अथ वा पूर्वमित्यनेन कार्त्स्न्येनेशविषयत्वं
प्रकारान्तरेण व्याख्यानम्
प्रमाणलक्षणटीका
अथ वा पूर्वमित्यनेन कार्त्स्न्येनेशविषयत्वं लक्षणा-न्तरमीशज्ञानस्य सूचितम् । तत्र कार्त्स्न्येनेति लक्ष्म्यादि-ज्ञानव्युदासः । कृत्स्मजगद्विषयं लक्ष्मीज्ञानमपि भवतीतीश-ग्रहणम् । ईशेन्येभ्योऽधिकमसार्वत्रिकमिति लक्ष्मीज्ञानस्य लक्षणान्तरम् । ईशग्रहणं स्वरूपकथनार्थम् । असार्वत्रिकत्वा-संभवनिवृत्त्यर्थं च । अन्येभ्योधिकमिति ब्रह्मादिज्ञानव्युदासः। असार्वत्रिकमिति ईशज्ञाननिरासः । ईशेऽसार्वत्रिकमन्यत्र सर्वविषयमिति तल्लक्षणान्तरम् ईशादन्यत्रग्रहणं व्याघातपरि-हारार्थम् । ईशेऽसार्वत्रिकमिति ईशज्ञाननिवृत्तिः । अन्यत्र सर्वविषयमित्यस्मदादिज्ञानव्युदासः । ऋजुज्ञानेतिव्याप्ति-परिहारायानालोचनेऽपीति ग्राह्यम् । तस्याऽलोचने अन्यत्र सर्वविषयत्वं वक्ष्यति । स्पष्टत्व इत्यनेनापि निरतिशयस्पष्टम् ईशज्ञानं, ईशज्ञानमेव यतोऽधिकस्पष्टं तद् लक्ष्मीज्ञानम् इत्यनयोर्लक्षणान्तरं सूचितं भवति ।
प्रमाणलक्षणटीकाभावदीपः
लक्षणोक्तिप्रस्तावे स्वरूपकीर्तनमरोचयमान आह ॥ अथ वेति ॥ अस्मिन् पक्षे परगतेत्याद्यंशस्य वैयर्थ्यात् पूर्वयोजनेति भावः । अन्येभ्यो ब्रह्मादिज्ञानेभ्योधिकविषयम् इत्येतावता ब्रह्मादिज्ञाननिरासात् ‘ईशेऽन्येभ्योधिकम्’इति वाक्ये र्ईश इति व्यर्थम् इत्यत आह ॥ ईशग्रहणमिति ॥ स्वरूपकथनार्थम् । न तु अतिव्याप्त्यादिवारणार्थम् । कृत्यान्तरं चास्तीत्याह ॥ असार्वत्रिकत्वेति ॥ जगति सार्वत्रिकत्वाद् इति भावः ॥ अन्यत्रेति ॥ ईशाद् इति योज्यम् ॥ व्याघातेति ॥ तथा च असम्भवनिरासः फलमिति भावः ॥ तस्येति ॥ ऋजुज्ञानस्येत्यर्थः ॥ वक्ष्यतीति ॥ अनुपदमेवेति योज्यम् ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
पूर्वं स्वपरगतेत्यादिवाक्यपञ्चकम् ईश्वरज्ञानलक्ष्मीज्ञानयोर् विशेेषप्रतिपादनपरतया व्याख्याय इदानींतयोर्लक्षणकथनपरतयाऽपि व्याचष्टे ॥ अथ वेत्यादिना ॥ लक्षणान्तरमिति ॥ स्वातन्त्र्यपारतन्त्र्याभ्याम् इति वाक्येनैव एकस्य लक्षणस्योक्तत्वाद् इति भावः । प्रयोजनाभावेन स्वरूपकथनपरत्वोक्ता-वपरितोषादाह ॥ असार्वत्रिकत्वेति ॥ ईशपदाभावे लक्ष्मीज्ञानस्य जगद्गत-सर्वविशेषविषयकत्वेन जगद्विषये असार्वत्रिकत्वाभावाद् असम्भवः स्यात् । अत ईशग्रहणम् । तथा च ईशे असार्वत्रिकम् इति सम्बन्धः । तथा च असम्भव-परिहारकत्वाद् ईशग्रहणं सप्रयोजनमिति भावः ॥ अन्यत्रेति ॥ ईशाद् अन्यत्रेत्यर्थः ॥ तल्लक्षणान्तरमिति ॥ तस्य लक्ष्मीज्ञानस्य लक्षणान्तरमित्यर्थः ॥ व्याघातेति ॥ अन्यत्र इति पदाभावे र्ईशे असार्वत्रिकं र्र्र्ईशे सर्वविषयम् इति प्रतीयते । अतो व्याघत इत्यर्थः ॥
अनालोचनेऽपीति ग्राह्यमिति ॥ अपिशब्दो भिन्नक्रमः । तथा च अनालोचन इत्यपि विशेषणं ग्राह्यमित्यर्थः । यद्वा अपिशब्दो विशेषणान्तरसमुच्चायकः । तेन सर्वदा इति सिद्ध्यति । अतो मुक्त्यवस्थाऽऽपन्नर्जुज्ञाने अनालोचने सर्वविषये नातिव्याप्तिः । यद्वा अपिशब्दोऽवधारणार्थो ऽनालोचन एवेति । तेनालोचनव्युदासो ऽन्यत्रानालोचनेऽपि सर्वविषयं लक्ष्मीज्ञानम् इति पद्धतावपि अपिशब्दः सदा इति विशेषणान्तरसमुच्चायकतया अवधारणार्थतया वा व्याख्येयः ।
एवं च, अत्र पद्धतौ च अनालोचनेऽपीत्यपिशब्देन लक्ष्मीज्ञानस्य अनालोचन आलोचने च सर्वविषयकत्वमुक्तम् अन्यथा तद्वैयर्थ्यापत्तेः । ऋजुयोगि-ज्ञानलक्षणकथनावसरे आलोचन इति लक्ष्मीज्ञानव्युदास इति च अत्र अभिहितम्। तेन च अलोचनाभावः प्रतीयते अन्यथा तद्व्यावृत्त्यनुपपत्तेः । अतोविरोध इति शङ्कानकाशः । अत्र अपिशब्दस्य भिन्नस्थानसम्बन्धाङ्गीकारात् । यथास्थानेन सम्बन्धाङ्गीकारेऽपिसर्वदेतिविशेषणान्तरसमुच्चायकतया अवधारणार्थतया वा व्याख्यातत्वात् । पद्धतिवाक्यगतापिशब्दस्य तु विशेषणान्तरसमुच्चायकतया अवधारणार्थतया च व्याख्यातत्वाद् इति द्रष्टव्यम् ।
अन्ये तु, ईशाद् अन्यत्र अनालोचने सर्वविषयकत्वं लक्ष्मीज्ञानस्य सम्भावितम् इति सम्भावनार्थो ऽपिशब्दः । अपिः पदार्थसंभावनेत्यादिस्मरणात् । अतो न विरोध इत्याहुः ।
नन्वनालोचनग्रहणेन कथम् ऋजुयोगिज्ञानव्यावृत्तिः ? इत्यत आह ॥ तस्येति ॥ वक्ष्यतीति ॥ ‘अन्यत्र आलोचने सर्वविषयम्’ इत्यत्रेत्यर्थः ॥ ईशज्ञानमेवेति ॥ ऋजुयोगिज्ञानादावतिव्याप्तिवारणाय अवधारणम् । तथा च ऋजुयोगिज्ञानाऽद्य-पेक्षया लक्ष्मीज्ञानस्याप्यधिकस्पष्टस्य सत्वान् नेशज्ञानमेव ततोऽधिकं स्पष्टमिति नातिव्याप्तिरित्यर्थः ॥
प्रमाणलक्षणटीकाविवरणम्
पूर्वं स्वपरगतेऽन्यादिवाक्यपञ्चकमीशज्ञानस्य लक्ष्मीज्ञानापेक्षया विशेषप्रतिपादनपरत्वेन व्याख्यानम् । इदानीं तयोर्लक्षणपराण्येवेमानि वाक्यानीत्यभिप्रायेणाह ॥ अथवेति ॥ ईश्चरगताखिलविशेषविषयं ज्ञानमीशज्ञानमित्यर्थः । ईश्चरगतविशेषविषयं ज्ञानमित्युक्ते लक्ष्मीज्ञाने अतिव्याप्तिः, तत्परिहारार्थमखिलेति ॥ तच्चेश्चरगताखिलविशेषविषयं न भवतीति नातिव्याप्तिरित्यभिप्रायेणाह ॥ तत्रेति ॥
अशेषविशेषविषयं ज्ञानमीशज्ञानमित्येवोक्तौ जगद्गताशेषविशेषं लक्ष्मीज्ञान-मपि भवतीति तत्रातिव्याप्तिस्तत्परिहारार्थमीशेत्युक्तमित्याह ॥ कृत्स्नेति ॥ ईशेऽन्येभ्योऽधिकमिति ॥ ईशविषये ब्रह्मादिज्ञानेभ्योऽधिकविशेषविषयत्वे सति ईश्चरगताघिकविशेषविषयं ज्ञानं लक्ष्मीज्ञानमिति लक्षणान्तरं सूचितमित्यर्थः । ईशग्रहणमिति लक्ष्मीज्ञानस्वरूपकथनार्थम् ।
नन्वेवं चेत् तर्हि तद् व्यर्थम् । अतिव्याप्त्यव्याप्त्यसम्भवादिवारकत्वाभावे लक्षणान्तर्गतत्वासम्भवादित्यत आह ॥ असार्वित्रिकेति ॥ लक्ष्मीज्ञानस्यापि जगद्गतसर्वविशेषविषयत्वस्येव विद्यमानत्वेनासार्वत्रिकत्वाभावादसम्भवशङ्का स्यात् तत्परिहारार्थमीशपदमित्यर्थः । ईशे असार्वत्रिकमित्येतावन्मात्रोक्तौ ब्रह्मादिज्ञानस्यापि ईशविषये असार्वत्रिकत्वात्तत्रातिव्याप्तिरित्यतो अन्येभ्यो अधिकमित्युक्तमित्याह ॥ अन्येभ्योऽधिकमितीति ॥ अन्येभ्योऽधिकमित्यवोक्तौ ईशज्ञानस्यापि तथात्वात्तत्रातिव्याप्तिरतो ईश्चरे असार्वत्रिकमित्युक्तम् ॥ ईश इति ॥ ईश्चरगतसकलविशेषविषयकत्वे सति ततोऽन्यत्रगतसर्वविशेषविषयं ज्ञानं लक्ष्मीज्ञानमिति तल्लक्षणान्तरसत्वितमित्यर्थः ।
ननु ईश्चरे असार्वत्रिकं सर्वविषयं लक्ष्मीज्ञानमित्येवास्तु ततोन्यत्रेति किमर्थं ग्राह्यमित्यत आह ॥ ईश्चरादन्यत्रेति ॥ असार्वात्रिकं सर्वविषयमित्युक्तं व्याघातः प्राप्तस् तत्परिहारार्थम् ईशादन्यत्रेत्युक्तमित्यर्थः । अत्यत्र सर्वविषयमित्येवोक्ते ईशज्ञाने अतिव्याप्तिः, तत्परिहारार्थम् ईशे असार्वत्रिकमित्युक्तमित्याह ॥ ईशेऽति ॥ ईशे असार्वत्रिकमित्युक्ते अस्मदादिज्ञाने अतिव्याप्तिः, तत्परिहारार्थमन्यत्र सर्वविषयमित्युक्तमित्याह ॥ अन्यत्रेति ॥
ननु तथात्र ऋजुज्ञानेऽतिव्याप्तिस्तस्येश्चरेऽसार्वत्रिकत्वे सति अन्यत्र सर्वविषयत्वादित्यत आह ॥ ऋजुज्ञान इति ॥ ननु तस्याप्यानालोचने सर्वविषयत्वाद् अतिव्याप्तिरित्यत आह ॥ तस्येति ॥ यद्यप्यत्र मुक्तऋजुज्ञानेऽतिव्याप्तिस्तस्याप्यनालोचने सर्वविषयत्वादीश्चरे असार्वत्रिकत्वाच्चेति वक्तुंशक्यम् । तथासत्यनालोचने सर्वदा सर्वविषयमिति विवक्षितमिति नातिव्यापिरिति हृदयमिति आहुः । वस्तुतस्तु अपिरवधारणे ततश्चेशेऽसार्वत्रिकत्वे सति अन्यत्रालोचन एव सर्वविषयमिति लक्षणलाभान्मुक्तब्रह्मज्ञानस्य च तदभावान्न तत्रातिव्याप्तिरिति द्रष्टव्यम् ।
वयं तु ब्रूमः । अनालोचन सर्वविषयत्वं नाम आलोचने सर्वविषयत्वा-त्यन्ताभावाधिकरणत्वं मुक्तब्रह्मज्ञानस्य च न तदत्यन्ताभावाधिकरणत्वं पुर्वमालोचने सर्वविषयत्वादिति नातिव्याप्तिः । नचापिशब्दवैय्यर्थ्यम् । अनालोचने सर्वविषयत्वसंभावनार्थत्वात् । अभिप्रेतं चात्यन्ताभावघटितत्वं टीकाकारस्य । अन्यथा आलोचने सर्वविषयत्वरूपे ऋजुयोगिज्ञानलक्षणस्य मुक्तब्रह्मज्ञाने आलोचने सर्वविषयत्वरूपे ऋजुयोगिज्ञानलक्षणस्य मुक्तब्रह्मज्ञाने अव्याप्तिप्रसंगात्। आलोचने सर्वविषयत्वात्यन्ताभावानाधकरणत्वविवक्षायां तु नाव्याप्तिरिति न कश्चिद्दोषः ।
॥ ईशज्ञानमेवेति ॥ ईशज्ञानं यतोऽधिकं तल्लक्ष्मीज्ञानमित्येवोक्ते ब्रह्मादिज्ञानेऽतिव्याप्तिः । तदपेक्षयाईशज्ञानस्याधिकत्वादत ऐवेत्युक्तम् । ब्रह्मज्ञानं च न तथा लक्ष्मीज्ञानस्यापि ततोऽधिकत्वादिति भावः ।