०४ योगिज्ञानसामान्यलक्षणविभागौ

योगिज्ञानमृजूनामनादिनित्यम्

योगिज्ञानसामान्यलक्षणविभागौ

प्रमाणलक्षणटीका

योगप्रभावलब्धातिशयं योगिज्ञानम् । तत् त्रिविधम् ऋजुतात्विकअतात्विकयोगिज्ञानभेदेन ।

ऋजुयोगिज्ञाननिरूपणम्

तत्र पूर्ववदृजुज्ञानं नानुप्रमाणजन्यमनित्यं चेत्याह

प्रमाणलक्षणम्

***योगिज्ञानमृजूनामनादिनित्यम् ***

केषां योगिनां ? ऋजूनाम् इति योज्यम् । योगिज्ञान इति पाठे ज्ञानमिति शेषः । असार्वत्रिकत्वाद् योगविभागः । तल्लक्षणमाह

ईशे जीवेभ्योऽधिकम्

ऋजुव्यतिरिक्तजीवज्ञानेभ्य एव । ईश इति स्वरूपकथनम् । जीवेभ्योऽधिकमित्यस्मदादिज्ञाननिरासः । अवधारणेनेश-लक्ष्मीज्ञाननिवृत्तिः । लक्षणान्तरं चाह

***अन्यत्राऽलोचने सर्वविषयम् ***

अन्यत्र ईशादिति शेषः । अन्यत्र ग्रहणमसंभवनिवृत्यर्थम्। आलोचन इतीशलक्ष्मीज्ञाननिरासः । सर्वग्रहणमस्मदादि-ज्ञाननिरासार्थम् ।

ऋजुज्ञानं यद्यनादिनित्यं तर्हि कथं तद् योगिज्ञानम् ? योगजं हि योगिज्ञानमित्यत आह

क्रमेण वर्धमानं

योगप्रभावेन वृद्धिसद्भावाद् योगिज्ञानत्वं युक्तम् ।

क्रमेण वर्धमानत्वे मुक्तावपि किं वर्धत इति ? नेत्याह

आ मुक्तेः

आङ् मर्यादायाम् ।

अभिवृद्धनदीवत् पुनः किं ह्वासो भवति? नेत्याह

ततोऽव्ययम्

प्रमाणलक्षणटीकाभावदीपः

मूले योगिज्ञानावान्तरभेदभिन्नर्जुज्ञानस्यैव लक्षणोक्तेस् ततः प्रागा-काङ्क्षितौ सामान्यलक्षणविभागौ स्वयमाह ॥ योगेति ॥ योगो भगवद्धर्मानुष्ठानादि-रूपज्ञानोपायः । तत्सामर्थ्यप्राप्तोत्कर्षं ज्ञानमित्यर्थः । योगिज्ञानपदम् ऋजुयोगिज्ञानं तात्विकयोगिज्ञानम् अतात्विकयोगिज्ञानमिति प्रत्येकमन्वेति । भेदेन निमित्तेनेत्यर्थः। पूर्ववद् ईशलक्ष्मीज्ञानवत् । अनित्यं च न इत्यनुषङ्गः ॥ इति पाठ इति ॥ सप्तम्यन्तपाठ इत्यर्थः । योगिज्ञानमध्य इत्यर्थः ।

ननु योगिज्ञानमनादिनित्यम् इत्यनुक्त्वा योगिज्ञाने ऋजूनां ज्ञानमनादिनित्यम् इति वाक्यभेदः कम्मात् कृत ? इत्यतो वा, ऋजुतात्विकातात्विकज्ञानमनादिनित्यम् इत्यनुक्त्वा ऋजूनामनादिनित्यं ततोऽर्वाक् क्रमेण ह्रसितम् इति वाक्यभेदः कुतः कृतः? इत्यतो वाऽऽह ॥ असार्वत्रिकत्वादिति ॥ अनादिनित्यत्वस्येति योज्यमित्येके ।

अन्ये तु पूर्वद्वयमनादिनित्यम् इत्यत्र पूर्वत्रयमनादिनित्यम् इत्येव कुतो नोक्तम् ? कस्माद् वाक्यभेदः ? इत्यत आह ॥ असार्वत्रिकत्वादिति ॥ अनादिनित्यत्वस्य योगिज्ञाने सर्वत्र अभावाद् इत्यर्थः । तर्हि पूर्वद्वयम् ऋजुज्ञानं चानादिनित्यम् इत्युच्यतामित्यपि न । प्राक् तथा अनिर्देशेन तदा तस्यानुपस्थितेः । उपस्थितौ वा वृत्तिज्ञानांशे मुख्यानादिनित्यत्वस्याभावेन असार्वत्रिकत्वाद् योगविभाग इत्यर्थ इत्याहुः । एतच्च अनादिनित्यत्वं स्वरूपज्ञाने मुख्यम् । वृत्तिज्ञाने तु प्रवाहतः । तदपि मुक्तिपर्यन्तमेव नित्यत्वं ज्ञेयम् । एतेन मातरिश्वा व्याख्यात इति सूत्रे प्रलये अविलुप्तत्वेनैव ज्ञाननित्यत्वोक्तः ।

ऋजूनामपिब्रह्मत्वयोग्यजीवत्वाद् व्याघातनिरासायाह ॥ ऋजुव्यतिरिक्तेति ॥ आङ् मर्यादायामिति ॥ ‘ ‘ईषदर्थे क्रियायोगेे मर्यादाऽभिविधौ च यः। एतमातं ङितं विद्यात्’ ’ इत्युक्तेर्मर्यादायामित्युक्तम् । ‘तेन विना’ इति मर्यादा । ‘तेन सह’ इत्यभिविधिः । ‘आनगरं वृष्टिः’ इत्यादौ आङ् मर्यादार्थश्चेन् नगरपर्यन्तमेव, न तु नगर इत्यर्थः । अभिविध्यर्थश्चेन् नगरेपि वृष्टिर् इत्यर्थो भवति । अतो मुक्तिपर्यन्तमेव इत्यर्थलाभाय मर्यादायाम् इत्युक्तम् । ‘आ कडारात्’ इत्यादिपाणिनिसूत्र इव असमासेनायं निर्देशः । अन्यथा आमुक्ति इति स्यात् ॥ तत इति ॥ मुक्त्यनन्तरमित्यर्थः । एतच्च स्वरूपज्ञानविषयम् ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

योगिज्ञानसामान्यलक्षणस्य मूलेऽनुक्तत्वात् स्वयमेवाऽह ॥ योगप्रभावेति ॥ योगो नाम ईश्वरे मनःप्रणिधानम् । तत्सामर्थ्येन लब्धो ऽतिशयः बहुविषयकत्वरूपो यस्य तत् तथोक्तमित्यर्थः । अत्र एतादृशातिशययोग्यत्वमेव लक्षणं विवक्षितम् । अतः कदाचिद् अबहुविषयके योगिज्ञाने नाव्याप्तिरिति ध्येयम्। तद् विभज्य उद्दिशति ॥ तत् त्रिविधमित्यादिना ॥ ऋज्वित्यादि ॥ ऋजुयोगिज्ञानतात्विकयोगिज्ञानातात्विकयोगिज्ञानभेदेनेत्यर्थः ॥ पूर्ववदिति ॥ ईशलक्ष्मीज्ञानवदित्यर्थः ।

ननु योगिपदस्य ऋजुपदेन साकाङ्क्षतया तेनैव समासो वक्तव्यः न ज्ञानपदेन। यद् येन सापेक्षं तत् तेनैव समासाय समर्थं नान्येन । ‘सापेक्षमसमर्थवद् भवति’ इति वचनात् । अतो ऋजुयोगिज्ञानमित्येव वक्तव्यम् , न ऋजूनामिति । तत्राह ॥ केषामिति ॥ अन्येन समासेऽपि न पूर्वपदेनाकाङ्क्षा विहन्यते । ‘देवदत्तस्य गुरुकुलम्’ इत्यादिवत् । अत उत्थिताऽकाङ्क्षारूपनित्यसापेक्षत्वाद् युक्तः समासः । वचनं तु उत्थाप्याकाङ्क्षारूपानित्यसापेक्षविषयमिति भावः ।

॥ ज्ञानमिति शेष इति ॥ तथा च योगिज्ञाने योगिज्ञानमध्ये ऋजूनां ज्ञानमनादिनित्यमित्यर्थोद्रष्टव्यः । ननु ईशलक्ष्मीज्ञानवद् ऋजुयोगिज्ञानस्यापि अनादिनित्यत्वे पूर्वत्रयमनादिनित्यम् इत्येव वक्तव्यम् । अतो योगिज्ञानमिति वाक्यं व्यर्थमित्यत आह ॥ असार्वत्रिकत्वादिति ॥ अनादिनित्यत्वस्येति शेषः । योगविभागो वाक्यभेदः । पूर्वत्रयमनादिनित्यम् इत्युक्ते ईशलक्ष्मीज्ञानवद् योगिज्ञानस्य सर्वस्याप्यनादिनित्यत्वं प्राप्नोति । अतस् तन्निरासाय योगिज्ञानमध्ये ऋजुयोगिज्ञानस्यैवानादिनित्यत्वं वक्तुं योगविभाग इत्यर्थः । असार्वत्रिकत्वप्रकारं च उत्तरत्र विवरिष्यामः ।

ब्रह्मत्वयोग्या हि जीवा ऋजवः । तेषां ज्ञानं द्विविधं स्वरूपं मनोवृत्तिरूपं चेति । तत्र वैदिकेश्वरादिविषयं स्वरूपज्ञानमनादितोऽभिव्यक्तं नित्यं च । वैदिकेश्वरादिविषयं मनोवृत्तिरूपज्ञानं योगानुगृहीतप्रत्यक्षादिना स्वरूपेण जन्यमपि प्रवाहतोऽनादि । ‘ ‘एवं प्रलयकालेऽपि प्रतिभातपरावरः । मुख्यवायुः ’ इति वचनात् प्रलये वृत्तिप्रवाहो नोच्छिद्यते । मुक्तौ तु उच्छिद्यत इत्यनित्यम् । द्वयमपि नियमेन यथार्थमिति द्रष्टव्यम् ।

जीवशब्दो जीवज्ञानपर इत्यभिप्रेत्ये जीवज्ञानेभ्य इत्युक्तम् । ऋजूनामपि जीवत्वावच्छिन्नत्वात् तज्ज्ञानेभ्य एव तज्ज्ञानस्याधिकत्वायोगाद् ऋजुव्यतिरिक्तेत्युक्तम् । तथा च ऋजुव्यतिरिक्ततात्विकातात्विकजीवापेक्षयैव ईशे अधिकविषयकं ज्ञानम् ऋजुयोगिज्ञानमिति लक्षणं द्रष्टव्यम् । ज्ञानम् ऋजुयोगिज्ञानमित्येवोक्तेऽस्मदादिज्ञानेतिव्याप्तिः । अतो जीवेभ्योधिकमिति विशेषणमुक्तमित्याह ॥ जीवेभ्योधिकमितीति ॥ अधिकम् अधिकविषयमित्यर्थः

॥ अवधारणेनेति ॥ ईशलक्ष्मीज्ञानयोर् ऋजुयोगिज्ञानापेक्षयाप्यधिक विषयत्वाद् अवधारणेन तयोर्र्व्यावृत्तिरित्यर्थः ॥ लक्षणान्तरमिति ॥ ऋजूनां यत् स्वरूपभूतं ज्ञानं यच्च मनोवृत्तिरूपं तदुभयसाधारणमित्यर्थः ॥ असंभवेति ॥ ईशविषये आलोचने सर्वविषयत्वस्यासम्भवित्वाद् इत्यर्थः ।

अत्र आलोचने सर्वविषयकत्वं नाम आलोचने सर्वविषयकत्वात्यन्ताभावा-नधिकरणत्वरूपं तद्योग्यत्वमेव विवक्षितम् । तेनाऽलोचनाभावदशायां तज्ज्ञाने नाव्याप्तिः । तस्यापि आलोचनलक्षणसहकारिप्राप्तौ सर्वविषयकत्वसम्भवेन उक्तयोग्यतासद्भावात् । एतेन मुक्त्यवस्थापन्नर्जुज्ञाने अनालोचने सर्वविषयेऽव्याप्तिरिति निरस्तम् । तस्यापि पूर्वम् आलोचने सर्वविषयकत्वसद्भावेन तदाप्युक्तयोग्यताया अनपायात् । एतेनैव ऋजूनामपरोक्षदशायाम् आलोचने सर्वविषयत्वाभावाद् अव्याप्तिरिति परास्तम् । तत्रापि उक्तविधया योग्यताघटितलक्षणसद्भावाद् इति द्रष्टव्यम् ।

न च ऋजूनां जायमाने ‘अयं घटः’ इति घटमात्रविषयके ज्ञाने आलोचने सर्वविषयकत्वाभावादव्याप्तिरिति वाच्यं तत्रापि आलोचने सर्वविषयकत्वस्य सत्वात् । तथा हि । यदा घटं पलपरिमाणेयत्ताविशेषवन्तं तन्निमित्तं कालं दिशम् अदृष्टं तदाश्रयं पुरुषं तत्प्रयोजनविशेषं च साक्षात्करोति तदा घटमात्रविषयकस्यापि ज्ञानस्य आलोचने सर्वविषयकता प्राप्तैवेत्यवगन्तव्यम् । यथाहुः - एकं च तत्वतो ज्ञातुं विना सर्वज्ञतां नरः । न समर्थो महेन्द्रोऽपि तस्मात् सर्वत्र जिज्ञसेद् इति ॥

॥ ऋजुज्ञानमिति ॥ ऋजूनां स्वरूपभूतं ज्ञानमित्यर्थः े॥ योगजं हीति ॥ तथा च योगिज्ञानसामान्यलक्षणस्याव्याप्तिरित्यर्थः ॥ योगप्रभावेनेति ॥ तथा च योगप्रभावाद् व्यक्त्यतिशयसद्भावेन योगप्रभावजन्यातिशयवत्वरूपं योगिज्ञानत्वं युक्तमिति नाव्याप्तिरिति भावः ॥ मर्यादायामिति ॥ मुक्तिं मर्यादीकृत्यतत्पर्यन्तमेव क्रमेण वर्धमानमित्यर्थः । ‘आङ् मर्यादाभिविध्यो’ इति वचनादिति भावः ॥ ततोऽव्ययमिति ॥ मुक्तावेकप्रकारमित्यर्थः ॥

प्रमाणलक्षणटीकाविवरणम्

॥ पूर्ववदिति ॥ ईशलक्ष्मीज्ञानवदित्यर्थः । पूर्वमीशलक्ष्मीज्ञानयोरनादिनित्यत्वस्योक्तत्वेन तत्प्रकरणे योगिनामनादिनित्यत्वोक्तेरसङ्गतत्वात्तस्य प्रकृतसङ्गतत्वं वक्तुं शेषसंपूर्णं व्याचष्टे ॥ ज्ञानमितीति॥

ननु योगिनामित्यस्य भावो न सम्भवतीत्यत आह ॥ योगिनामितीति ॥ ननु ऋजुयोगीज्ञानस्याप्यनादिनित्यत्वे पृर्वत्रयमनादिनित्यमिति वक्तव्यम् । तच्चानुक्तवा पूर्वद्वयमनादिनित्यं योगिज्ञानम् ऋजूनामिति योगविभागः कुत इत्यत आह ॥ असार्वत्रिकत्वादिति ॥ पूर्वत्रयमनादिनित्यमित्युक्ते ईशलक्ष्मीज्ञानवत् त्रिविधस्यापि योगिज्ञानस्य प्राप्तत्वेन तस्य चानादिनित्यत्वासंभवात् सर्वस्मिन् योगिज्ञाने अनादिनित्यत्वस्यासार्वत्रिकत्वेन योगिविभाग उक्त इति भावः ।

यद्वा ऋजुयोगिस्वरूपज्ञाने अनादिनित्यत्वसम्भवेऽपि वृत्तिज्ञानस्य प्रवाहतोऽनादित्वेपि स्वरूपतोऽनादित्वाभावेन सर्वस्मिन् ऋजुयोगिज्ञाने तदभावाद्योगिविभाग इति । ऋजुज्ञानस्य ज्ञानान्तरादेवाधिक्यस्य वक्तव्यत्वेन जीवापेक्षयाधिक्योक्तिरनुपपन्नेत्यत आह ॥ जीवज्ञानस्य इति ॥ ऋजृनामपि जीवत्वेन स्वज्ञानापेक्षया स्वस्वस्याधिक्यासंभवादृजुव्यतिरिक्तेति विशेषणम् ।

॥ ईश इतीति ॥ अतिव्याप्त्याद्यव्यावर्तकत्वाभावादिति भावः । ईश्चरविषयं ज्ञानम् ऋजुज्ञानमित्येतावन्मात्रोक्तौ अस्मदादिज्ञानस्यापि ईश्चरविषयत्वेन तत्रातिव्याप्तिः स्यात्तत्परिहारार्थं जीवेभ्योऽधिकमित्युक्तमित्याह ॥ जीवेभ्योऽधिकमितीति ॥

ऋजुव्यतिरिक्ततात्विकात्विकयोगिज्ञानापेक्षयाऽधिकं ज्ञानम् ऋजुज्ञान-मित्येवोक्ते ईशलक्ष्मीज्ञानस्यापि तथात्वात्तत्रातिव्याप्तिरतो अवधारणप्रयोग इत्याह ॥ अवधारणेनेति ॥ लक्ष्मीज्ञानस्य ऋजुव्यतिरिक्ततात्विकातात्विकयोगिज्ञाना-पेक्षयाऽधिकऋजुज्ञानादप्याधवेयतत एवाधिकत्वाभावादीशज्ञानस्य च तात्विकाता-त्विकयोगिज्ञानापेक्षयाऽधिकऋजुज्ञानाधिकलक्ष्मीज्ञानादप्य यत्रत्त्धिक्येन तन्मात्राधिक्याभावादिति भावः ।

जगतोऽन्यत्रेति प्रतीतिनिरासार्थमाह ॥ ईशादिति ॥ ऋजुज्ञानस्यापि परमात्मगताखिलविशेषविषयत्वाभावादसंभवः स्यादत अन्यत्रेत्युक्तमित्याह ॥ अन्यत्रेति ॥ आलोचनेति ॥ नचैवं पद्धतिविरोधः । तत्र अनालोचनेपीति अपिशब्देनानालोचनेपि लक्ष्मीज्ञानस्य सर्वविषयत्वस्योक्तत्वात् । तथाचा-नालोचनेति पदेन तद्भाननिवृत्तिरिति वाच्यम् । तत्रापिशब्दस्य समुच्चायकत्वाभावात् संभावनार्थत्वस्याप्युपपन्नत्वादिति न तद्विरोध इति भावः ।

आवालं हरिभक्तिरित्यादाविव आमुक्तेरित्याङो अभिविध्यर्थत्वस्यापि संभवान् मुक्तमभिव्याप्य वृद्धिप्रतिपादकमिदं वाक्यं कथं तन्निषेधकतया अवतारितमित्यतो नात्राभिद्यर्थत्वमाङोऽभिमतम् । किंतुमर्यादार्थत्वमेव । ततश्च मुक्तिं मर्यादीकृत्य वृद्धिरित्यर्थसिद्धेर्युक्तं तथावतरणमित्याह ।

कर्मप्रवचानीय इतिशेषः । आङ्मर्यादावचेन इतिस्मरणादित्यर्थः । ततश्च पञ्चम्यपाङ्परिभिरितिकर्मप्रवचनीयाङ्योगात्पंचमीति भावः । नचैवं कर्मप्रवचनीयस्याऽङो पंचम्यन्तेन मुक्तिशब्देन आङ्मर्यादाभिविध्योरिति समासे ‘‘सुपोधातुप्रतिपादकयो’’रिति सुपो लोपे आविष्णुसंसार इत्यादिलदामुक्ति इत्येव स्यात् । आमुक्तेरिति पंचमी कथमिति वाच्यम् । विभाषेति महाविषाधिकारेण आङ्मर्यादाभिविध्योरिति मर्यादाद्यर्थकस्याङो विकल्पो न पंचम्या समासविधानेन समासपक्षे आमुक्तीति स्वरूपप्राप्तावपि तदभावे आमुक्तेरिति वाक्यसंभवेन पंञ्चम्याश्रयणस्योपपपत्तेरिति द्रष्टव्यम् ।