऽनित्य इति ॥ अपौरुषेयः पौरुषेयश्चेत्यर्थः । अन्यथा ध्वंसाप्रतियोगित्वलक्षणनित्यत्वस्य पुराणेऽपि सत्वाद् अनित्यत्वोक्तिरयुक्ता स्याद् इति मन्तव्यम् ।

ननु वेदानां पुराणानां च वर्णाऽत्मकत्वाद् वर्णानां च कूटस्थनित्यत्वात् कथमयं विभागः ? इत्यत आह ॥ वर्णानां चेति ॥ सर्वत्रेति ॥ वेदे पुराणे चेत्यर्थः ॥ प्रबन्धविशेषस्येति ॥ ‘अग्निमी’ इत्याद्यानुपूर्वीविशेषस्येत्यर्थः ॥ नित्यत्वेति ॥ नित्यत्वं नियतैकप्रकारत्वम् । तथा च आनुपूर्वीविशेषस्य नियतैकप्रकारत्वेन तद्विशिष्टवर्णाऽत्मकवेदस्याप्यपौरुषेयत्वमेव । पुराणानां च अन्यथाशब्दरचनसद्भावेन नियताऽनुपूर्वीकत्वाभावात् पौरुषेयत्वमेवेति भावः ।

ननु सर्वत्र वर्णेषु क्रमस् तत्तद्बुद्ध्युपाधिक एव वक्तव्यः,न स्वतः नित्यत्वेन सर्वगतत्वेन च कालिकस्य दैशिकश्य च क्रमस्य अयोगात् । तथा च अस्मद्बुद्ध्युपाधिकस्य ईश्वरबुद्ध्युपाधिकस्य च क्रमस्य जन्यत्वमेवेति कथं तद्विशिष्टवेदस्यापौरुषेयत्वम् ? इति चेत् , उच्यते, वर्णानां कूटस्थनित्यत्वेऽपि क्रमस्य सर्वत्र जन्यत्वेऽपि वेदस्यापौरुषेयत्वं युज्यत एव । तथा हि, सजातीयोच्चारणमनपेक्ष्योच्चारयिता पुरुषः स्वतन्त्रः । तत्पूर्वकत्वाभाव एवापौरुषेयत्वम् । वर्तते चेदं वेदाऽदौ, नास्ति च पुराणाऽदाविति न कोऽपि दोषः । अत्रेश्वरबुद्ध्युपाधिकः क्रमोऽजन्य एवेति केचिन्मन्यन्ते । तन्न समीचीनमिव भाति । तथात्वे क्रमस्य कृतकत्वेऽपीति सामान्यतस्तत्वनिर्णयटीकोक्तिविरोधात्।

किं च वर्णास्तावन्नित्याः । क्रमस्तु वर्णद्वयधर्मः ॥ क्रमस्तु वर्णद्वयधर्म इति सुधोक्तेः । तथा च नित्यभूतवर्णधर्मभूतक्रमस्य नित्यत्वे खण्डितत्वाभावेन वर्णैरत्यन्ताभेध एव प्राप्तः । ओमिति चेत्, तथात्वे ‘यद् यदभिन्नाभिन्नं तत् तेनाभिन्नम्’ इति व्याप्तिबलाद् यः कृष्णो येन रामेणाभिन्नमूलरूपनारायणाभिन्न इति तेन रामेणाप्यभिन्नो दृष्टः , एवं ककाररूपो वर्णः खकाराभिन्नक्रमाभिन्न इति खकारेणान्यभिन्नो जात इत्येवं ककारखकारयोरप्यैक्यप्रसङ्गान् न क्रमस्य नित्यत्वम् । अनित्यत्वे तु नायं दोषः खण्डितत्वेन वणैर्भिन्नाभिन्नत्वात्, उक्तव्याप्तेश्चात्यन्ताभेदस्थलीयत्वात् । अत एव एतद्दोषभयाज् जीवेश्वर-निष्ठद्वित्वस्येश्वरेण भेदाभेद एवाङ्गीकृतः । यथोक्तमनुव्याख्याने

‘‘न केनचिदभेदोऽस्ति भेदाभेदोऽपि वा क्वचित् ।

समुदायमृते विष्णोः स्वगुणाऽदीन् विनाऽपि वा ॥

इति श्रुतेः’’ इति ।

अन्यथा तत्रापि ईश्वरधर्मभूतद्वित्वस्येश्वरेणात्यन्ताभेदे उक्तव्याप्तिबलाज् जीवेश्वरयोरप्यभेदः स्यादिति । तस्मात् सर्वोऽपि क्रमो जन्य एवेति सिद्धान्तसङ्क्षेपः।

अत एवोक्तं तर्कताण्डवे, ईश्वरोऽप्यस्मन्मते महोपाध्याय एव इति । तथा च ईश्वरस्याप्युपाध्यायतुल्यत्वोक्त््या उपाध्यायबुद्ध्युपाधिकक्रमस्येव ईश्वरबुद्ध्युपाधिकक्रमस्यापि जन्यत्वमेवेति तद््ग्रन्थाभिप्रायोबोद्धव्यः । सर्वेषां मतेऽपि ईश्वरबुद्ध्युपाधिकः क्रमो नित्य एव । न नश्यति । बुद्ध्युपरमेण हि तदुपरमो वक्तव्यः । न हीश्वरबुद्धेरुपरमोऽस्तीति सर्वज्ञत्वादीश्वरस्य इति तत्वनिर्णये प्रतिपादितत्वाद् इति ध्येयम् । विस्तरस्तु अस्मत्कृततत्वनिर्णयटीकाटिप्पण्यां द्रष्टव्यः ।

ननु वर्णानां मध्यमपरिमाणवत्वेन अनित्यत्वसाधनान् नित्यत्वोक्तिरयुक्ता इत्याशङ्क्य स्वरूपासिद्धो हेतुरित्याह ॥ वर्णाश्चेति ॥ यतः सर्वगता अतो नित्या एव इति योज्यम् । तथा च ‘वर्णा नित्याः सर्वगतत्वाद् गगनाऽदिवत्’ इत्यनुमानमुक्तं भवति । असिद्धिपरिहाराय सर्वगतत्वं साधयितुं भेदकाभावाद् इत्युक्तमिति केचिद् व्याचक्षते । तन्न । सर्वगतत्वेन नित्यत्वसाधनस्य सर्वगतेषु अनित्येषु कालक्षणेषु व्यभिचारित्वात् ।

प्रसङ्गाद् आह ॥ वर्णाश्चेति ॥ ननु कथं वर्णानां सर्वगतत्वम् ? काश्येतद्देशस्थयोः ककारयोर्भिन्नत्वादित्यत उक्तम् ॥ भेदकाभावादिति ॥ काश्येतद्देशस्थयोः ककारयोर्भेदसाधकप्रमाणाभावात् प्रत्युत ‘ यावद् ब्रह्म विष्ठितं तावती वाक्’ इत्यादिश्रुत्या ब्रह्म यावद्देशकालव्यापितया अवस्थितं वागपि तावद्देशकालव्यापिनीति सर्वगतत्वस्यैवाभिधानादित्यर्थः । अन्येऽप्याहुः –

‘वर्णाऽत्मकाश्च ये शब्दा नित्याः सर्वगतास्तथा’ इति ॥

प्रमाणलक्षणटीकाविवरणं

वाक्ये प्रत्यक्षवत् स्वाभाविका दोषा न सन्ति किन्तु पुरुषदोषनिबंधना एव दोषा वर्तन्त इत्यभिप्रेत्य निर्दोषशब्दार्थमाह ॥ अज्ञानेति ॥ वर्णमात्रस्यापि निर्दोषत्वात्तस्यापि वाक्यत्वशङ्कां निवारयति ॥ शब्द इति ॥

अथवा निर्दोषः शब्द आगम इत्युक्तम् । एकस्यापि वर्णस्य आगमत्वे संसर्गबोधकत्वापत्तेः । वाक्यस्य हि संसर्गज्ञानमेव प्रयोजनम् । पदार्थज्ञानस्य पदादेव जातत्वात्प्रयोजनान्तरभावात् । अन्यथा तस्य वेय्यर्थ्यापातात् । तस्मादयुक्तमेतदित्यत आह ॥ शब्दो वाक्यात्मेति ॥ तथाच न तत्रातिव्याप्तिरिति भावः । अथवा ब्रह्मतर्कानुसारेण लक्षणान्तरमाह ॥ शब्दइति ॥ अत एव पद्धतौ निर्दोषः शब्द आगम इति प्रमाणलक्षणानुसारेण एकं लक्षणमुक्त्वा ब्रह्मतर्कानुसारेण निर्दोषं वाक्यं वेति लक्षणांनरमुक्तमिति तत्वम् ।

उपोद्धातसङ्गत्या वाक्यलक्षणं वक्तुं पदलक्षणमाह ॥ विभक्त्यन्ता इति ॥ वर्णमात्रस्यैव पदत्वे विभक्त्यन्तानामपि पदत्वं स्यात् तन्निरासार्थं विभक्त्यन्ता इति । तावन्मात्रस्य वाक्यसाधारणत्वात् तत्परिहारार्थं वर्णा इति ।

॥ आकांक्षेति ॥ नन्वाकांक्षावत्वं लक्षणान्तर्गतमिति न संभवति । पदेषु तस्यासंभवात् । पदानामचेतनत्वात् । आकांक्षायाश्चेच्छारूपत्वेन चेतनमात्रनिष्ठत्वादित्यत आह ॥ आकांक्षावत्त्वमिति ॥ पूर्वेण विरक्तं प्रति वाणिज्योपदेशो निवृत्तिः । उतरेण गौरश्च इत्येतन्निवृतिरिति बोध्यम् ।

पदानां सन्निहितत्वासंभवात् तन्निर्वक्ति ॥ सन्निहितत्वमिति ॥ अन्योन्येति ॥ परस्परान्वययोग्यतावान् योऽर्थस्तदभिधायकत्वम् ॥ तथाचेति ॥ अग्नेः सेकान्वययोग्यतासंभवदित्यर्थः ।

ननु निर्दोष आगम इत्याद्यलक्षणे निर्दोषत्वेनान्वयाभावाबोधकत्वं विपरीत-बोधकत्वं ज्ञातज्ञापकत्वम् अप्रयोजनत्वम् अनभिमतप्रयोजनत्वम् अशक्यसाधन-प्रतिपादकत्वं लघूपाये सति गुरूपायोपदर्शनमित्यादिदोषयुक्तशब्दव्यावृत्त्यर्थं निर्दोषग्रहणस्यावश्यकत्वेऽपि निर्दोषं वाक्यमागम इति पक्षेऽपि यदि पद्धत्युक्तरीत्या पूर्वपदसञ्जाताकाङ्क्षावत्त्वम् अविलम्बेनोच्चरितत्वमात्रं सन्निहितत्वप्रमाणविरुद्ध-प्रमेयप्रतिपादकत्वं येग्यतेत्याकाङ्क्षादेर्लक्षणं तदा पदत्वेनानभिधेयत्वस्याकाङ्क्षा-सन्निधिभ्यामन्वयाभावस्य योग्यतया विपरीतबोधकत्वस्य निरासेऽपि ज्ञात-ज्ञापकत्वाद्यशेषदोषनिरासार्थं निर्दोषग्रहणस्य आवश्यकत्वेऽपि श्रोतुराकाङ्क्षा-भिधायकत्वं पूर्वपदसञ्जाताकाङ्क्षापूरकत्वं चाकाङ्क्षावत्त्वमित्याद्येकोक्त-रीत्याकाङ्क्षादिलक्षणपक्षे पदत्वेनानभिधेयस्याकाङ्क्षापदेन अनभिमतप्रयोजनान्वया-भावयोः सन्निधिना शक्यसाधनप्रतिपादनान्वययाभावयोर् योग्यतया विपरीतप्रतीता-न्वयायोग्यार्थप्रतिपादकत्वस्य च निरासेन व्यावर्त्याभावान् निर्दोषग्रहणमनर्थमित्यत आह ॥ निर्दोष इत्यागमाभासनिवृत्तिरिति ॥

यद्यप्यत्रागमाभासनिवृत्त्यर्थमावश्यकेन निर्दोषत्वविशेषणेनेव निरभिधये अनन्विते चातिव्याप्तिनिरासेन वाक्यपदमनर्थकम् अत एव निर्दोषः शब्द आगम इत्याद्यलक्षणमप्युपपन्नम्। अन्यथा वाक्यपदव्यावर्त्यकत्वे तस्यातिव्याप्ति-प्रसङ्गात्तत्रातिव्याप्तिप्रसङ्गात् तत्राशेषदोषनिरासार्थकत्वे अत्रापि तथैवाङ्गीकारस्य युक्तत्वादिति। तथा च वाक्यग्रहणं शिष्याणां पदवाक्यादिस्वरूपज्ञापनार्थम् अत एवं चोत्तरत्र विभक्त्यन्ता वर्णाः पदम्, अकाङ्क्षायोग्यतासन्निधिमन्ति पदानि वाक्यमित्यादिना पदादीनां लक्षणमुक्तमित्यवधेयम्। आगमेनाथ•वबोधो जायमाने सहकारिमाह ॥ आगमश्चेति ॥ अन्यथेति ॥ शब्दश्रवणाभावेऽप्यर्थाव-बोधापत्तिरित्यतिप्रसङ्गः।

ननु वेदस्य पुराणादेर्वा वर्णात्मकत्वाद् वर्णानां च कूटस्थनित्यत्वे सर्वस्यापि नित्यत्वं स्यात् । तथा च द्वैविध्यमनुपपन्नम् । अनित्यत्वे च सर्वस्यापि तथात्व-मेवेत्यतो द्विविधत्वमनुपपन्नमित्यत आह ॥ वर्णानामिति ॥ तथाच वेदे आनुपूर्वीविशेषस्य नित्यत्वेन पुराणे च तदभावाद् द्वैविध्यमनुपपन्नम् । नचात्रानु-पूर्वीविशेषः किमस्मदादिबुद्धिघटित उत ईश्चरबुद्धिघटित इति । नाद्यः, अस्मदादि-बुद्धिघटितस्य वेदक्रमस्याप्यनित्यत्वात्। ईश्वरबुद्धिघटितस्य पुराणादिक्रमस्याप्य-नित्यत्वान् न द्वितीयोऽपीति चेत् ।

अत्र ब्रूमः । द्वितीयपक्षोऽङ्गीक्रियते । नचोक्तदोषः। प्रतिकल्पं वेदादिक्रमस्य एकप्रकारस्यैश्चरबुद्धिविषयत्वात्। पुराणादौ तु न तथा। कल्पान्तरे अन्यथाऽपि विषयत्वादिति। नचैवं व्यवस्था कुतोऽङ्गीक्रियते ? पुराणादिगतवर्णानामप्य-नित्यत्वमेव कुतो नाङ्गीक्रियते इत्यत आह ॥ वर्णाश्चेति ॥ वर्णा नित्याः सर्वगतत्वादित्यर्थः । हेत्वसिद्धिं परिहर्तुं भेदकभावादित्युक्तम् । अत एवोक्तं पुराणादावन्यथारचनमेवानित्यत्वं नतु वर्णानित्यत्वमित्याचार्यैः। तत्वनिर्णयटीकायामुपपादितं च विस्तरात् ॥