यथार्थं प्रमाणम् ,तद् द्विविधम् ,केवलमनुप्रमाणं च
प्रमाणसामान्यलक्षणम्, प्रमाणविभागश्च
प्रमाणलक्षणटीका
प्रमाणानामित्युद्देशे सिद्धे प्रमाणसामान्यलक्षणमाह
प्रमाणलक्षणम्
***यथार्थं प्रमाणम् ***
प्रमाणमिति लक्ष्यनिर्देशः । यथार्थमिति लक्षणोक्तिः । एवमुत्तरत्रापि ज्ञातव्यम् । यथार्थं यथावस्थितार्थविषयीकारि। अर्थविषयीकारित्वमात्रस्य संशयविपर्ययसाधारण्याद् विशेषणोपादानम् । अर्थविषयीकारित्वेनैव प्रमेयादिव्युदासः। अर्यत इत्यर्थो ज्ञेयमुच्यते । अतो न गम्यविषयीकारि-गतावतिव्याप्तिः ।
तद्विभागमाह
प्रमाणलक्षणम्
***तद् द्विविधम् ***
प्रमाणानामानन्त्येपि साक्षात्पारम्पर्येण याथार्थ्यज्ञापनार्थोयं विभागः । एतदेव दर्शयन् द्वे विधे उद्दिशति
प्रमाणलक्षणम्
***केवलमनुप्रमाणं च ***
साक्षाद्यथावस्थितार्थविषयीकारि केवलम् । परम्परया तादृशमनुप्रमाणमिति ।
प्रमाणलक्षणटीकाभावदीपः
यथार्थमित्यत्र यथाशब्दो नातिक्रमार्थः । अर्थशब्दो ऽर्यते ज्ञायत इति व्युत्पत्या वस्तुपरः । ऋ गतौ इति धातोः क र्मणि औणादिके थप्रत्यये अर्थ इति रूपसिद्धेः । अर्थं ज्ञेयम् अनतिक्रान्तं यथार्थम् इत्यव्ययीभावसमास इत्यभिप्रेत्य फलितार्थमाह ॥ यथावस्थितार्थविषयीकारीति ॥ येन प्रकारेण अवस्थितं ज्ञेयं तथैव विषयीकारि ज्ञेयाव्यभिचारि इति यावत् ।
यथावस्थितत्वमात्रस्य प्रमातृप्रमेययोः सत्त्वेऽपि उत्तरदलेन तन्निरास इत्याह ॥ अर्थेति ॥ अर्थपदस्य विषयपर्यायत्वं मत्वा यथावस्थितविषयविषयीकारित्वं गमनक्रियायामतिव्याप्तमिति शङ्कमानस्योत्तरमाह ॥ अर्यत इति ॥ ज्ञेयशब्दस्य सम्बन्धिशब्दत्वात् ‘‘पितुर्धनं पुत्रस्य’’ इत्यादाविव स्वोपाधिना स्वनिमित्तेन वा यज् ज्ञेयम् उच्यते तद्विषयीकारि इत्यर्थः । भवति च घटादिर् ज्ञानतत्करणाभ्याम् उपाधिनिमित्ताभ्यां ज्ञेयः । न च गमनोपाधिना गमनेन निमित्तेन वा ग्रामो ज्ञेयः। अतो नातिव्याप्तिरिति भावेनोक्तम् ॥ अतो न गम्यविषयीकारिगताविति ॥ न चैवं प्रमाणलक्षणे स्वज्ञेयेति स्वपदेन प्रमाणोक्तौ ज्ञाप्तावन्योन्याश्रय आत्माश्रयो वेति शङ्क्यम्, स्वशब्देन ज्ञानतत्करणमात्रोपादानेन प्रमितितत्करणरूपविशेषा-नुपादानाद् इति भावः ।
॥ तद्विभागमिति ॥ प्रमाणविभागमित्यर्थः ॥ एतदेवेति ॥ साक्षात्त्वं पारम्पर्यं च दर्शयन्नित्यर्थः ॥ परम्परयेति ॥ न चैवं लक्षणस्याननुगमेन परस्पराव्याप्तिरिति शङ्क्यम् । केवलप्रमाण इवानुप्रमाणेऽपि साक्षादेव यथावस्थितार्थविषयकत्वस्य सत्त्वात् । ज्ञानस्येव तत्करणानामपि सविषयकत्वात्। परं तु ज्ञानं विषयस्य ज्ञेयताम् उपाधितया करणानि तु उपाधिजनकतया संवादयन्तीति ज्ञेयत्वसम्पादनमात्र एव साक्षात् पारम्पर्यम् इति भावेनैव साक्षात् पारम्पर्येणे-त्युक्तत्वात् । न ह्येतावताऽव्याप्त्यादिप्रसङ्गः सर्वत्र लक्षणेषु किञ्चिद्वैलक्षण्यस्य वक्तुं शक्यत्वाद् इति तात्पर्यात् ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
मन्दानां लक्ष्यलक्षणवैपरीत्यभ्रमवारणायाह ॥ प्रमाणमितीति ॥ एवमिति ॥ एतन्न्यायेनेत्यर्थः ॥ उत्तरत्रापीति ॥‘यथार्थज्ञानं केवलम् इत्यादावपीत्यर्थः ॥ विशेषणेति ॥ यथावस्थितेति विशेषणेत्यर्थः ॥ अर्थ-विषयीकारित्वेनेति ॥ न तदर्थं विशेषणान्तरं देयमित्यर्थः । प्रमेयादीत्यत्र आदिपदेन प्रमातृग्रहणम् ।
नन्वेेवं यथावस्थितोऽर्थो यो गम्यरूपो ग्रामादिस् तद्विषयीकारित्वस्य गतावपि विद्यमानत्वाद् अतिव्याप्तिरित्यत आह ॥ अर्यत इति ॥ ऋ गतौ इति धातोर् अर्यते गम्यत इत्यर्थः । नच ज्ञेयत्वस्य केवलान्वयित्वेन गम्यस्यापि ग्रामादेर् ज्ञेयतया पुनः गतावतिव्याप्तिरिति वाच्यम् । स्वनिमित्तकज्ञेयत्वोपेतज्ञेयविषयीकारित्वस्य विवक्षितत्वात् । गम्यस्य ग्रामादेर्ज्ञेयतायाश्च गमननिमित्तकत्वाभावात् । न चैवमात्माश्रयः । ‘स्वगुणग्राहकमिन्द्रियं श्रोत्रं’ इत्यादाविव स्वत्त्वेन प्रवेशस्य अदोषत्वाद् इति द्रष्टव्यम् ।
॥ आनन्त्येऽपीति ॥ व्यक्तिभेदेनेत्यर्थः ॥ याथार्थ्येति ॥ यथावस्थितज्ञेय-विषयीकारित्वेत्यर्थः ॥ एतदेवेति ॥ साक्षात् पारम्पार्येण याथार्थ्यमेवेत्यर्थः ॥ परम्परया तादृशमिति ॥ साक्षद् यथावस्थितार्थविषयीकारिज्ञानद्वारा स्वयमपि तादृशमित्यर्थः ॥
प्रमाणलक्षणटीकाविवरणं
नन्वेवम् उद्देशादेशदेरावश्यकत्वे उद्देशमकृत्वैवाचार्येण कथं लक्ष्यलक्षणविवेकमाह ॥ प्रमाणमितीति ॥ उक्तन्यायमन्यत्रातिदिशति ॥ एवमिति ॥
ननु यथार्थं प्रमाणमित्यत्र यथाशब्दस्य योग्यतावीप्सापदार्थानतिवृत्ति-सादृश्यानि चत्वारो अर्थाः संभवंति । तत्र प्रकृते यथाशब्दस्य योग्यतार्थकत्वे वाक्यशेषाभावेन अर्थस्य योग्यतेत्यर्थलाभेनार्थयोग्यतायाः प्रामाण्यापत्तिः । एवं वीप्सार्थकत्वे अर्थम् अर्थं प्रतीत्यर्थलाभेनार्थं प्राप्य वर्तमानानां रूपादिधर्माणां प्रामाण्यापत्तिः ।
सादृश्यार्थकत्वे सादृश्यार्थकस्यैव यथाशब्दस्य ‘‘यथाऽसादृश्ये’’ इति सूत्रेण समासविधानेन समासानुपपत्तिप्रसङ्गात् । समासान्तरस्य च असामर्थ्यादि-प्रतिहतत्वात् । तस्मात्पदार्थानतिवृत्यर्थस्येदं ग्रहणम् ।
अर्थशब्दस्यापि ‘‘अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु’’ इत्यनेकार्थत्वात्तत्र त्वप्रकृते अभिधेयार्थत्वे तमनतिक्रम्य वर्तमानस्याभिधानस्य प्रामाण्यापत्त्या इंद्रियादावव्याप्त्या च द्रव्यार्थत्वे तदनतिक्रम्य वर्तमानस्य व्ययस्य प्रामाण्यापत्त्या वस्त्वर्थकत्वे तद्गतवस्तुत्वादेः प्रामाण्यापत्त्या प्रयोजनार्थत्वे तमनतित्रम्य वर्तमानस्य साधनस्य प्रामाण्यापत्त्या तदर्थत्वस्यासम्भवाद् विषयापरपर्यायज्ञेयस्यैव ग्रहणम् । तथाच अर्थं विषयं नातिवर्तते न व्यभिचरति यत् तत्प्रमाणमित्युक्तं भवति ॥
एतच्च सकर्मकगमनादिक्रियासाधारणमिति तत्रातिव्याप्तिरित्यत आह ॥ यथार्थमिति ॥ नच गमनोपाधिना गमनेन निमित्तेन वा ग्रामो ज्ञेयः । येन तमनतिक्रम्य वर्तमानं गमनं यथार्थं स्यात् । किंतु गम्यमेव । तत्कथमिति प्रसङ्गः । भवति ज्ञानतत्करणाभ्याम् उपाधिनिमित्ताभ्यां घटादिर्ज्ञेय इति न कोऽपि दोषः । क्रमेणैव तद्गतव्यावर्त्यमाह ॥ अर्थेति ॥ यथावस्थितत्वमात्रस्यैव तल्लक्षणत्वे तस्य प्रमेयादिसाधारण्यापत्त्या तत्रातिव्याप्तिरतोऽर्थविषयीकारित्वमुक्तमित्याह ॥ अर्थेति ॥
नन्वेवमपि गमने अतिव्याप्तिः । तस्यापि यथावस्थितग्रामविषयीकारित्वात्। नचार्थशब्देन ज्ञेयं विवक्षणीयं तत्र तस्य रूढेरभावेपि योगेन तदुपपद्यत इत्याह ॥ अर्यतइति ॥ ऋ गतावित्यस्माद्धातोः ‘‘उषित्कुषिगार्गिभ्यस्थन्’’ इति सूत्रेण थन्प्रत्यये समागते सार्वधातुकेति गुणे जाते रपरे च जातेऽर्थ इति रूपं निष्पद्यते।
नचैवमपि गमने अतिव्याप्तिः स्यादेव । ग्रामस्यापि ज्ञेयत्वात् । अन्यथा तदत्यन्ताभावप्रसङ्गादिति वाच्यम् । ज्ञेयादिशब्दानां संबंधिशब्दत्वात्स्व-ज्ञेयविषयीकारित्वस्यैव लाभात् ॥ साक्षात्पारंपार्येणेति ॥ साक्षाज्ज्ञेय-विषयीकारित्वपरंपरया ज्ञेयविषयीकारित्वरूपप्रमाणविभाजकोपाधिद्वैविध्याद् द्वैविध्यमित्यर्थः ।
॥ एतदेवेति ॥ साक्षाज्ज्ञेयविषयीकारित्वं परंपरया ज्ञेयविषयी-कारित्वमेवेत्यर्थः ॥ साक्षादिति ॥ ज्ञेयत्वोपाधितयेत्यर्थः । नतु केवलमिति सञ्ज्ञानिरुक्त्यैव यथावस्थितज्ञेयविषयीकारित्वरूपलक्षणलाभात् ।