सर्वं चोत्पत्तिमत् केवलं त्रिविधम्
सादिकेवलज्ञानविभागः
प्रमाणलक्षणटीका
सर्वं चोत्पत्तिमत् केवलं त्रिविधम् । प्रत्यक्षजमनुमान-जमागमजमिति । प्रत्यक्षादीनामवान्तरभेदेन पुनर्भिद्यत इति।
प्रमाणलक्षणटीकाभावदीपः
॥ऋजुज्ञानाच्चेति ॥ तस्यापि अनालोचने किञ्चिद्ह्र्रासयुक्त-त्वाद् इति भावः । अत्रतात्विकज्ञानाऽदौ अनादित्वसादित्वयोरुक्तिर् व्यक्त््य-पेक्षयेत्याहुः । लक्ष्मीज्ञानस्थित्यनुपपादनपूर्वं तन्निरासायाऽह ॥ ईशादन्यत्रेती-त्यादिना ॥ आलोचनेऽपि ह्रसितं लक्ष्म्यादिज्ञानमिति कृत्वा ईशाद् अन्यत्रेत्युक्त््या तल्लक्ष्म्यादिज्ञानस्य निरास इति योजना ।
॥ ऋजुतात्विकज्ञानेति ॥ ऋजुज्ञानतात्विकज्ञानेत्यर्थः ॥ अयोगिज्ञानेति ॥ तस्यातिह्रासयुक्तत्वाद् इति भावः । मूलानुक्तविभागं शिष्यव्युत्पादनाय स्वयमाह ॥ सर्वं चेति ॥ त्रिविधं योगिनाम् अयोगिनां च वृत्तिरूपं केवलप्रमाणमित्यर्थः । साक्षिज्ञाननिरासायोत्पत्तिमदित्युक्तिः ।
॥ अवान्तरभेदेनेति ॥ चाक्षुषं रासनम् अन्वयानुमानजं व्यतिरेकिजं स्वार्थानुमानजं कार्यानुमानजं नित्याऽगमजं पौरुषेयाऽगमजम् इत्याद्यवान्तरभेदेने-त्यर्थः । एतच्च त्रिविधमित्युक्तधाप्रत्ययघटनाय । ‘‘सङ्ख्याया विधार्थे धा’’ इति अवान्तरभेद एव धाप्रत्ययविधानात् ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
ततस् तेभ्य ऋजुभ्यः, अर्वाक् नीचानां योगिनां तात्विकानाम् अतात्विकानां च, ज्ञानमिति शेषः, तत ईशात्, अर्वाक् अन्यत्र, क्रमेण ह्रसितमित्यर्थ इत्यभिप्रेत्य व्याचष्टे ॥ ऋजुभ्य इत्यादिना ॥ किञ्चिन्मात्रह्रासयुक्तमिति ॥ किञ्चिन्मात्रहासो नामाल्पाज्ञानयुक्तत्वम् । असर्वविषयकत्वमिति यावत् । तद्युक्तमित्यर्थः ।
॥ अन्योन्यमिति ॥ ईशाद् अन्यत्र असर्वविषयकत्वस्य तात्विकयोगि-ज्ञानलक्षणत्वे अतात्विकयोगिज्ञाने अतिव्याप्तिः, अतात्विकयोगिज्ञानलक्षणत्वे च तात्विकयोगिज्ञाने अतिव्याप्तिरित्यर्थः ।
॥ ऋजुज्ञानाच्चेति ॥ अनालोचनदशायाम् इति शेषः । ईशाद् अन्यत्र अनालोचनदशायाम् असर्वविषयकत्वस्य ऋजुज्ञानेऽपि सत्वाद् अतिव्याप्तिरित्यर्थः । कथम् अनेनोक्तशङ्कानिरासः ? इत्यत आह ॥ नैतावदेवेति ॥ ततोऽर्वागितिवाक्योक्तमेव न लक्षणमित्यर्थः ।
नैतावदेव लक्षणं चेत् पुनः कियद् इति पृच्छति ॥ किं त्विति ॥ तदुत्तरतया मूलं योजयति ॥ तात्विकेति ॥ सादि चेत्यत्र चशब्दार्थकथनमेतत् ॥ इत्यपि गृह्यत इति ॥ ततोऽर्वागित्युक्तलक्षण इत्यर्थः । वाक्यद्वयसम्पन्नं लक्षणं दर्शयति ॥ एतेनेत्यादिना ॥
॥ अनादित्वे सतीति ॥ तत्वाभिमानिनो देवास्तात्विकाः । तेषां ज्ञानमपि स्वरूपभूतं वत्तिरूपं चेति द्विविधम् । तदुभयसाधारणमिदं लक्षणम् । तत्र तात्विकस्वरूपज्ञानस्य अनादित्वं नाम वैदिकेश्वरादिविषयेसदा वक्तव्यम् । इदम्प्रथमताभाव इति यावत् । वृत्तिज्ञानस्यानादित्वं नाम वैदिकेश्वराऽदिविषये तत्प्रवाहस्येदम्प्रथमताया अभाव एवेति ज्ञातव्यम् ।
॥ ह्रसितमिति ॥ अल्पाज्ञानयुक्तमसर्वविषयकमित्यर्थः । यथोक्तम् पद्धतौ अनादित्वे सति ईशाद् अन्यत्र आलोचनेऽपि असर्वविषयं तज्ज्ञानमिति । एतेषां स्वरूपज्ञानं यथार्थमेव । बाह्यं कदाचिद् अयथार्थमपीति विशेषो द्रष्टव्यः।
॥ सादित्वे सतीति ॥ तत्वाभिमानिव्यतिरिक्ता देवाऽदयो योगिनो ऽतात्विकाः । तदीयं ज्ञानमपि स्वरूपं वृत्तिरूपं चेति द्विविधम् । तदुभय-साधारणमिदं लक्षणम् । तत्रानादितोऽनभिव्यक्तमेव स्वरूपं वैदिकेश्वरादिविषये कदाचिद् अभिव्यज्यते इत्येवम् अभिव्यक्तेर् इदम्प्रथमतावत्वमेव स्वरूपज्ञानस्य साऽदित्वम् । वृत्तिज्ञानस्य वैदिकेश्वराऽदिविषये अनुत्पन्न एव प्रवाहः कदाचिद् उत्पद्यत इति इदम्प्रथमतावत्वमेव सादित्वमिति विवेको द्रष्टव्यः ।
॥ किञ्चिन्मात्रहासयुक्तमिति ॥ अल्पाज्ञानयुक्तमित्यर्थः । यथोक्तम् पद्धतौ सादित्वे सति ईशाद् अन्यत्र अल्पाज्ञानयुक्तम् इति । एतेषामपि स्वरूपज्ञानं यथार्थमेव । बाह्यं तु कदाचिदयथार्थमपीतिद्रष्टव्यम् । तात्विकातात्विकयोगिज्ञानयोर् अल्पाज्ञानयुक्तत्वेन साम्येऽपि अनादित्वसादित्वाभ्यां विशेषोद्रष्टव्यः ।
एवं च अतात्विकस्वरूपज्ञान इव ऋजुतात्विकस्वरूपज्ञानेपि व्यक्तेः साम्यात्, सादित्वस्य च अतात्विकवृत्तिज्ञान इव ऋजुतात्विकवृत्तिज्ञानयोरपि विद्यमानत्वात् कथम् ऋजुतात्विकातात्विकयोगिज्ञानानाम् अनादित्वसादित्वकथनम् ? इति चोद्यानवकाशः । वैदिकेश्वराऽदिविषये ऋजुतात्विकस्वरूप-व्यक्तिवत्तिप्रवाहयोर् इदम्प्रथमताया अभावेन अनादित्वम्, अतात्विकस्वरूप-ज्ञानाभिव्यक्तिवत्तिप्रवाहयोर् इदम्प्रथमतायाः कदाचिदेवोत्पन्नत्वेन सादित्वम् इति विवक्षितत्वात् ।
तात्विकयोगिज्ञानलक्षणे पदानां कृत्यमाह ॥ तत्राद्य इति ॥ लक्षणद्वयमध्ये आद्ये लक्षण इत्यर्थः ॥ ह्मसितेति ॥ असर्वविषयेत्यर्थः ॥ ऋजुज्ञानेति ॥ अनादित्वेसति ईशाद् अन्यत्र अनालोचनदशायाम् ऋजुज्ञानस्यापि ह्रसितत्वादित्यर्थः। ईशाद् अन्यत्र ज्ञानमित्येवोक्ते ईशादिज्ञाने अतिव्याप्तिर् इत्याशङ्क्य तां परिहरति ॥ ह्रसितमित्यनेनैवेति ॥ किं पुनरालोचनेऽपीत्यालोचनग्रहणेनेति एवकारार्थःे। तथा च पदद्वयेन तन्निरास इति भावः । अत एवोत्तरत्र ह्रसितत्वाऽदिग्रहणेनेति वक्ष्यति ॥ ईशज्ञानेति ॥ ईशाऽदिज्ञानेत्यर्थः ।
अन्ये तु अस्मिन् लक्षणे ईशज्ञानं व्यावर्त्यते न वा । आद्ये केन ज्ञानेति विवेक्तव्यम् ? न तावदनादित्वे सतीत्यनेन । तस्या तात्विकज्ञानव्यावर्तकत्वात् । नापि ईशाद् अन्यत्रेति विशेषणेन । तस्य लक्ष्मीज्ञानव्यावर्तकत्वात् । नाप्यालोचनेऽपीति विशेषणेन । तस्य ऋजुज्ञानव्यावर्तकत्वात् । नापि ह्रसितमित्यनेन । ईशस्याऽलोचनाभावत् । अतः केन विशेषणेन तद्व्यावृत्तिः? इत्यत आह ॥ ह्रसितमित्यनेनैवेति ॥ नत्वनादीत्यादिपदैरिति एवार्थः । अत्रानादिविशेषणानां कृत्यकरणात् प्रागेव ह्रसितपदकृत्यं द्रष्टव्यम् ।
तथा चैवं पदकृत्यक्रमः । अनादि तात्विकज्ञानमित्युक्ते ईशज्ञानेतिव्याप्तिः स्यात् । तदर्थं ह्रसितमित्युक्तम् । तावत्युक्ते लक्ष्मीज्ञाने । तस्याप्यानादित्वाद् ईशविषये ह्रसितत्वाच्च । अत उक्तम् ईशाद् अन्यत्रेति । तावत्युक्ते ऋजु-ज्ञानेऽतिव्याप्तिस् तस्यापि अनालोचनदशायां ह्रसितत्वात् । अत उक्तम् आलोचनेऽपीति । तथा च ह्रसितपदेनैव ईशज्ञानव्यावृत्तिः कार्या न पदान्तरैः । तेषां तदव्यावर्तकत्वाद् इति भाव इत्याहुः ।
अतात्विकयोगिज्ञानलक्षणे पदानां कृत्यमाह ॥ द्वितीय इति ॥ सादित्वे सति र्ईशाद् अन्यत्र अज्ञानयुक्तमित्युक्ते अयोगिज्ञानेऽतिव्याप्तिः स्यात् । अत उक्तं किञ्चिन्मात्रह्रासयुक्तमिति ।
तस्य बहुतराज्ञानयुक्तत्वेनाल्पाज्ञानयुक्तत्वाभावादाह ॥ किञ्चिन्मात्रेति ॥ ईशाद् अन्यत्र इति पदत्यागे ईशविषये बह्वज्ञानयुक्तत्वेनाल्पाज्ञानयुक्तत्वा-भावाल्लक्षणस्यासम्भवः स्यात् । अत उक्तम् ईशाद् अन्यत्रेति, इत्याह ॥ ईशादन्यत्रेति ॥ तत्सम्भवार्थमिति ॥ तस्य लक्षणस्य लक्ष्ये सम्भवार्थम् असम्भवपरिहारार्थमिति यावदित्यर्थः ।
ईशाद् अन्यत्र ज्ञानम् इत्येवास्तु इत्यत आह ॥ ह्रसितत्वाऽदीति ॥ ह्रसितत्वाऽदीत्यत्र आदिपदेन सादित्वकिञ्चिन्मात्रह्रासयुक्तत्वयोः संग्रहः । द्वितीयाऽदिपदेन लक्ष्मीग्रहणम् ।
॥ अयोगिज्ञानमुत्पत्तिविनाशवदिति ॥ अतात्विकदेवाऽदिव्यतिरिक्तजीवा अयोगिनः । तथा च अयोगिनां स्वरूपं बाह्यं चेति द्विविधमपि ज्ञानमुत्पत्तिनाशवत्। स्वरूपज्ञानस्य वैदिकेश्वराऽदिविषयकस्य कदाचिदभिव्यक्त्यपेक्षयोत्पत्ति-विनाशवत्वम् । वृत्तिज्ञानस्य तु स्वरूपापेक्षयेति द्रष्टव्यम् ॥ तस्य लक्षणमाहेति ॥
नन्वेवं चेद् अतात्विकयोगिज्ञानायोगिज्ञानयोरुत्पत्तिनाशवत्वेन साम्यमेव प्राप्तम् इत्याशङ्क्य तयोर्भेदकं लक्षणमाहेत्यर्थः ॥ अल्पविषयमिति ॥ अत्यन्तमिति संयोज्यम् । अत्यन्ताल्पविषयमित्यर्थः । यथोक्तं पद्धतौ ईश्वराद् अन्यत्र अज्ञानप्रचुरम् इति । अज्ञानप्रचुरं बह्वज्ञानयुक्तम् । अत्यन्ताल्पविषयमिति तदर्थः।
ईशेऽत्यन्ताल्पविषयलक्ष्मीज्ञानव्युदासाय ईशाद् अन्यत्र इत्युक्तम् । ईशाद् अन्यत्र अल्पविषयकातात्विकयोगिज्ञानवारणाय अत्यन्तेति । ईशलक्ष्मी-ज्ञानर्ज्वादिस्वरूपज्ञानरूपकेवलप्रमाणे वक्ष्यमाणप्रत्यक्षत्वाऽदिरूपत्रैविध्यस्य बाधितत्वादाह ॥ सर्वं चोत्पत्तिमत्केवलमिति ॥ उत्पत्तिमत् सर्व केवलम् ऋज्वादिमनोवृत्तिरूपं ज्ञानमित्यर्थः ।
॥ प्रत्यक्षादीनामिति ॥ घ्राणाऽद्यवान्तरभेदेन प्रत्यक्षस्य षाडि्वध्यात् तज्जन्यं ज्ञानमपि षडि्वधम् । अनुमानस्यापि साधनदूषणभेदेन द्वैविध्याद् आगमस्यापि पौरुषेयापौरुषेयभेदेन द्वैविध्यात् तज्जन्यं ज्ञानमपि पुनर्भिद्यत इत्यर्थः।
प्रमाणलक्षणटीकाविवरणं
ततोऽव्ययमित्यनेन मुक्तौ अव्ययत्वं वदता मुक्तेः पूर्वं तद्ह्रासो नांऽगीकृतः । मुक्तिपर्यंतंवृद्धिमत्वे कि नंनूयत्यपीत्युक्ते तत्राव्यव्यत्वे मात्रोक्तेः । यद्वाऽस्तुवाऽव्ययः । नचैवमपसिद्धान्तः । तिरोभावलक्षणस्य व्ययस्याङ्गीकारादिति ध्येयम् । तच्छब्दस्य पूर्वप्रकृतऋजुत्वपरत्वम् अर्वाकशब्दस्वचतदन्यतात्विकातात्विका-योगिपरत्वं ज्ञानशब्दन्यत्रशब्दस्य च पूर्ववाक्यादनुषङ्गमभिप्रेत्य साकांक्षं वाक्यं योजयति ॥ ऋजुभ्य इति ॥
अनेनालोचने ईशादन्यत्रासर्वविषयत्वं तात्विकातात्विकयोगिज्ञानलक्षणमुक्तं तदयुक्तमित्याह ॥ अन्योन्यमिति ॥ ईशादन्यत्रालोचनेऽसर्वविषयत्वस्योभयत्र सत्त्वेनातिव्याप्तेरिति भावः । ऋजुज्ञानाच्चेति ॥ अनालोचन इति शेषः । तस्याप्यनालोचने ईशादन्यत्र सर्वविषयत्वाभावात् । तत्रातिप्यभन्याप्तिरिति भावः।
॥ ईशादन्यत्रेतीति ॥ लक्ष्मीज्ञानं च ईशादन्यत्रालोचनेऽसर्वविषयं न भवतीत्यर्थः । ईशादन्यत्रानालोचने सर्वविषयम् ऋजुयोगिज्ञानमपि भवतीति तत्रातिव्याप्तिरतो आलोचनेपीत्युक्तमित्याह ॥ ऋजुयोगिज्ञानेति ॥ ह्रसितमित्यनेनैवेति ॥ किंपुनरालोचनग्रहणेनेति एवशब्दः । ह्रसितत्वादीत्यत्र आदिपदेन सादित्वानालोचनयोर्ग्रहणम् । द्वितीयेन लक्ष्म्यादिनाम् । ज्ञानिवृत्तिरिति लक्ष्म्यादिज्ञानस्यापि ईश्चरविषये अत्यल्पत्वात्तत्र ज्ञाने चातिव्याप्त्या न अल्पत्वं तल्लक्षणमित्यत आह ॥ ईशादन्यत्रेति ॥ नचैवमतात्विकऋजुज्ञाने ईशादन्यत्र अतात्विकयोगिज्ञानापेक्षयाऽपि न्यूनविषयत्वस्य विवक्षितत्वादिति भावः । योगिज्ञानवदयोगिज्ञानमपि किंचिन्नित्यं किंचिदनित्यं किंनेत्याह ॥ सर्वमिति ॥ तत्रच स्वरूपज्ञानस्य व्यक्त्यपेक्षयोत्पत्तिमत्वमिति हृदयम् । सर्वं चोत्पत्तिमत् केवलं द्विविधमिति पाठे उत्पत्तिमत्केवलं सर्वं तु त्रिविधमिर्त्थः ।
नैतावन्मात्रमपि तु अनेकप्रकारं चेत्याह ॥ प्रत्यक्षेति ॥ प्रत्यक्षस्य सप्तविधत्वादनुमानस्यापि अकार्यकारणादिभेदेनाऽगमस्यापि पौरुषेयापौरुषेयभेदेन तज्जन्यं केवलम् अनेकप्रकारमित्यर्थः ॥