अयोगिज्ञानमुत्पत्तिविनाशवत्, अल्पम्
अयोगिज्ञाननिरूपणम्
प्रमाणलक्षणटीका
अयोगिज्ञानं किमीश्वराऽदिज्ञानवदनादिनित्यमेव सदिन्द्रियसन्निकर्षाऽदिनाभिव्यज्यते । उत सादि विनाशि चेति। तत्राह –
प्रमाणलक्षणम्
अयोगिज्ञानमुत्पत्तिविनाशवत्
तस्य लक्षणमाह
***अल्पम् ***
ईशादन्यत्राल्पविषयम् ।