केवलं चतुर्विधम्, ईशलक्ष्मीयोग्ययोगिभेदेन
केवलप्रमाणनिरूपणम्
प्रमाणलक्षणटीका
केवलप्रमाणं विभजति
प्रमाणलक्षणम्
केवलं चतुर्विधम्
अयमपि महावैलक्षण्यज्ञापनार्थो विभागः । चतस्त्रो विधाः प्राधान्यक्रमेणोद्दिशति
***ईशलक्ष्मीयोग्ययोगिभेदेन ***
ज्ञानिनामेवं भेदेन निमित्तेन ज्ञानस्यापि चातुर्विध्यम् । ज्ञानपदं वा संयोज्यम् ।
प्रमाणलक्षणटीकाभावदीपः
॥ अयमपीति ॥ विभाग इत्यन्वयः । केवलप्रमाणावान्तरविभागः। ईशज्ञानस्य लक्ष्मीज्ञानात् तस्य च तदितरज्ञानान् महावैलक्षण्येत्यर्थः ।
केवलविभागमुपक्रम्य ईशदिभेदोक्तिरसङ्गता इत्यत आह ॥ ज्ञानिनामिति ॥ भेदेनेति हेतौ तृतीया इति मत्वा तृतीयार्थमाह ॥ निमित्तेनेति ॥
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
ननु केवलप्रमाणानामानन्त्यात् कथं चतुर्विधत्वोक्तिः ? इति चेन्न । ईशज्ञानाऽदिना क्रोडीकृतस्य केवलप्रमाणस्य चतुर्विधत्वोपपत्तेः । नन्वेवं क्रोडीकारेण विभागेपि किं प्रयोजनम् ? इत्यत आह ॥ अयमपीति ॥ यथा ‘तद् द्विविधं’ इतिप्रमाणविभागः साक्षाद् यथावस्थितज्ञेयविषयीकारित्वयथावस्थितज्ञेय-विषयीकारिसाधनत्वरूपवैलक्षण्यज्ञापनार्थः, एवम् अयमपि ईशज्ञानत्वादिना केवलप्रमाणस्य चतुर्विधतया विभागोपि ईशलक्ष्म्यादिज्ञानेषु ‘पूर्वद्वयम्’ इत्यादिना वक्ष्यमाणप्रकारेण महावैलक्षण्यज्ञापनार्थ इत्यर्थः ।
नन्वीशादिभेदेन केवलप्रमाणचातुर्विध्यकथनमयुक्तम् ईशादीनां यथार्थज्ञानत्वादितल्लक्षणानाक्रान्तत्वात् । न च ज्ञानवतामीश्वरादीनां ज्ञानाभेदेन तदुपपत्तिः, अभेदेपि विशेषबलेन भेदव्यवहाराङ्गीकारात् । अन्यथा तच्छब्दयोः पर्यायत्वादिप्रसङ्गाद् इत्यत आह ॥ ज्ञानिनामिति ॥ एवंभेदेन चतुर्विधत्वेन । तथा च तत्संबन्धिनामीशादीनां चातुर्विध्यत् तत्संबन्धिनो ज्ञानस्यापि चतुर्विधत्वं युक्तमिति भावः ॥ ज्ञानपदं वेति ॥ ईशलक्ष्मीयोग्ययोगिज्ञानभेदेनेति ज्ञानपदं संयोज्य द्वन्द्वान्ते श्रूयमाणस्य तस्य प्रत्येकं संबन्धः कार्य इति भावः ॥
प्रमाणलक्षणटीकाविवरणम्
॥ अयमपीति ॥ न केवलं प्रमाणं द्विविधमिति भागः । साक्षाद् यथावस्थितज्ञेयविषयीकारित्वं यथावस्थितज्ञेयविषयीकारिज्ञानसाधनत्वरूप-वैलक्षण्यार्थः । अपि तु केवलं चतुर्विधमित्यपि विभागः महा वेलक्षण्यप्रदर्शनार्थः । वैलक्षण्यं चोत्तरत्र स्पष्टं विभावयिष्यतीत्याशयः ।
ननु नेशादीनां केवलप्रमाणविशेषत्वं यथार्थज्ञानरूपसामान्यलक्षणा-नाक्रान्तत्वात् । तस्य यथार्थज्ञानत्वाभावात् । नच तयोरभेदेन नाव्याप्तिः । अभेदेऽपि विशेषसद्भावात् । अन्यथा तयोः शब्दयोः पर्यायत्वापातादित्यत आह ॥ ज्ञानिना-मिति ॥ ज्ञानिनां चातुर्विध्योक्तेर्ज्ञानचातर्विध्यं विना असम्भवात् तस्यैव केवलप्रमाणत्वमित्यत्र तात्पर्यमिति भावः ।प्रकारान्तरेणाप्यव्याप्तिं परिहरति ॥ ज्ञानेति ॥