द्विविधं लक्षणम्, यावल्लक्ष्यभावि अयावल्लक्ष्यभावि चेति
लक्षणविभागः
प्रमाणलक्षणटीका
द्विविधं लक्षणम्, यावल्लक्ष्यभावि अयावल्लक्ष्यभावि चेति । तत्राद्यं यथा, पृथुबुध्नोदराकारो घट इति । द्वितीयं यथा, भोगायतनं शरीरमिति । तत्राद्यमेव व्युत्पाद्यम् । तस्यैव सार्वत्रिकव्यवहारोपयोगित्वादिति भावेनोक्तम् ॥ स्वलक्षण-मिति ॥ तदेव हि स्वरूपभूतं लक्षणं यद् यावल्लक्ष्यभावीति ।
प्रमाणलक्षणटीकाभावदीपः
अथेदानीम् उद्देशादीनां स्वरूपादिकमाह ॥ नाममात्रेणेति ॥मात्रपदेन लक्षणवाक्यव्यवच्छेदः । आदिपदेन विभागविशेषलक्षणपरीक्षाणां ग्रहः । कस्य लक्षणं ब्रूयादित्युपलक्षणम् । कथं विभजेद् विशेषलक्षणं वा कथं बूयात् ? लक्षणादिविषयपरीक्षां वा कथं कुर्यात् ? इत्यपि ग्राह्यम् । क्वचिद् लक्षणादीति पाठः ।
॥ विधेति ॥ अवान्तरभेदकीर्तनमित्यर्थः ॥ तदुक्तिरिति ॥ द्विविधं त्रिविधमिति विभागोक्तिरित्यर्थः ॥ लिङ्गत्वनिश्चयार्थेति ॥ तस्य केवल-व्यतिरेकित्वोक्तेरिति भावः ॥ स्वरूपेति ॥ असिद्धिपदमत्राप्यन्वेति । अनवस्था-निवृत्यर्थमाह ॥ बुद्धिदोषनिवृत्तिपर्यन्तेति ॥ अयुक्तत्वशङ्कारूपबुद्धिदोषेत्यर्थः ॥ उद्देशादय इति ॥ उद्देशलक्षणविभागपरीक्षा इत्यर्थः । एतेन प्रमाणानाम् इति मूलपदस्य उद्देशतासिद्ध्र्यतीति भावः । इतिशब्दः कण्ठोक्तस्य प्रोपसर्गोक्तस्य च लक्षणोद्देशादेः स्वरूपाद्युक्तिसमाप्तौ ॥
वक्ष्यतीति ‘न प्रमासाधनं प्रमाणं’ ‘न चानुभूतिरेव प्रमाणं’ इत्यादिनेति भावः । स्वेतिपदस्य कृत्यं वक्तुमाह ॥ द्विविधमिति ॥ भोगायतनमिति ॥ जीवापेतशरीरे भोगायतनत्वाभावादिति भावः । लक्ष्यभावीति इतिशब्दः श्लोकव्याख्यासमाप्तौ ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
॥ नाममात्रेणेति ॥ वस्तु सम्यक् कीर्त्यते प्रतिपाद्यतेऽनेनेति वस्तुसङ्कीर्तनम् । ‘कृत्यल्युटो बहुलम्’ इति करणे ल्युट् । वस्तुनः समीचीनप्रतिपत्तिसाधनमित्यर्थः । साधनम् उद्देश इत्युक्ते कुठारेऽतिव्याप्तिः । तदर्थं प्रतिपत्तीति।
एवमपि विभ्रमसाधने । अत उक्तं समीचीनेति । एवमपि समीचीनप्रतिपत्ति-साधने चक्षुरादिप्रमाणे । अत उक्तं नाम्नेति । शब्देनेत्यर्थ शब्देन या वस्तुसमीचीन-प्रतिपत्तिस् तत्साधनं, वस्तुसमीचीनप्रतिपत्तिकरणं शब्द इत्यर्थः ।
एवमपि लक्षणवाक्ये । अत उक्तं मात्रेति । तदर्थस्तु अविवरणरूपत्वम् । लक्षणवाक्यानां सर्वेषां लक्ष्यविवरणरूपत्वात् । तथा च समीचीनवस्तुप्रति-पत्तिसाधनाविवरणरूपः शब्द उद्देश इति फलितार्थः ।
अविवरणरूपः शब्द उद्देश इत्युक्ते गाय्यादिरूपे भाषाशब्दे गतम् । अत उक्तं समीचीनेति । शब्दविशेषणमेतत् । अपभ्रंशभिन्नत्वं तदर्थः । अपभ्रंशभिन्ना-विवरणरूपः शब्द उद्देश इत्युक्ते जबगडदश् इत्यादौ गतम् । अत उक्तं वस्तुप्रति-पत्तिसाधनमिति ।
न च तस्यापि ‘स्वं रूपं शब्दस्य’ इत्युक्तत्वेन स्वाख्यवस्तुप्रतीतिसाधनत्वान् नातिव्याप्तिवारणमिति वाच्यम्, वस्तुपदेन स्वप्रतिपाद्यस्वातिरिक्तवस्तुनो विवक्षितत्वात् । ‘जबगडदश्’ इत्यादौ निरर्थकत्वेन स्वप्रतिपाद्यस्वातिरिक्तवस्तु-प्रतिपत्तिसाधनत्वाभावान् नोक्तदोषः ।
शास्त्रबहिर्भूतैतादृशशब्देऽतिव्याप्तिवारणाय शास्त्रप्रविष्टत्वे सतीत्यपि शब्द-विशेषणं द्रष्टव्यम् । तथा च शास्त्रप्रविष्टो ऽपभ्रंशभिन्नः स्वप्रतिपाद्यस्वातिरिक्तवस्तु-समीचीनप्रतिपत्तिसाधनाविवरणरूपः शब्द उद्देश इति पर्यवसितलक्षणं द्रष्टव्यम्।
ननु वस्तुप्रतिपत्तिसाधनाविवरणशब्द उद्देश इति शब्दघटितोद्देशलक्षणस्य मौनिकृतोद्देशेऽव्याप्तिर् इति चेन्न । अत्र शब्दपदेन पदोपस्थित्यनुकूलवक्तृव्यापार-मात्रस्य विवक्षितत्वात् । तत्रापि मानसिकव्यापारस्य सत्त्वादिति ध्येयम् ।
अन्ये तु कीर्तनम् उद्देश इत्युक्ते गङ्गाघोषेऽतिव्याप्तिः । तदर्थं समित्युक्तम् । ताल्वोष्ठपुटव्यापारेणोच्चारणं तदर्थः । तावन्मात्रं वन्ध्यासुत इति शब्दे गतम् । अतो वस्त्विति । तथाऽपि काकरवे गतम् । अतो नाम्नेति । संस्कृतनाम्नेति तदर्थः । तेन तस्यापि यत्किञ्चिन्नाम्ना वस्तुसङ्कीर्तनरूपत्वात् कथम् अतिव्याप्तिवारणमिति शङ्कानवकाशः । तथापि गन्धवती पृथिवी इति लक्षणवाक्येऽतिव्याप्तिः । अत उक्तं मात्रेति । तदर्थस्तु असाधारणधर्मानुपरागेणेति ।
नन्वेवमपि पृथिवी इत्युद्देशे पृथिवीत्वरूपासाधारणधर्मोपरागेणैव वस्तु-सङ्कीर्तनसद्भावादव्याप्तिः । अतो लक्ष्यतावच्छेदकातिरिक्तासाधारणधर्मा-नुपरागेणेति व्याख्येयम् । तथा च लक्ष्यतावच्छेदकातिरिक्तासाधारणधर्मानुपरागेण संस्कृतनाम्ना ताल्वोष्ठपुटव्यापारेण वस्तुसङ्कीर्तनम् उद्देश इति पर्यवसितोऽर्थ इत्याहुः।
उद्देशस्य कथं लक्षणाद्युक्तिसम्भावकत्वं ? इत्यत आह ॥ अनुद्दिश्येति ॥ विधेति ॥ प्रकारभेदकथनमित्यर्थः । ‘प्रकारवचने धाल्’ इति स्मरणादिति भावः ॥ अवान्तरेति ॥ अविभज्य कस्यावान्तरोद्देशादिकं कुर्यादिति भावः ।
॥ युक्तायुक्तेति ॥ लक्षितस्य लक्षणम् उपपद्यते न वा इति विचारः परीक्षेत्यर्थः । ननूद्देशविषयिणी परीक्षा कुतो न सम्भवति ? इत्यत आह ॥ फलाभावेनेति ॥ उद्देशविषयिणी परीक्षा किं मानमित्युद्देशः कर्तव्यः? उत प्रमाणमिति ? इत्येवंरूपा वक्तव्या । सा व्यर्था मानप्रमाणशब्दयोर् एकार्थत्वेन तथाविधपरीक्षायाः फलाभावेन नाममात्रे विवादायोगाद् इत्यर्थः । तस्य लक्षणस्य ।
॥ न हीति ॥ लक्षणस्य असम्भवित्वे तस्य हेतूकरणे स्वरूपासिद्धिः, लक्षणस्याव्याप्तत्वे तस्य च हेतूकरणे भागासिद्धिर् लक्षणस्यातिव्याप्तत्वे तस्य च हेतूकरणे व्यभिचार इत्यर्थः ।
ननु परीक्षाविषयकपरीक्षाङ्गीकारेऽनवस्था स्याद् इत्यत आह ॥ बुद्धिदोषेति ॥ बुद्धिदोषशब्देनाप्रामाण्यशङ्कोच्यते । तावत्पर्यन्तमेवाप्रमाण्यशङ्कापरिहाराय परीक्षाविषयकपरीक्षा अङ्गीकार्या यावत्पर्यन्तं सुखादौ नावतारः । ततः परं तु न शङ्क्यत एव । अतो नानवस्थेति भावः । यथोक्तम् –
‘न परीक्षानवस्था स्यात् साक्षिसिद्धे त्वसंशयात्’ इति
॥ तत्सौष्ठवेति ॥ युक्त्यनुसन्धानरूपरीक्षाया निःशङ्कप्रवृत्तिहेतुत्वा-परपर्यायसौष्ठवेत्यर्थः ॥ वक्ष्यतीति ॥ ‘‘न प्रमासाधनं प्रमाणं’’ इत्यादिनेत्यर्थः। अतो युक्तमपूर्वनिर्माणमिति भावः ॥ यावल्लक्ष्यभावीति ॥ यावत्पर्यन्तं लक्ष्यं तावत्पर्यन्तं विद्यमानमित्यर्थः ।
॥ अयावदिति ॥ यावत्पर्यन्तं लक्ष्यं तावत्पर्यन्तम् अभावीत्यर्थः ॥ भोगेति ॥ सुखदुःखानुभवो भोगस् तदायतनं तदवच्छेदकमित्यर्थः । तथा च यदवच्छिन्ने आत्मनि भोगो जायते तत् शरीरम् । इदं च लक्षणं मृतशरीरेऽभावाद् अयावल्लक्ष्य-भावि इति भावः ।
॥ व्युत्पाद्यमिति ॥ व्युत्पादकेन वक्तव्यमित्यर्थः । ननु भगवत्पादैः स्वरूप-भूतलक्षणकथनस्यैव प्रतिज्ञातत्वात् कथं यावल्लक्ष्यभाविलक्षणकथनाभिप्रायेण स्वलक्षणमित्युच्यते? इत्यत आह ॥ तदेव हीति ॥ ननूद्देशमकृत्वा कथं प्रमाण-लक्षणमुच्यते ? अतो न्यूनतेत्यत आह ॥ प्रमाणानामिति ॥
प्रमाणलक्षणटीकाविवरणम्
॥ नाममात्रेणेति ॥ अत्र च यद्यपि कृतसङ्कीर्तन इति सङ्कीर्तनस्य धात्वर्थत्वेन कीर्तनमित्येतावतैव गङ्गाघोषादावतिव्याप्तिपरिहारसंभवात्समिति व्यर्थम्। तथाऽपि विशिष्टवाचकानां पदानां विशेषणवाचकपदसन्निधाने विशेष्यमात्रपरत्वात् सार्थक्यमिति बोध्यम् ।
कीर्तनत्वमात्रं गङ्गाघोषादिसाधारणमतः समित्युक्तम् । तस्य चोच्चारण-मात्रमेवार्थः । तावन्मात्रेणैव गङ्गाघोषादिव्यावृत्तेः । नतु ताल्वोष्टपुटव्यापारेण उच्चार्यमाणत्वम् । व्यर्थविशेषणत्वादिति बोध्यम् । तावन्मात्रं वंध्यासुत इत्यादिशब्दसाधारणम् । तस्याप्युच्चार्यमाणशब्दत्वात्तत्परिहारार्थं वस्त्विति । तस्य चावस्तुत्वेन वस्तुसङ्कीर्तनत्वाभावान्नातिव्याप्तिः । वस्तुसङ्कीर्तनमित्येतावन्मात्रं काकरवे गतं तत्परिहारार्थं नाम्नेति । नच तस्यापि यत्किंचिन्नाम्ना वस्तुसङ्कीर्तन-त्वात्तत्रातिव्याप्तिः स्यादेवेति वाच्यम् । नाम्नेत्यस्य संस्कृतनाम्नेत्यर्थकरणात् ।
ननु तथाऽपि गंधवती पृथिवीति लक्षणवाक्ये अतिव्याप्तिः स्यादेव । तस्यापि संस्कृतनाम्ना वस्तुसङ्कीर्तनत्वादिति चेन्न । मात्रपदोपादानात् । तदर्थस्तु असाधारणधर्मानुपरागेणेति ॥ तथाच गंधवती पृथिवीति लक्षणवाक्ये गंधवत्वरूपा-साधारणधर्मोपरागेणैव वस्तुसङ्कीर्तनत्वेन तदनुपरागेण वस्तुसङ्कीर्तनत्वाभावेन् आतिव्याप्तेरभावात् ।
नचैवं पृथिवीत्युद्देशे अव्याप्तिः । तस्य पृथिवीत्वरूपासाधारणधर्मोपरागेणैव वस्तुसङ्कीर्तनत्वेन तदनुपरागेण तत्वरूपत्वाभावादिति वाच्यम् । लक्ष्यतावच्छेदका-तिरिक्तसाधारणधर्मानुपरागेण संस्कृतनाम्नोच्चार्यमाणत्वं तत्वमिति विवक्षितत्वात्। पृथिवीत्युद्देशस्य पृथिवीत्वरूपलक्ष्यतावछेदकातिरिक्तासाधारणधर्मानुपरागेण तद्रूपस्य विद्यमानत्वेनाव्याप्त्यभावात् ।
नन्वेवमपि पृथिवीत्ववती लक्षणवाक्ये अतिव्याप्तिः स्यादेव । तस्यापि पृथिवीत्वरूपलक्ष्यतावछेदकातिरिक्तासाधारणधर्मानुपरागेण वस्तुसङ्कीर्तनत्वस्य सत्त्वादिति चेन्न । अप्रयुक्तत्वरूपविशेषणोपादानात् ।
तथाच लक्ष्यतावछेदकातिरिक्तासाधारणधर्मानुपरागेण संस्कृतनाम्ना लक्षण-तया अप्रयुक्तवस्तुसङ्कीर्तनम् उद्देश इति लक्षणं पर्यवस्तितम् । लक्ष्यतावछेदका-तिरिक्तेति पृथिवीत्युद्देशे अव्याप्तिवारणाय गंधवती पृथिवीति लक्षणवाक्ये अतिव्याप्तिवारणाय असाधारणधर्मानुपरागेणेति संमतं तव । तस्य च तावद्विशेषण-प्रतिनिक्षिप्यापि पृथिवीत्ववती पृथिवीति लक्षणवाक्येतिव्याप्तिवारणायावश्यकेन लक्षणतया अप्रयुक्तमिति विशेषणेनैव व्यावृत्तिसंभवेन व्यर्थत्वात् ।
नाममात्रेणेत्यस्य स्वमात्रवाचकशब्दवैशिष्ट्यमात्रेणेत्यर्थः । तथाच न लक्षणवाक्येऽतिव्याप्तिः । तेन पृथिवीत्वादिधर्मवैशिष्ट्येनापि पृथिवीप्रतिपादनात्। नच प्रमेयमिति प्रमाणोद्देशात्मके अव्याप्तिः । तत्र प्रथममात्रशब्दार्थासंभवादिति वाच्यम् । तत्र लक्षणासंभवेनानुद्देश्यत्वादित्याहुः ।
॥ युक्तायुक्तेति ॥ लक्षितस्य लक्षणमुपपपद्यतेनत्वेति चिन्तेत्यर्थः । तेन मेषस्यांडं कियत्पलम् । गर्दभस्य कति रोमाणि इति युक्तायुक्तचिन्ताया अपि तथात्वं स्यादिति निरस्तम् । लक्षणविषयकपरीक्षावदुद्देशविषयणी परीक्षा किं वर्तते नेत्याह ॥ सेति ॥ कुत इत्यत आह ॥ नहीति ॥ लक्षणस्यासंभवे हेतोरसिद्धिः । लक्षणाव्याप्तौ हेतोर्भागासिद्धिः । अतिव्याप्तौ च व्यभिचार इति बोध्यम् ।
नन्वेवं परीक्षाया अपि परीक्षासत्वे अनवस्था स्यादित्यत आह ॥ बुद्धिदोष इति ॥ तत्प्रयोजनमाह ॥ तत्सौष्टवेति ॥ तस्य युक्तत्वस्य युक्तत्वसिद्ध्यर्थः।