०३ नैयायिकैकदेशिमते उदयनमते स्वमते संशयकारणानि

असमानधर्मविप्रतिपत्त्योरपि समानधर्म एवान्तर्भावयितुं शक्यत्वात्

नैयायिकैकदेशिमते उदयनमते स्वमते संशयकारणानि

प्रमाणलक्षणटीका

प्रत्येकं निश्चायकाभावसहकृतसमानासमानधर्म-विप्रतिपत्युपलब्ध्यनुपलब्धिजन्मा पञ्चधा भिद्यतइत्ये । तद्यथा, समानधर्माद् दीर्घत्वात्‘स्थाणुर्वा पुरुषो वा’ इति । असमान-धर्माद् आकाशविशेषगुणत्वात् ‘शब्दो नित्योनित्यो वा’ इति। विप्रतिपत्तेः ‘भौतिकानीन्द्रियाणि उत अभौतिकानि’ इति । उपलब्धेः ‘किं सदिदमुदकमुतासत्’ इति । अनुपलब्धेः ‘किमत्र यक्षोऽस्ति न वा’ इति ।

उदयनमते संशयकारणानि

उपलब्ध्यनुपलब्ध्योः समानधर्म एवान्तर्भावात् त्रैविध्य-मित्यपरे । समाने हि सदसतोरुपब्धत्वानुपलब्धत्वे इति ।

स्वमते कारणम्

असमानधर्मविप्रतिपत्त्योरपि समानधर्म एवान्तर्भावयितुं शक्यत्वाद् ऐकविध्यमिति तत्वम् ।

प्रमाणलक्षणटीकाभावदीपः

॥ प्रत्येकमिति ॥ अनिर्दिष्टनिर्दिष्टान्यतरकोटिप्रधानेति त्रिविधोऽपि संशयः प्रत्येकम् एकैकमित्यर्थः । धर्मपदं समानेत्यत्राप्यन्वेति । कोटिद्वयसाधारणेत्यर्थः । निश्वायकाभावसहकृताभिः समानासमानधर्मविप्रति-पत्त्युपलब्ध्यनुपलब्धिभिर् जन्म यस्यासौ तथोक्तः । भवन्निति शेषः ।

भौतिकानीति तार्किकाः । अभौतिकानीति साङ्ख्यादयः । विप्रतिपत्तेर् उपलब्धेर् इत्यादि तु पञ्चमी । जातः संशय इति शेषः ॥ किं सदिति ॥ कूपखननानन्तरम् उपलभ्यमानमुदकमितियोज्यम् ॥ अनुपलब्धेरिति ॥अस्मिन् वटे यक्षोस्तीति केनचिदुक्ते अनुपलम्भाज् ज्ञायते संशयः ‘किमत्रयक्षोस्ति न वा’ इतीत्यर्थः । सत्वासत्वरूपकोटिद्वयसाधारण्यम् उपलब्ध्यनुपलब्ध्योरुपपादयति ॥ समाने हीति ॥ इतिशब्दस्य इत्यन्ये आहुर् इत्यन्वयः।

॥ अन्तर्भावयितुं शक्यत्वादिति ॥ असमानो हि धर्मो न स्वरूपेण संशयहेतुः । विशेषस्मरणकारणत्वाभावात् । किं तु? व्यावृत्तिमुखेनैव । तथा च नित्यव्यावृत्तत्वम् अनित्यस्य धर्मे अनित्यव्यावत्तत्वं नित्यस्य धर्मे अस्तीति नित्यव्यावृत्तत्वम् अनित्यधर्मसाधारणो ऽनित्यव्यावृत्तत्वं नित्यधर्मसाधारण एवेति संशयहेतुभूतौ द्वावपि धर्मौ साधारणावेव । न त्वेकेनैव समानधर्मेण भाव्यमिति नियमोस्ति । भौतिकत्वेन प्रतिपन्नत्वं भौतिकमात्रसमानम् अभौतिकत्वेन प्रतिपन्नत्वम् अभौतिकसाधारणमिति विप्रतिपत्तिरपि समानधर्म एवेत्येवंरूपेणेति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

एवं संशयप्रभेदमुक्त्वा इदानीं तत्साधनप्रदर्शनाय न्यायैकदेशिनां मतमाह ॥ प्रत्येकमित्यादिना ॥ प्रत्येकमिति द्विविधोऽपि संशय इत्यर्थः ॥ समानासमानेति ॥ साधारणासाधारणेत्यर्थः ॥ विप्रतिपत्तेरिति ॥ इन्द्रियेषु वैशेषिकसाङ्ख्ययोर् भौतिकत्वाभौतिकत्वविप्रतिपत्तेः सकाशाद् इत्यर्थः । अस्याः संशयहेतुत्वं च उत्तरत्रान्तर्भावकथनसमये सम्यगुपपादयिष्यामः ।

॥ अभौतिकानीति ॥ केवलाहङ्कारिकाणीत्यर्थः ॥ उपलब्धेरिति ॥ कूपखननानन्तरं जलोपलब्धौ सत्यां निश्चायकमपश्यतः सन्देहो भवति ‘किं प्राक् सदेवोदकं कूपखननाभिवयक्तं सद् उपलभ्यते उत असदेवोत्पन्नम् इत्यर्थः ॥ अनुपलब्धेरिति ॥ यक्षः पिशाचः । अस्मिन् वटे पिशाचोऽस्ति इति वार्तां श्रुतवतो वटसमीपं गतस्य तत्र पिशाचानुलब्धौ सत्यां निश्चायकाभावे संशयो भवति ‘किं विद्यमान एव पिशाचो ऽन्तर्धानशक्त्या नोपलभ्यते ? किं वा अविद्यमान एव ?’ इति ।

न्यायैकदेशिनम् उदयनमुखेन दूषयति ॥ उपलब्ध्यनुपलब्ध्योरिति ॥ उपलब्ध्यनुपब्ध्योः सदसत्साधारण्यमुपपादयति ॥ समाने हीति ॥ उपलब्धिर्हि सतामेव घटादीनां दीपारोपणेन दृष्टा । असतां च कुलालादिव्यापारनन्तरं दृष्टा । इदं चोदकमुपलभ्यते । अतः ‘किं सदेव उपलभ्यते उत असदेव’ इति जायमानः संशयः साधारणधर्मजन्य एव । तथा अनुपलब्धिः सताम् ईश्वरादीनाम् असतां शशविषाणादीनां दृष्टा । अयं च यक्षो नोपलभ्यते । अतः ‘किं सन्नेव नोपलभ्यते उत असन्नेव’ इत्येवं साधारणधर्मजन्य एवायमपि संशय इति । एवमुपलब्ध्योः साधारणधर्म एवान्तर्भावात् त्रीण्येव संशय कारणानि इत्यर्थः ।

उदयनमतमप्ययुक्तमित्याशयेन स्वयं सिद्धान्तमाह ॥ असमानधर्मेति ॥ अयमर्थः । आकाशविशेषगुणत्वाद्यसाधारणधर्मो हि नाज्ञात एव संशयहेतुस् तथात्वे सुषुप्तिदशायामपि तद्धेतुत्वप्रसङ्गात् । किं तु ? ज्ञात एव । तज्ज्ञानं च नाऽकाशविशेषगुणत्वादिना स्वरूपेण । तथा हि । साधारणासाधारणादिधर्मज्ञानस्य संशयहेतुत्वं कोटिस्मरणद्वारेणैव वाच्यम् प्रकारान्तरेण उपयोगादर्शनात् । असाधारणधर्मस्य स्वरूपेण ज्ञानं च न कोटिद्वयस्मरणजनकम् । न हि शब्दनिष्ठा-काशविशेषगुणत्वज्ञाने नित्यानित्यत्वकोट्युपस्थितिर्भवति । अतो नित्या-नित्यव्यावृत्तत्वेनैव तज्ज्ञानं वक्तव्यम् । आकाशविशेषगुणत्वं नित्यव्यावृत्तम् अनित्यव्यावत्तम् इति ज्ञाने हि शब्दस्य नित्यव्यावृत्तधर्मवत्वम् अनित्यव्यावत्तधर्मवत्वं च ज्ञायते । तेन नित्यव्यावृत्तधर्मवत्वज्ञानेन अनित्यकोटेर् अनित्यव्यावृत्त-धर्मवत्वज्ञानेन नित्यत्वकोटेर् उपस्थितिर् नित्यव्यावत्तधर्मवत्वस्य अनित्यत्वसह-चरितत्वेन घटादौ, अनित्यव्यावृत्तधर्मवत्वस्य नित्यत्वसहचरितत्वेन आकाशादौ च दर्शनात् । ततश्व एवं व्यावृत्तिमुखेन ज्ञातस्य आकाशविशेषगुणत्वाख्या-साधारणधर्मस्य कोटिस्मरणकारणत्वमस्तीति युक्तं तस्य संशयहेतुत्वम् ।

नन्वस्त्वेवं व्यावृत्तिमुखेन ज्ञात एव असाधारणधर्मः संशयहेतुस् तथापि तस्य साधारणधर्म एवान्तर्भावः कथं ? इति चेद् उच्यते । उक्तरीत्या नित्या-नित्यव्यावृत्तत्वेन ज्ञातो ह्यसाधारणधर्मः संशयहेतुः । एवं च नित्यव्यावृत्त-धर्मवत्वम्अनित्ये घटादौ संशयधर्मिणि शब्दे च साधारणम् । अनित्यव्यावत्तधर्मवत्वं च नित्ये गगनादौ शब्दे च साधारणम् । ननूर्ध्वतालक्षणसाधारणधर्मस्य एकस्यैव कोटिस्मरणद्वारा संशयहेतुत्वं दृष्टम् । इह तु नित्यव्यावृत्तधर्मवत्वम् अनित्यव्यावृत्तधर्मवत्वं चेति धर्मद्वयं साधारणमुक्तम् । तत्कथं धर्मद्वयस्य संशयहेतुत्वं ? इति चेन्न । एकस्येव धर्मद्वयस्यापि संशयहेतुत्वे बाधकाभावात् । उक्तं च पद्धतौ – न ह्येकेनैव साधारणधर्मेण भाव्यमिति नियमोस्तीति ।

ननु च धर्मिकोटिद्वयालिङ्गित एव हि धर्मः साधारणधर्मः यथा ऊर्ध्वतादिः। प्रकृते च नित्यव्यावत्तधर्मवत्वम् अनित्यव्यावृत्तधर्मवत्वं च नित्यत्वानित्यत्व-रूपैकैककोटिसहचरितमेव हि जातं, न तदुभयसहचरितम् । अतः कथमेतयोः साधारण्यं ? इति चेद् धर्मिकोट्यालिङ्गितधर्मत्वमेव हि साधारणधर्मत्वं लाघवात्, तावत एव कोटिस्मरणोपयोगित्वाच्च । न तु कोटिद्वयालिङ्गितत्वंगौरवात् । अत एव तत्वप्रकाशिकायां तत्र तत्राधिकरणेषु धर्मद्वयस्यापि संशयबीजत्वमुक्तमिति ध्येयम् ।

एवं विरूद्धार्थकवाक्यद्वयजन्यप्रतीतिद्वयरूपाया विप्रतिपत्तेरपि साधारणधर्मवत्वेनैव संशयजनकत्वं न पृथक्त्वेन । तथा हि न तावद् अयं संशायो वैशेषिकसाङ्ख्ययोः । तयोर् भौतिकत्वादिनिश्चयवत्वात् । अतइन्द्रियाणि भौतिकान्यभौतिकानीति वैशेषिकसाङ्ख्यवाक्याभ्यां तावदिन्द्रियाणि भौतिकत्वादिना प्रतीयन्ते, अनयोश्च प्रतीत्योर्न द्वयोरपि प्रामाण्यम् अप्रामाण्यं वा युक्तम् परस्पर-विरुद्धत्वेन वस्तुविकल्पप्रसङ्गाद् वस्तुनोनिःस्वभावत्वापत्तेश्च, उभयत्राप्यनिश्चयेन अन्यतरप्रामाण्यनिश्चयोप्यनुपपन्नः, अतः किमत्र भौतिकत्वप्रतीतिः प्रमाणम् उत अभौतिकत्वप्रतीतिर् इति प्रतीतिद्वयप्रामाण्ये सन्दिहानो ऽर्थे भौतिकत्वादावपि सन्देहवान् भवतितटस्थ इति वक्तव्यम् ।

एवं च वाक्यद्वयजन्यभौतिकत्वादिप्रतीतिलक्षणसाधारणधर्मदर्शनजन्य एव अयं भौतिकत्वादिसंशय इत्यायातम् । भौतिकत्वेन प्रतीतेश्च धर्मिभूतेष्विन्द्रियेषु कोटिभूतेषु पृथिव्यादिषु च विषयतासंबन्धेन सत्वात् साधारण्यम् । एवम् अभौतिकत्वेन प्रतीतेरपि धर्मिभूतेषु इन्द्रियेषु कोटिभूतेषु कालादिषु च विषयतासंबन्धेन सत्वात् साधारण्यमुपपादनीयम् ।

अत एव पद्धतौ साधारणधर्मभूतायाः प्रतीतेर् धर्मिकोट्यालिङ्गितत्वं विषयतासंबन्धेनोपपादयितुमेव तथा तथा प्रतिपन्नत्वम् इत्यभिहितम् इत्यवगन्तव्यम्।

प्रमाणलक्षणटीकाविवरणं

संशयकारणेषु विवादस्य विद्यमानत्वेन स्वयं तत्वं वक्तुम् अन्यदीयमतं दूषयितुं तदनुवदति ॥ प्रत्येकमिति ॥ समानधर्मादिमात्रस्येव संशयकारणत्वे घटत्वेन निश्चितेपि घटपटसाधारणपृथिवीत्वदर्शनेन घटेऽप्ययं घटः पटो वेति संशयः स्यादित्यत उक्तम् ॥ प्रत्येकमिति ॥ अत्रच प्रत्येकं निश्चायकाभावसहकृतस्येत्यस्य असमानधर्मादिनापि संबंध इति ज्ञेयम् ।

॥ असमानधर्मादिति ॥ असाधारणधर्मादित्यर्थः । असाधारणधर्मत्वं च तद्वृतित्वे सति तदितरावृत्तित्वम् । आकाशविशेषगुणत्वं च शब्दवृत्तित्वे सति तदितरनित्यानित्यावृत्तीति भवत्यसाधारणधर्म इत्यर्थः । तथाच नित्यव्यावृत्ता-काशविशेषगुणत्वाच्छब्दः किमनित्यो ऽनित्यव्यावृत्ताकाशविशेषगुणत्वात्किं नित्य इत्यसाधारणधर्मदर्शनजन्यः संशयः ।

उपलब्ध्यनुपलब्ध्योः साधारणत्वमुपपादयति ॥ समानेति ॥ सतामेव घटादीनां प्रकाशादिनोपलब्धेर्विधमानत्वेनासतां च कुलालादिव्यापारानन्तरमुप-लब्धेर्विद्यमानत्वोपलब्धेः सत्वासत्वरूपकोटिद्वयसहचरितत्वेन साधारणत्वम् । एवमनुपलब्धेरपि द्रष्टव्यम् ।

स्वमतोपन्यासेनैवोपन्यस्तमतानां निराक्रियां मन्वानस्तत्वमाह ॥ असमान-धर्मविप्रतिपत्योरिति ॥ नन्वसाधारणधर्मस्य साधारणधर्मेऽन्तर्भावकथनं न युज्यते। असाधारणस्य साधारणाभिन्नत्वरूपत्वेनासाधारणस्य साधारणधर्मात्मकताया व्याहतत्वात् ।

किंच स्वमते साधारणधर्म एव नास्ति । साधारणत्वं हि एकस्य धर्मस्य अनेकत्र वृत्तित्वम् । नचैतत्स्वमते सम्भवति । सर्वेषामपि धर्माणाम् एकैकत्रैव सत्वस्याङ्गीकारात् । नचैकरूपप्रमेयत्वादिकमनेकवृत्तीति वाच्यम् । एकवृत्तित्वाभावात् ।

एतेन पुरोवर्तिनिष्ठस्य कोटिद्वयसहचरितत्वं साधारणत्वमित्यपि प्रत्युक्तम् । पुरोवर्तिनिष्ठस्य पुरोवर्तिन्येव सत्वेन धर्मान्तरे तस्य कोटिद्वयसहचरितत्वस्य वक्तुमशक्यत्वादिति । तस्मात्स्वमते साधारणधर्मत्वादेर्निर्वक्तुमशक्यत्वात् तत्रान्तर्भावकथनमयुक्तमिति चेत् ।

अत्र वक्तव्यम् । कोटिद्वयसहचरितत्वेन ज्ञातः संसयः कोट्युस्थापकः साधारणः व्यावृत्तिमुखेन ज्ञातःसन् यः कोट्युपस्थापकः सोऽसाधारणः । यथाचोर्ध्यत्वस्य स्थाणुत्वादिकोटिसहचरितत्वेन ज्ञातस्य कोटिद्वयोपस्था-पकत्वादस्यैव साधारणभिन्नत्वम् असाधारणत्वमित्यनिर्वचनात् स्वमतकोपो न व्याघातः । तदिह आकाशविशेषगुणत्वादिरूपासाधारणधर्मस्य स्वरूपसतो वा स्वरूपेण ज्ञातस्य वा कोटिस्मरणजनकत्वेन संशयजनकत्वाभावात् । व्यावृत्तिमुखेनैव ज्ञातस्य संशयजनकत्वं वक्तव्यम् । नित्यव्यावृत्तत्वा-नित्यव्यावृत्तत्वयोश्च घटादावाकाशादावनित्यत्वानित्यत्वरूपकोटिसहचरितत्वाद् व्यावृत्तत्वेन च ज्ञातस्य तस्य नित्यत्वानित्यत्वरूपकोट्युपस्थापकत्वेन सहचरितत्वेन ज्ञातः सन् यः कोट्युपस्थापकः स साधारण इति साधारण-लक्षणान्तर्गतत्वाद् भवत्येतस्य साधारणत्वम् ।

नन्वनित्यव्यावृत्तत्वनित्यव्यावृत्तत्वरूपधर्मद्वयस्य कोटिद्वयसहचरितत्वेन ज्ञातस्य कोटयुपस्थापकत्वमिति वैषम्यमिति वाच्यम् । एकस्यैव तदुपस्था-पकत्वमित्यस्य गौरवेणाप्रयोजकत्वात् । नियामकाभावाच्चेत्यलं पल्लवेन ।