नाममात्रेण वस्तुसङ्कीर्तनमुद्देशः
उद्देशादीनां स्वरूपम्
प्रमाणलक्षणटीका
नाममात्रेण वस्तुसङ्कीर्तनमुद्देशः । स च लक्षणा-द्युक्तिसम्भावनार्थः । अनुद्दिश्य कस्य लक्षणादि ब्रूयात् । विधा विभागः । तदुक्तिरवान्तरोद्देशार्था ।
युक्तायुक्तचिन्ता परीक्षा । सोद्देशविषया न सम्भवति । फलाभावेन नाममात्रे विवादायोगात् । लक्षणपरीक्षा तस्य लिङ्गत्वनिश्चयार्था । न ह्यसम्भवाव्याप्त्यादिलक्षणस्वरूपा-सिद्धिभागासिद्धिव्यभिचारापरिहारे लिङ्गता निश्चीयते ।
विभागपरीक्षा न्यूनाधिकसङ्ख्याव्यवच्छेदमुखेन विभाग-समर्थनार्था । बुद्धिदोषनिवृत्तिपर्यन्ता परीक्षायाः परीक्षा तत्सौ-ष्ठवसिद्ध्यर्था । द्विधा चोद्देशादयः सामान्यतो विशेषतश्चेति ।
प्रमाणलक्षणस्यान्यैरेवोक्तत्वात् किमपूर्वनिर्माणेनेत्यतो वा प्रवक्ष्यामीत्युक्तम् । अन्योक्तीनामप्रकृष्टतां वक्ष्यति ।