०२ ईशलक्ष्मीज्ञानयोर्योगिज्ञानादिभ्यो मिथश्व महावैलक्षण्यनिरूपणम्

पूर्वद्वयमनादि नित्यम्, स्वातन्त्र्यपारतन्त्र्याभ्यां तद्विशेषः

ईशलक्ष्मीज्ञानयोर्योगिज्ञानादिभ्यो मिथश्व महावैलक्षण्यनिरूपणम्

प्रमाणलक्षणटीका

अनुप्रमाणस्य केवलप्रमाणसाधनत्वेनोक्तत्वाच् चतुर्विधमपीदं तज्जन्यं, तत एवानित्यं चेति न मन्तव्यमित्याह

प्रमाणलक्षणम्

पूर्वद्वयमनादि नित्यम्

ईशलक्ष्मीज्ञानम् । द्वयोरप्यनादिनित्यत्वे को विशेषः? येन पृथग्ग्रहणमित्यत आह

***स्वातन्त्र्यपारतन्त्र्याभ्यां तद्विशेषः ***

अनादिनित्यत्वसाम्येपि स्वसत्ताऽऽदौ स्वतन्त्रमीशज्ञानं, तदधीनं लक्ष्मीज्ञानमिति महाविशेषात् पृथग्ग्रहणमुपपद्यते । अनेन स्वतन्त्रज्ञानमाद्यं , ईशैकाधीनं द्वितीयमिति द्वयोर्लक्षणं सूचितं भवति । आद्ये स्वतन्त्रमिति लक्ष्म्यादिज्ञाननिवृत्तिः । ज्ञानमितीशव्युदासः । द्वितीये ईशाधीनमिति ईशज्ञाननिवृत्तिः। एकेति ब्रह्माऽदिज्ञाननिवृत्तिः । ज्ञानमिति लक्ष्मीव्यावृत्तिः ।

तयोर्विशेषान्तरमाह

***पूर्वं स्वपरगताखिलविशेषविषयम् ***

लक्ष्मीज्ञानस्याप्यतिमहत्वेनैतत्संभवात् कथमीशज्ञानस्य विशेषः ? इत्यत आह

***द्वितीयमीशेऽन्येभ्योऽधिकम् ***

लक्ष्मीज्ञानमीशविषये ब्रह्मादिज्ञानेभ्य एवाधिकविषयम् ।

किं चात इत्यत आह

***असार्वत्रिकम् ***

न त्वीशे सर्वविशेषविषयम् । अतस्तयोरस्ति विशेषः । यथेशे असार्वत्रिकं तथा किमन्यत्रापि ? नेत्याह

***अन्यत्र सर्वविषयम् ***

किम् ईशलक्ष्मीज्ञानयोरन्यत्र तर्हि साम्यमेव ? नेत्याह

स्पष्टत्वे भेदः

द्वयमपीशादन्यत्र सर्वविषयं स्पष्टं च । तत्रेशज्ञानं निरतिशयस्पष्टम् । न तथा लक्ष्मीज्ञानमित्यस्त्येव विशेषः ।

प्रमाणलक्षणटीकाभावदीपः

॥ अनादित्व इति ॥ नित्यत्वे च इत्यपि ध्येयम् । क्वचित् तथैव पाठः ॥ पृथग्ग्रहणमिति ॥ ईशज्ञानं लक्षमीज्ञानमित्येवं पृथग्ग्रहणमित्यर्थः । तस्य महावैलक्षण्यज्ञापनार्थत्वाद् इति प्रागुक्तेरिति भावः ॥ आद्यमिति ॥ ईशज्ञानमित्यर्थः । लक्ष्मीज्ञानलक्षणे च ज्ञानपदमपि संयोज्यम् ॥ ईशज्ञान-निवृत्तिरिति ॥ तस्य स्वातन्त्र्योक्तेरिति भावः । न चैवम् ईशतज्ज्ञानयोर्द्वयोरपि स्वातन्त्र्ये अनेकस्वातन्त्र्यापत्तिरिति शङ्क्यम् । तयोरभेदेन केवलं विशेषबलाद्भेदेन व्यवहारात् । ‘सर्वं वाक्यं सावधारणम्’ इति भावेनाऽह ॥ ब्रह्मादिज्ञानेभ्य एवेति ॥ किं चात इति ॥ अतश्च किं ? इत्यर्थः । तावता लक्ष्मीज्ञानस्यापीत्यादिना कृतचोद्यस्यापरिहारादिति भावः ॥ स्पष्टं चेति ॥ द्वयमपीत्यनुषङ्गः । स्पष्टत्वं च अपरोक्षत्ववज् ज्ञानगत एव विशेषः न विषयोपाधिकृतः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

इदम् ईशज्ञानाऽदिकम् ॥ तत एवानित्यं चेति ॥ जन्यत्वे सति भावत्वस्य अनित्यत्वव्याप्तत्वाद् इति भावः ॥ स्वसत्तादाविति ॥ आदिपदेन प्रतीतिप्रवृत्त्योर् ग्रहणम् ॥ स्वतन्त्रमिति ॥ ज्ञानमिति शेषः । अन्यथा ज्ञानमिति ईशव्युदास इत्युत्तरवाक्यासङ्गतेरिति ध्येयम् ॥ ईशव्युदास इति ॥ विशेषबलेनेदमिति ज्ञातव्यम् । एवमेव लक्ष्मीव्यावृत्तिरित्यपि द्रष्टव्यम् ।

॥ ब्रह्मादीति ॥ तत्र लक्ष्म्यधीनताया अपि सत्वेन ईशैकाधीनत्वाभावाद् एकपदेन तन्निवृत्तिरित्यर्थः । न च लक्ष्मीज्ञानं लक्ष्म्यधीनमपि भवति इत्यसंभवः, ईशैकाधीन ईशज्ञाने अतिव्याप्तिश्च इति वाच्यम्, अत्राधीनत्वस्य भेदगर्भस्यैव विवक्षितत्वाद् इति ज्ञातव्यम् ।

॥ अतिमहत्वेनेति ॥ अनादिनित्यत्वेनातिमहत्वमिति भावः ॥ एतत्सम्भवाद् इति ॥ स्वपरगताखिलविशेषविषयकत्वसम्भवाद् इत्यर्थः । तर्हि इत्येतत् किमीश इत्यतः पूर्वं योज्यम् ।

ननूभयोरपि स्पष्टत्वे तत्कृतो विशेषो न सम्भवति इत्यत आह ॥ तत्रेति ॥ निरतिशयेति ॥ यज्ज्ञानस्पष्टताऽपेक्षया अन्यद् अतिशयेन स्पष्टं नास्ति इत्यर्थः ॥ न तथेति ॥ लक्ष्मीज्ञानस्पष्टतापेक्षया अतिशयेन स्पष्टं भगवज्ज्ञानमेवास्तीति न लक्ष्मीज्ञानं निरतिशयस्पष्टमित्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

॥ तत एवेति ॥ जन्यत्वादेव । ततश्च जन्या भावो विनाशीति व्याप्तेर्विद्यमानत्वेन विनाशित्वमपि स्यादिति भावः । महावैलक्षण्यज्ञापनार्थमेवेश्चर-ज्ञानादेर्लक्ष्मीज्ञानाद्यपेक्षया पृथग्गृहीतत्वाद् अनादिनित्यत्वसाम्ये साम्यापत्त्या पृथग्ग्रहणमनुपपन्नमित्यप्रेत्य शङ्कते ॥ ईशलक्ष्मीज्ञानयोरिति ॥ अनादिनित्यत्व-साम्येऽपीति ॥

यद्यप्यत्र लक्ष्मीज्ञानस्यापि पराधीनविशेषावाप्तिलक्षणोत्पत्तिमत्त्वेनानादीति नित्यत्वभावान्न तत्साम्याङ्गीकारेण परिहारः सङ्गच्छते । तथाऽपि प्रागभाव-प्रतियोगित्वरूपानादित्वस्य ध्वंसप्रतियोगित्वपूपलक्षणस्य नित्यत्वस्य च सत्त्वात् तदभिप्रायेण तदङ्गीकार इति बोध्यम् । स्वसत्तादावित्यत्राऽदिशब्देन प्रतीति-प्रवृत्तिसङ्ग्रहः ॥ अतिमहत्त्वेनेति ॥ अनादिनित्यत्वेनातिमहत्त्वमिति तस्यापि स्वपरगतादिसकलविशेषविषयत्वेन तयोः साम्यमेव नतु ईशज्ञानस्य तद्भानापेक्षया विशेष इति भावः । ननु तयोरपि स्पष्टत्वेतत् कुतो विशेषो न सम्भवतीत्यत आह ॥ तत्रेति ॥