अनुप्रमाणं त्रिविधम् ,प्रत्यक्षमनुमानमागम इति
अनुप्रमाणनिरूपणम्
प्रमाणलक्षणटीका
अनुप्रमाणविभागमाह
प्रमाणलक्षणम्
***अनुप्रमाणं त्रिविधम् ***
तिस्त्रो विधा उद्दिशति । न्युनाधिकसङ्ख््यान्यतमा-न्तर्भावाभावज्ञापनार्थोयं विभागः
प्रत्यक्षमनुमानमागम इति
प्रायेणाऽसन्नाव्यवहितवर्तमानकतिपयार्थग्राहकं प्रत्यक्षम्, अनासन्नातीतानागतव्यवहितार्थगोचरमनुमानम्, स्वातन्त्र्येण अशेषार्थविषय अगम इति अर्थग्रहणक्रमेणोद्देशः ।
प्रत्यक्षमात्रप्रामाण्यवादनिरासः
प्रत्यक्षमेकमेवेति चार्वाकः । तस्येष्टानिष्टसाधनज्ञानाभावा-ज्जीवनमेवानुपपन्नम् । न हि प्रत्यक्षं तज्ज्ञानोपायः ।
प्रत्यक्षानुमानमात्रप्रामाण्यवादनिरासः
प्रत्यक्षानुमाने एवेति कणादः सौगताश्च । तेषां किमागमो न बोधकः । बोधकोऽपि वा न यथार्थः । यथार्थोऽपि वान्यत्र अन्तर्भूतः । पक्षत्रयमप्यनुभवविरुद्धमिति ।
अर्थं प्रति स्थितमक्षं प्रत्यक्षम् । प्रमाणान्तरानुसरणेनैव अर्थप्रमापकमनुमानम् । सम्यगतीन्द्रियार्थावगमक आगम इति संज्ञानिरुक्त्यैव लक्षणसिद्धौ प्रत्यक्षे तस्यैव स्फुटीकरणार्थम् अनुमानाऽदौ शृृङ्गग्राहिकया तज्ज्ञापनार्थं च पुनर्लक्षणाऽरम्भः।
प्रमाणलक्षणटीकाभावदीपः
॥ न्यूनाधिकेति ॥ न्यूनसङ्ख्या च अधिकसङ्ख्या च अन्यतमा-न्तर्भावश्च तेषामभावज्ञापनार्थ इत्यर्थः । केचित् प्रत्यक्षमेव प्रमाणं नान्यदिति । अन्ये तु प्रत्यक्षानुमाने एव प्र्रमाणं नान्यदिति । अपरे तु आगमः प्रमाणमप्य-नुमानेऽन्तर्भवतीति । उपमानार्थापत्त्यादयोऽपि पृथक्प्रमाणमित्येक आहुः । तन्निरासायेदं विभागकरणमित्यर्थः ।
मानसप्रत्यक्षस्मृतिव्यावृत्त्यर्थं प्रायेणेति । प्रायेणेति सर्वत्रान्वेति ॥ आसन्नेति ॥ सन्निहितेत्यर्थः । यद्वा प्रायेणेति चक्षुः श्रोत्रघ्राणव्यावत्त्यर्थमासन्नेत्यसयैव विशेषणम् । चक्षुरादेर्दूरस्थस्यापि ग्राहकत्वात्
॥ अव्यवहितेति ॥ कुड्यादिनाऽव्यवहितेत्यर्थः । एतदुक्तिश्च वक्ष्यमाणचार्वाकादिदूषणघटनाय ॥ स्वातन्त्र्येणेति ॥ सङ्केतग्रहाऽद्य-न्यव्याप्त्यादिग्राहकप्रमाणान्तरमनपेक्ष्येत्यर्थः ।
न्यूनाधिकसङ्ख्येत्याद्युक्तं व्यनक्ति ॥ प्रत्यक्षमेकमेवेत्यादिना ॥ अनुप्रमाणमिति अत्र उत्तरत्र चान्वेति ॥ न हि प्रत्यक्षमिति ॥ अनुमानाऽदि-वेद्यत्वाद् इष्टाऽद्युपायत्वस्येति भावः ॥ अनुभवविरुद्धमिति ॥ व्याप्तयाद्यनुसन्धाना-भावेऽपि सङ्केतस्मृतिमतः शब्दश्रवणमात्रादेव वाक्यार्थबोधस्याविसंवादिनः सर्वसाक्षिसिद्धत्वाद् इति भावः । विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षम् इति तत्वनिर्णयोक्तवचनानुरोधादाह ॥ अर्थं प्रतीति ॥ प्रादिसमास एवायं, नाव्ययीभाव इति भावः । स्वस्वयोग्यविषयं प्रतीत्यर्थः ॥ प्रमाणान्तरेति ॥ प्रत्यक्षाऽगमरूपेत्यर्थ आ समन्ताद् गमयति धर्माधर्मौ परं पदम् । यच्चाप्यतीन्द्रियं किञ्चिद् इत्यनुव्यारव्या-नोक्तमाह ॥ सम्यगिति ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
अनुप्रमाणत्रैविध्योक्तेः प्रयोजनमाह ॥ न्यूनेति ॥ न्यूना च अधिका च सङ्ख्या येषां तानि न्यूनाधिकसङ्ख्यानि प्रमाणानि तेषां प्रत्यक्षाऽद्यन्यतमेष्वन्तर्भावाभावज्ञापनार्थोऽयं विभाग इत्यर्थः । अत्र न्यूनसङ्ख्याक-प्रमाणस्याभावो ऽधिकसङ्ख्याकप्रमाणस्य प्रत्यक्षाऽद्यन्यतमेष्वन्तर्भाव इत्येवं यथायोगं सम्बन्धो न यथाक्रमम् । तथा च उत्तरत्र न्यूनसङ्ख्याकप्रमाणवादिनां चार्वाकाऽदीनां दूषणम् अर्थापत्त्यादीनामन्तर्भावकथनं च सङ्गच्छत इति द्रष्टव्यम्।
प्रत्यक्षाऽदीनां क्रमेणोद्देशे निमित्तमाह ॥ प्रायेणेत्यादिना ॥ आसन्नेति ॥ स्वसन्निकृष्टेत्यर्थः । चक्षुषा जायमाने ‘सोऽयम्’इति प्रत्यभिज्ञाप्रत्यक्षे अनासन्नव्यवहितावर्तमानस्यपि अतीतत्वस्य भानात् प्रायेण इत्युक्तम् । आगमानुसार्यनुमानस्य कतिपयार्थग्राहकदुर्बलप्रत्यक्षाद प्युत्तमत्वमित्याशयेनाऽह ॥ अनासन्नेति ॥ अनासन्नधर्माऽदिस्वरूपमात्रस्यानुमानेन सिद्धावपि न तद्विशेषः शक्यानुमानः । अतोऽनासन्नगोचरादप्प्यनुमानाद् आगमस्यैवोत्तमत्वमित्याह ॥ स्वातन्त्र्येणेति ॥ प्रत्यक्षानुमानानपेक्षयेत्यर्थः ॥ अशेषार्थेति ॥ ईश्वरधर्माधर्माऽद्यशेषविशेषार्थेत्यर्थः । उद्देश उद्देशेऽपि क्रम इत्यर्थः ।
न्यूनसङ्ख्याकप्रमाणवादिमतमनूद्य दूषयति ॥ प्रत्यक्षमिति ॥ तस्येष्टेति ॥ लोके इष्टसाधनताज्ञानस्यैव प्रवृत्तिहेतुत्वदर्शनात् तस्य चानुमानसाध्यत्वात् तस्य च प्रमाण्यानङ्गीकारेण इष्टसाधनताज्ञानोपायाभावेजातमात्रस्य बालस्य स्तनपानादौ प्रवृत्त्यभावप्रसङ्गेेन जीवनमेवानुपपन्नमित्यर्थः । ननु प्रत्यक्षमेवाऽस्तु तज्ज्ञानो पायः । अतो नानुमानापेक्षेत्युपपन्नं जीवनमिति चेत् तत्राऽह ॥ न हीति ॥ इष्टसाधनत्वं नाम इष्टं प्रति जनकत्वम् । तच्चकालाऽदिगर्भतया अतीन्द्रियमिति न प्रत्यक्षं तज्ज्ञानोपाय इत्यर्थः ।
॥अन्यत्रान्तर्भूत इति ॥ अनुमानेऽन्तर्भूत इत्यर्थः । संसर्गप्रमितिर्ह्यागमफलम् । सा च एतानि पदानि स्वस्मारितार्थसंसर्गज्ञानपूर्वकाणि आकाङ्क्षाऽऽदिमत्पद-कदम्बकत्वाद् इत्यनुमानेन वक्तृज्ञानावच्छेदकतया सिद्ध्यतीति न तदर्थमागमः पृथक्प्रमाणतया अङ्गीकार्य इति भावः ।
॥ अनुभवविरुद्धमिति ॥ गृहीतसङ्गतेः पुरुषस्य ‘शब्दाद् अर्थं प्रत्येमि’ इत्यर्थावबोधस्य साक्ष्यनुभवसिद्धत्वाद् आगमो न बोधक इत्यङ्गीकारे अनुभवविरोधः। अर्थसंवादाऽदिना यथार्थबोधकत्वस्याऽप्यनुभवसिद्धत्वेन बोधकोपि न यथार्थ इत्यङ्गीकारेऽपि अनुभवविरोधः । व्याप्त्यादिग्रहणनिरपेक्षस्यैव आगमस्य बोधकतया अनुभवसिद्धत्वाद् अनुमानान्तर्भावाङ्गीकारपक्षोऽपि अनुभवविरुद्ध इत्यर्थः । विस्तरस्तु अन्यत्र द्रष्टव्य इति भावः ।
अनुमानम् इत्यत्र अनु इत्युपसर्गार्थः प्रमाणान्तरानुसारेणैवेति । आगम इत्यत्रत्यस्य आङोऽर्थः सम्यगिति ॥ संज्ञानिरुक्त्यैवेति ॥ प्रत्यक्षाऽदि-नामनिर्वचनेनैवेत्यर्थः । तर्हि पुनर्लक्षणारम्भवैयर्थ्यमित्याशङ्क्याऽह ॥ प्रत्यक्षे तस्यैवेति ॥ प्रत्यक्षशब्दनिरुक्त्या लब्धं यत् ‘प्रति स्थितम् अक्षम्’ इति लक्षणं तस्यैवेत्यर्थः । स्फुटीकरणं च प्रतिशब्दार्थविवरणेन, कं प्रति ? इति शङ्कायां योग्यतया अर्थसम्बन्धकथनेन, निर्दोषत्वविशेषणदानेन चेति ज्ञातव्यम् ॥ अनुमानाऽदाविति ॥ प्रमाणान्तरानुसारेणार्थप्रमापकम्, सम्यगतीन्द्रियार्थावगमकश्च कः ? इत्यपेक्षायां निर्दोषोपपत्तिः , निर्दोषः शब्द इत्येवं शृङ्गग्राहिकान्यायेन तज्ज्ञापनाय प्रमाणान्तरानुसारेणार्थप्रमापकसम्यगतीन्द्रियार्थावगमकवस्तुज्ञापनार्थं पुनर्लक्षणा-रंभ इत्यर्थः ।
प्रमाणलक्षणटीकाविवरणम्
अयमभिप्रायः । अन्येषामागमादीनामनुमानेंऽतर्भार्वमभिप्रेत्य प्रमाणद्वयमेव कणादादिनाङ्गीकृतम् । तत्रान्तर्भावाभावोपपादनार्थम् । अधिकसंख्याकप्रमाणानां च एष्वेव त्रिषु अन्तर्भावोपपादनार्थं चायं विभाग इति।
नन्वयमुद्देशः किं प्राधान्यानुसारेण उताप्राधान्यानुसारेण । नाद्यः । तथात्वे आगमस्य प्राथम्यापातात् । न द्वितीयः । अनुमानस्य प्राथम्यापातात् । नच तस्य प्रत्यक्षापेक्षया अप्राधान्यमेव युक्त इति वाच्यम् । प्रत्यक्षस्योपजीव्यत्वेन तदपेक्षया तस्याप्राधान्यात् ।
नच प्रत्यक्षवत् परमाणुमहं जानामीत्यादिप्रत्यक्षं प्रत्यपि त्रसरेणुः सावयवावयवारब्धौ जन्यमहत्वाधिकरणत्वादित्यनुमानस्यापि उपजीव्यत्वा-त्प्राधान्यमिति वाच्यम् । तथापि न प्रत्यक्षत्वावछेदेन तस्यत्वतत्वावेछेदेनेव तथेत्यनुमानस्यैव प्राथम्यमुचितमित्यतो द्वितीयपक्षमङ्गीकृत्य तदुपपादयति ॥ प्रायेणेति ॥ आसन्नं स्वसन्निकृष्टमित्यर्थः । तथाच कतिपयार्थग्राहकत्वेना-नुमानापेक्षया प्रधानत्वेपि प्राथम्यमुपपन्नमित्यर्थः ।
शब्दानुसर्यनुमानस्याप्यशेषार्थविषयकत्वादाह ॥ स्वातंत्र्येणेति ॥ तथाचानुमानस्य सर्वार्थविषयकत्वं तथाऽपि तु सहकारेणेव ‘‘कामाच्च नानुमानापेक्षा’’ इति न्यायेन मतितर्कस्य सुकरत्वेन केवलस्यासाधकत्वम् । प्रत्यक्षागमोपोद्वलितस्य तस्य साधकत्वम् । एवमागमस्य प्रत्यक्षानुमानपोद्बेलितस्या साधकत्वं नास्ति । किंतु स्वातंत्र्येणेव साधकत्वमिति भावेनाह ॥ स्वातंत्र्येणेति ॥
अनुप्रमाणं त्रिविधमिति प्रतिज्ञानवन्यूनाधिकसंख्यान्यतमान्तर्भावाभावोप-पादनस्य ज्ञापितत्वाद् अधिकसंख्याकस्वप्रमाणस्यान्तर्भावाभावं वक्तुं तन्मतमुपन्यस्यति ॥ प्रत्यक्षमेकमिति ॥ तस्येति ॥ अनुमानसाध्यत्वादिष्ट-साधनताज्ञानस्य तस्य चाप्रामाण्येन तदभावेन प्रवृत्त्यभावात् । भोजनाद्यभावेन जीवनमनुपपन्नमित्यर्थः ।
ननु अनुमानाद्यप्रामाण्येऽपि न जीवनमनुपपन्नम् इष्टसाधनतज्ञानस्य प्रत्यक्षादिना संभवादित्यत आह ॥ नहीति ॥ तथात्वे प्रत्यक्षेणेष्टसाधनत्वाभावस्य निर्णीतत्वेन सर्पग्रहणादावपि बालस्य प्रवृत्तिरनुपपन्ना इति भावः । उपपादितं चैतत् पद्धतौ ।
॥ पक्षत्रयमपीति ॥ शब्दादर्थापबाधस्यानुभवसिद्धत्वात् तदनङ्गीकारेऽनुभव-विरोधः । अर्थसंवादेन यथार्थावबोधकत्वस्यापि सत्वेन तदभावेऽप्यनुभवविरोधः। अनुमानान्तर्भूतत्वे व्याप्यादिसापेक्षस्यैव लिङ्गस्य अर्थावबाधकत्वेन अस्य च तदनेपक्षस्यैवार्थावबोधकत्वेनानुमानान्तर्भूतत्वासंभवादिति ज्ञातव्यम् । अनुमानप्रामाण्ये जीवनमेवानुपपन्नम् । तद्धि अन्नपानादिभणक्षीसाध्यं तद्भक्षणं च प्रवृत्तिसाध्यं प्रवृत्तिश्चेष्टसाधनतो ज्ञानसाध्या तच्चानुमानसाध्यमिति जीवनमेवानुपपन्नमिति बोध्यम् ।
॥ तस्यैव स्फुटीकरणार्थमिति ॥ प्रत्यक्षशब्दसंज्ञानिरुक्त्यैव लब्धयत प्रति स्थितमक्षमिति यल्लक्षणं तस्येत्यर्थः । स्फुटीकरणं च प्रतिस्थितशब्दार्थ-कथनेनयोग्यतार्थसंबंधकथनेनानुक्तनिर्दोषत्ववचनेन चेति ज्ञातव्यम् । प्रमाणान्तरानु-सारेणार्थप्रमाकं किमित्याशङ्कार्यानिर्दोषोपपत्तिरिति धीग्राहिकया दर्शयितुमिति भावः ॥